कार्यं बादरिरस्य गत्युपपत्तेः ।
तत्त्वदर्शीं बादरिर्ददर्श कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः । प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् ॥ तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतोऽनवच्छिन्नोऽवच्छिन्नमिवाभिन्नोऽपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते । अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् । तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्यग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् । नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः । एतदपि वस्तुतो विचारासहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते । विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः । तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् । न । परविद्यावत उत्क्रान्तिप्रतिषेधात् “ब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते”(बृ. उ. ३ । २ । ११) इति । यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयते “ब्रह्म वेद ब्रह्मैव भवति” (मु. उ. ३ । २ । ९) “आनन्दं ब्रह्मणो विद्वान्न बिभेति” (तै. उ. २ । ९ । १) “तदात्मानमेवावेदहं ब्रह्मास्मीति तत्सर्वमभवत्”(वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”(ई. उ. ७) इति पौर्वापर्याश्रवणात्परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यतेऽभिसन्धिः श्रुतेः । उपपन्नं चैतत् । न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत । नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः । श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे । न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरिति साम्प्रतम् । विकल्पासहत्वात् । किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा । न तावदनपेक्षा “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् । परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे । न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासम्भवात् । नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् । तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दोऽसम्भवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः । तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य । परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः । लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति । तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् । अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः । ग्रन्थयोजना तु प्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक्प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति ।
गौणी त्वन्यत्रेति ।
यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।
विशुद्धोपाधिसम्बन्धमिति ।
मनोमयत्वादयः कल्पनाः कार्याः । कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः । प्रतिसञ्चरो महाप्रलयः प्रतिपत्त्यभिसन्धिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् । अभिसन्धिस्तात्पर्यम् । यस्य ब्रह्मणो नामाभिधानं यश इति ।
पूर्ववाक्यविच्छेदेनेति ।
श्रुतिवाक्ये बलीयसी प्रकरणात् ।
सगुणेऽपि च ब्रह्मणीति ।
प्रशंसार्थमित्यर्थः ।
चोदयति –
ननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ।
न्यग्रोधवानरदृष्टान्त उपपादितः ।
परिहरति –
न । प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ।
अयमभिसन्धिः यथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग्भवितुमर्हति । काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य । शङ्कते –
जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ।
नह्युत्पत्त्यादिहेतुभावोऽपरिणामिनः सम्भवति तस्मात्परिणामीति । तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः ।
निराकरोति –
न । विशेषनिराकरणश्रुतीनामिति ।
विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् । अफलं तूत्पत्त्यादिविधानम् । तस्मात्फलवतः संनिधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः । तद्विजिज्ञासस्वेति च श्रुतिः । तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरोऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः । तस्मान्न गतिस्तात्त्विकी ।
अपि चेयं गतिर्न विचारं सहत इत्याह –
गतिकल्पनायां चेति ।
अन्यानन्यत्वाश्रयाववयवविकारपक्षौ । अन्यो वात्यन्तम् ।
अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आह –
अत्यन्ततादात्म्य इति ।
मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति । विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैः स्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् । नहि स्थिरात्मकमस्थिरं भवति । अन्यानन्यत्वे अपि चैकस्य विरोधादसम्भवन्ती इति भावः ।
अथान्य एव जीवो ब्रह्मणः ।
तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्पत इति ।
एतद्विकल्प्य दूषयति –
सोऽणुरिति ।
मध्यमपरिमाणत्व इति ।
मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् ।
न । मुख्यैकत्वेति ।
भेदाभेदयोर्विरोधिनोरेकत्रासम्भवाद्बुद्धिव्यपदेशभेदादर्थभेदः । अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः । अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः ।
ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह –
सर्वेष्वेतेष्विति ।
मतान्तरमुपन्यस्यति दूषयितुम् –
यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानं नित्यनैमित्तिकानीति ।
यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तोऽपि न पुनर्भवति । एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति । कर्मान्तराणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव । उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति । प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति ।
तदेतद्दूषयति –
तदसत् । प्रमाणाभावादिति ।
शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् ।
न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसङ्ख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याह –
न चैतत्तर्कयितुमपीति ।
चोदयति –
स्यादेतदिति ।
नित्येति ।
परिहरति –
तन्न विरोधाभावादिति ।
यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् । नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति । तस्मान्नैषां सुकृतविरोधितेति ।
अभ्युच्चयमात्रमाह –
नच नित्यनैमित्तिकानुष्ठानादिति ।
न चासति सम्यग्दर्शने इति ।
सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति । ज्ञानपरिपाके च न करोत्येव । अज्ञस्तु निपुणोऽपि प्रमादात्करोति । कृते च न क्षपयितुं क्षमत इति विशेषः ।
न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ।
कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् । नहि स्वभावाद्भावोऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् ।
न च भोगोऽपि सत्स्वभावः शक्योऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तम् –
स्वभावस्यापरिहार्यत्वादिति ।
समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः ।
भावमिममविद्वान्परिचोदयति –
