आतिवाहिकास्तल्लिङ्गात् ।
मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः । भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः ॥ अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके । न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतन्त्रक्रिया बुद्धिपूर्वा सम्भवत्यचेतनानाम् । तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे । अपि चार्चिष इत्यस्मादपादानं प्रतीयते । न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥ जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा । न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते । अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः । न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् । यावद्वचनं हि वाचनिकं न तदवाच्ये सञ्चारयितुमुचितम् । अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत । यतः श्रूयते ततोऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति । तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यते सम्पिण्डकरणानां हि सूक्ष्मदेहवतां गतौ । न स्वातन्त्र्यं न चाग्न्याद्या नेतारोऽचेतनास्तु ते ॥ ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतोऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य । न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः सम्पिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयोऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् । न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसम्भवे । नच परमेश्वर एवास्तु नेतेति युक्तम् । तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् । तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव दर्शनानुसाराच्छब्दार्थ इति युक्तम् । इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् ।
अनवस्थितत्वादर्चिरादीनामिति ।
अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति । अर्चिष इति च हेतौ पञ्चमी नापादाने । गुणत्वं चाश्रिततया । नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् । अपिच तेऽर्चिरभिसम्भवन्तीति सम्बन्धमात्रमुक्तमिति । सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् । यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥ यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्संनिधावुपनिपतति पदं कण्ठादि( ? )तदा तेनैतन्नियम्यते एवमिहापीति ॥ ४ ॥
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
वैद्युतेनैव ततस्तच्छ्रुतेः ।
विद्युल्लोकमागतोऽमानवः पुरुषो वैद्युतस्तेनैव न तु वरुणादिना स्वयमुह्यते । तच्छ्रुतेस्तस्यैव स्वयं वोढृत्वश्रुतेः । वरुणादयस्तु तत्साहायके वर्तमाना वोढारो भवन्तीति च वैषम्यं न वोढृत्वे इति सर्वमवदातम् ॥ ६ ॥
पाठक्रमादर्थक्रमो बलवानिति यथार्थक्रमं पठ्यन्ते सूत्राणि –
परं जैमिनिर्मुख्यत्वात् ।
स एतान् ब्रह्म गमयतीति विचिकित्स्यते । किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति । मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि । गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना ॥ ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति सम्भवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्यातुमुचितम् । अपि चामृतत्वफलावाप्तिर्न कार्यब्रह्मप्राप्तौ युज्यते । तस्य कार्यत्वेन मरणधर्मवत्त्वात् । किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् । न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् । प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते । यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति । न चैते तदवयवविषया न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते । न्यग्रोधावयवस्य तदवयवयोगात् । एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते । ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी । तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या । तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति । ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् । लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे । तस्मात्परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति । यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् । प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति । अत एव श्रुतिः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।
आतिवाहिकस्तल्लिङ्गात्॥४॥ अर्चिरादीनां क्रमं निरूप्य स्वरूपमिह चिन्त्यते । संबन्धात्तडित उपरि वरुण इत्युक्तमिहापि सादृश्यसंबन्धादर्चिरादीनां मार्गपर्वत्वमिति पूर्वपक्षमाह –
मार्गेति ।
न चैषां त्वावधिकानामिति ।
अवधिषु देशसीमासु स्थित्वा मार्गवाहका आवधिकाः ।
श्लोकगतभर्तृशब्दार्थमाह –
जीवात्मन इति ।
नन्वर्चिष इत्यादिपञ्चमीभिरर्चिरादीनां भोक्तृगमनहेतुत्वप्रतीतेश्चेतनत्वमिति, तत्राह –
अपि चेत्यादिना श्लोकेन ।हेतावित्यधिकारे ‘‘विभाषा गुणे ऽस्त्रिया’’मिति विहिता हेतुपञ्चमी नागुणाद्दृश्यते, किंतु गुणादेव, तत्रोदाहरणमाह –
जाड्यादिति ।
यद्यर्चिरादयो वोढारः प्रापकास्तर्हि विद्युदादयोऽपि प्रापकाः स्युस्तत्र विद्युत्स्थानादारभ्याऽमानवो वोढा न श्रूयतेऽन्यत एव वहनसिद्धेरित्याह –
अपि चेति ।
चेतनस्य स्वप्रयत्नहीनस्योर्ध्वदेशगमनं चेतनान्तराधीनमिति सिद्धान्तयति –
संपिण्डकरणानामिति ।
संकुचितकरणानामित्यर्थः ।
तत्र हेतुः –
सूक्ष्मदेहवतामिति ।
भूतसूक्ष्मात्मकसूक्ष्मदेहमात्रवतां स्थूलदेहरहितानामित्यर्थः ।
न चाग्न्याद्या इत्यादिश्लोकभागं व्याचष्टे –
तद्यदीति ।
कारस्करो वृक्षविशेषः । मेरुमभितो भूमिरिलावृतम् । सति श्रुतानां चैतन्यसंभव इति । धर्ममात्रकल्पनालाघवमुक्तम् ।
न्यायसिद्धेऽर्थे द्योतकं लिङ्गमाह –
इममेवेति ।
ननु वैशेषिकैरमूर्तवृत्तिवृत्त्यपरजात्याधारे गुणत्वं परिभाष्येते, न चार्चिरादयस्तथेति कथं तच्छब्देषु हेतुपञ्चमी? तत्राह –
न च वैशेषिकेति ।
गन्तॄन् प्रधानात् पत्यर्चिरादेः सहायत्वादस्ति गुणभूतत्वं लोकसिद्धमित्यर्थः॥४॥५॥
सामान्यवचन इत्यादिश्लोकं व्याचष्टे –
यथेत्यादिना ।
ननु यदि विद्युत्स्थानादारभ्यामानवो नेता, तर्हि वरुणादीनामनेतृत्वं वैषम्यं वाच्यम्, उभयनेतृत्वे वैयर्थ्यादत आह –
वरुणादयस्त्विति ।
अमानवः प्रधानो नेता, वरुणादयस्तु नयनेऽपि सहकारिण इत्येवं वैषम्यम्, न वोढृत्वे वैषम्यमित्यर्थः॥६॥