तडितोऽधि वरुणः सम्बन्धात् ।
तडिदन्तेऽर्चिराद्येऽध्वन्यप्पतिस्तडितः परः । तत्सम्बन्धात्तथेन्द्रादिरप्पतेः पर इष्यते ॥ आगन्तूनां निवेशोऽन्ते स्थानाभावात्प्रसाधितः । तथा चेन्द्रादिरागन्तुः पठ्यते चाप्पतेः परः ॥ ३ ॥
तडितोऽधि वरुणः संबन्धात्॥३॥ स वायुलोकं स वरुणलोकमित्यत्रोक्ता वरुणादयो न तावत्पाठक्रमाद्वायोरुपरि निविशेरन् ; तेनादित्यमिति श्रुतिविरोधादेव, न च वायोरिव स्थानविशेषसंबन्धग्राहकस्त्येषां श्रुत्यादिकमतो नामीषां मार्गे निवेश इति पूर्वपक्षमाशङ्क्य सिद्धान्तमाह –
तडिदन्त इति ।
अर्चिराद्येऽध्वनिमार्गे तडिद्विद्युदन्ते श्रूयते चन्द्रमसो विद्युतमिति । अप्पतिरपां पतिश्च वरुणस्तडितः परः , कुतस्तत्सम्बन्धादप्पतित्वमेव तत्सम्बन्धे हेतुः । तडित उपरि सजलजलदा दृश्यन्ते , जलाधिपतिश्च वरुण इति । तथा सतीन्द्रादिरप्पतेः पर इष्यते ।
कस्मादत आह –
आगन्तूनामिति ।
आगन्तूनां स्थानविशेषसंबन्धरहितानामन्ते निवेशः प्रथमकाण्डे हि प्रसाधितः । तथा चेन्द्रादिरप्यागन्तुकत्वादन्ते वरुणस्योपरि निविशेतेत्यर्थः ।
न केवलमागन्तुकत्वादन्ते निवेशोऽपि तु पाठाच्चेत्याह –
पठ्यते चेति ।
‘‘अग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निर्वपेदि’’ति नक्षत्रेष्टिर्दार्शपौर्णमासिकी विकृतिराम्नाता । तत्रोपहोमाः श्रूयन्ते - ‘‘सोऽत्र जुहोति अग्नये स्वाहा कृत्तिकाभ्यः स्वाहे’’त्यादयः । सन्ति च प्रकृतेरतिदेशतः प्राप्ता नारिष्टहोमाः । तत्र किमुपहोमाः पूर्वमनुष्ठेयाः, उत नारिष्टा इति संशये प्रधानभूतनक्षत्रेष्ठ्यनन्तरं प्रत्यक्षपठिता उपहोमा अव्यवधानेन पूर्वमनुष्ठेयाः, आतिदेशिकास्त्वप्रत्यक्षत्वात् तद्व्यवधानेन पश्चात्कर्तव्या इति प्रापय्य पञ्चमे राद्धान्तितम् – अन्ते तु बादरायणस्तेषां प्रधानशब्दत्वा (जै.अ.५.पा.२.सू.१९)दिति । अन्ते वैकृतानां प्रयोगः । प्रकृतौ हि क्लृप्तोपकारमङ्गमुपकाराकाङ्क्षिणी विकृतिः प्रथमं गृह्णाति, ततः प्राकृतनारिष्टहोमानां प्रधानशब्दगृहीतात्प्राथम्यमितरेषां तु सन्निधिवशादाकाङ्क्षां परिकल्प्य पश्चात्प्रधानसंबन्धभाजामन्ते प्रयोग इति॥३॥