स्यादेतत् । कर्तृत्वभोक्तृत्वकार्यमिति ।
अप्रकाशितभावो यथोक्तमेव समाधत्ते –
तच्च नेति ।
कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।
भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति –
परस्मादनन्यत्वेऽपीति ।
शेषमतिरोहितार्थम् ॥ ७ ॥
विशेषितत्वाच्च ॥ ८ ॥
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
स्मृतेश्च ॥ ११ ॥
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
दर्शनाच्च ॥ १३ ॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
कार्यं बादरिरस्य गत्युपपत्तेः॥७॥ गतिनिरूपणानन्तरं गन्तव्यमिह निरूप्यते । पूर्वपक्षयति –
मुख्यत्वादिति ।
ब्रह्मशब्दस्येति शेषः ।
ननु ब्रह्मशब्देन ब्रह्मा कमलासनोऽप्यभिधीयतेऽत आह –
नपुंसकमिति ।
गुणकल्पनयेति ।
कारणवाचिशब्दस्य कोऽर्थ उपचारकल्पनयेत्यर्थः ।
अमृतत्वप्राप्तेरित्येतद्व्याचष्टे –
अपि चेति ।
परप्रकरणादपीत्येतद्व्याकरोति –
किंचेति ।
शाखामृगो वानरः ।
न्यग्रोधेऽपि न प्राप्तप्राप्तिरवयवानामप्राप्तानां पुनः प्राप्तेरित्याशङ्क्याह –
न चैते इति ।
शाखामृगोऽवयवी न न्यग्रोधावयविना युज्येत, कुतस्तदवयवस्य शाखामृगावयवस्य न्यग्रोधावयवेन योगादित्यर्थः ।
ब्रह्मलोकमित्यत्र लोकशब्दविवरणम् –
स्वयंप्रकाशमिति ।
सिद्धान्तं संगृह्णाति –
कार्यमिति ।
अर्चिरादिगतिरुपासकान् कार्यब्रह्म प्रापयेत्तस्याप्राप्तपूर्वत्वेन गन्तुं योग्यत्वाद्, न तु परं ब्रह्म; तस्य जगदात्मकत्वेन प्राप्तत्वादित्यर्थः ।
ननु प्राप्तमपि परं ब्रह्मप्राप्यतां, न्यग्रोध इव शाखामृगेणेत्युक्तमित्याशङ्क्य विद्ययाऽविद्यादाहे भेदबाधादिह न तादृश्यपि गतिरित्याह –
तत्त्वमसीत्यादिना ।
प्राप्तप्राप्तिं दृष्टान्तेऽङ्गीकृत्य प्रकृते वैषम्यमुक्तमिदानीमनङ्गीकुर्वन्नाह –
न चेति ।
अप्राप्तस्य न्यग्रोधावयविन एवावयवान्तरोपहितस्य संबन्धितया उत्तरस्याः प्राप्तेरुपपत्तेरित्यर्थः ।
ननु तर्ह्यवयवपरंपरा परमाणुपर्यन्तं धावेदिति संयोगस्याप्रत्यक्षत्वमापादितम्, अत आह –
एतदपि चेति ।
काल्पनिकविभागमपेक्ष्य न्यग्रोधप्राप्त्यप्राप्ती । ते च वास्तवे ब्रह्मणि प्रतिबुद्धे न युक्ते इत्यर्थः ।
ननु ज्ञानोत्तरकालं देहधारणवदर्चिरादिगतिर्देशविशेषप्राप्तये किं न स्यादिति शङ्कते –
विदुषोऽपीति ।
अमृतत्वादिलिङ्गानां न्यायैः साकं विरोधिनाम् ।
दृढन्यायवतीर्वक्ति बाधिका विशदाः श्रुतीः॥
ब्रह्मैव सन्नित्यादीनां नोपायान्तरापेक्षेत्यभिसंधिः श्रुतेर्लक्ष्यत इति योजना ।
श्रुत्यनुग्राहकं न्यायमेव दर्शयति –
उपपन्नं चेति ।
लिङ्गाभासमणुः पन्था इत्याद्युद्धुष्य भास्करः । मोहयन्नपरान्मन्दाननेनैवानुकम्प्यते॥
यदुक्तं विदुषोऽपि सांसारिकधर्मानुवृत्तिवद् गत्युपपत्तिरिति, तत्राह –
न च छायामात्रेणेत्यादिना ।
यदा अश्वमेधादीनि कर्माण्यदृष्टार्थानि न फलन्ति, तदानीमदृष्टार्थानामर्चिरादिमार्गचिन्तनादीनां का कथेत्यर्थः ।
मा भूत् ज्ञानोत्तरकालमर्चिरादिमार्गचिन्तनमविदुषस्तु ब्रह्मप्राप्त्यर्थं तद्विधीयतामित्याशङ्क्याह –
न चार्चिरादीत्यादिना ।
अविदुष इति द्वितीयाबहुवचनम् ।
तमेव विदित्वेति ।
अनेनाहत्य ज्ञानातिरिक्तमार्गनिषेधादणुः पन्था इत्यादिषु ब्रह्मज्ञानमेव ब्रह्मप्राप्तिसाधनत्वात् पथ्यादिशब्दनिर्दिष्टमित्युक्तं भवति ।
यदुक्तं नपुंसकब्रह्मशब्दः परब्रह्मण्येव रूढ इति; तत्राह –
तस्मादिति ।
सामीप्यादिति ।
कार्यस्य कारणप्रत्यासत्तेरित्यर्थः ।
ननु ‘‘ब्रह्म वेद ब्रह्मैव भवती’’त्यादिश्रुतिसामर्थ्यैः कथं ‘‘स एतान् ब्रह्म गमयती’’ति ब्रह्मश्रुतिर्लक्षणया नीयेतेत्याशङ्क्य लोकादिश्रुतिवशादित्याह –
तथा च लोकेष्वितीति ।
ननु ब्रह्मलोकस्याप्येकत्वात् कथं बहुवचनोपपत्तिरत आह –
परस्य त्विति ।
अवयवद्वारेण सनिकृष्ट उपचारः स्यात्, परस्मिंस्तु विप्रकृष्टावयवानामपि कल्प्यत्वादित्यर्थः । अत्र भास्करः प्रललाप - यदि निर्गुणाया विद्याया गतिरनुपपन्ना, तर्हि सा सगुणास्वप्यनुपपन्नैव; सगुणस्यापि ब्रह्मणः तद्गुणानां च ज्ञानादीनाम् आकाशशब्दयोरिव व्यापित्वाद्, उपासकानामपीहैव तद्भावमापन्नानां तत्प्राप्तौ गत्यनपेक्षत्वात् । तत्र श्रुतिवशाद्यदि गतिः, तर्हि निर्गुणविद्याया किं न स्यात्? परप्रकरणेऽपि मुण्डकादौ ‘‘सूर्यद्वारेण ते विरजाः प्रयन्ती’’त्यादिभिर्गत्याम्नानात्, अङ्गीकृत्य च निर्गुणविद्यामिदमुक्तं, न तु निर्गुणं वस्त्वस्ति; यद्विद्या निर्गुणा स्यात्, ज्ञानादिभिर्गुणैर्ब्रह्मापि भिन्नाभिन्ना सगुणमेव –
इत्यादि, तत्राह –
अप्रमाणिकानां बहुप्रलापा इति ।
अयमभिसंधिः – सगुणब्रह्मणः सविशेषत्वाद् ब्रह्मलोके एवोपासकान् प्रति गुणाभिव्यक्तिर्नेहेति सम्भवति । दृश्यते च पृथिवीत्वाविशेषेऽपि मलयशैलादेश्चन्दनगन्धाद्यभिव्यञ्जकत्वं शब्दस्य चाकाशगुणस्य वंशाकाशादिदेश एवाभिव्यक्तिर्न सर्वत्र परस्य तु ब्रह्मणो न गुणाः सन्ति, येषां देशविशेषेऽभिव्यक्तिः । न निर्गुणं वस्त्वस्तीति च दुर्लभम्; सत्तादेर्निर्गुणत्वान्न निर्गुणं द्रव्यमस्ति । ब्रह्मापि द्रव्यत्वात्सगुणमिति चेत्किं द्रव्यत्वं गुणवत्त्वम् उपादानकारणत्वं वा । न प्रथमोऽसिद्धेः । द्वितीये उपादानत्वं किं परिणामित्वं विवर्ताधिष्ठानत्वं वा । नाग्रिमोऽसिद्धेरेव । न चरमः; सत्तादेरप्यन्यापोहत्वमात्रसंबन्धत्वाद्यारोपाधिष्ठानत्वेनानैकान्त्यात्, उपासकानां त्विहोपास्याविर्भावः प्रतिभासमात्रम् अन्त्यकाल इव भाविकर्मफलस्य । यदि तु साक्षादाविर्भावः स्यात्, तर्हि गतिवैयर्थ्यं स्यात् । तस्माद् ब्रह्मैश्वर्याविर्भावो ब्रह्मलोक एव ‘‘नान्यः पन्था’’ इत्यादि बहुश्रुतिभिश्च निर्गुणप्रकरणाद्गतेरुत्कर्ष इति दिक् ।
प्रत्यगित्यात्मेति च शब्दयोरपुनरुक्तमर्थमाह –
प्रति प्रतीति ।
प्रतिभावमधिष्ठानत्वेन गतस्य ब्रह्मणो गन्तॄणामात्मत्वादिति भाष्यार्थः ।
ननु लोकश्रुतिर्लोकनं प्रकाशः स एव लोक इति ब्रह्मणि यौगिकी, कथं जौणत्वमत आह –
यौगिक्यपीति ।
योगरूपो गुणः प्रकाशः ब्रह्मैकरसता तदपेक्षयेत्यर्थः ।
अविशुद्धा अपीति ।
गुणत्रयमया अपीत्यर्थः । भाष्ये विकल्पितौ विकारावयवपक्षावन्यानन्यत्वाश्रयौ भेदाभेदाश्रयावित्यर्थः ।
अन्यो वा ततः स्यादिति भाष्येण चात्यन्तमन्यत्वं विकल्पितमित्याह –
अन्यो वेति ।
विकारपक्षेऽप्येतत्तुल्यमिति भाष्यं व्याचष्टे –
मृदात्मतयेति ।
मृदात्मत्वे हेतुमाह –
तदभाव इति ।
ननु विकारिणोऽवयविनश्च स्थिरत्वेऽपि ताभ्यां भिन्नभिन्नौ विकारवयवौ, तत्र भिन्नत्वांशेनास्थिरत्वात्तयोर्गमनमित्याशङ्क्याह –
अन्यानन्यत्वे अपीति ।
अथान्य एव जीवो ब्रह्मण इत्येतदन्तमाशङ्काभाष्यं, सोऽणुरित्यादि तु विकल्पपरमिति ज्ञापनार्थमाह –
तथा चेति ।
भेदाभेदेऽप्येकत्वं न मुख्यमेव, किंतु भेदसत्त्वमात्रमतो भाष्यानुपपत्तिरित्याशङ्क्याह –
भेदाभेदयोरिति ।
बुद्धिव्यपदेशभेदादिति भेदप्रमाणोपन्यासः ।
प्रमिते च भेदे विरोधादभेदानुपपत्तौ विकारस्यावयवस्य वा जीवस्य तत्त्वमसीति ब्रह्मसामानाधिकरण्यं गौणं स्यादित्याह –
अयुतसिद्धतयेति ।
परिणामेति ।
विकारः परिणामः । क्षेतुं नाशयितुं ।
नित्यनैमित्तिकानां नित्येहिता दुरितनिवृत्तिः प्रत्यवायानुत्पत्तिर्वा फलं युज्यते, फलान्तरवत्त्वे काम्यत्वप्रसङ्गादित्यप्रेत्याह –
अभ्युच्चयमात्रमाहेति ।
क्रियाभोगशक्त्योः सत्योरपि तत्प्रतिबन्धात्कार्यानुदयः संभवति; तैलकलुषितशालिबीजादङ्कुरानुदयनियमवत्, अतो यथाश्रुतं भाष्यमनुपपन्नमित्याशङ्क्य व्याचष्टे –
कर्तृत्वभोक्तृत्वे इति ।
ताभ्यां शक्तिनिर्देशः समाक्षिप्तक्रियाभोगे इति कार्यकथनं, ततश्च कार्यशक्त्योरेकप्रहारेणैव दूषणमुच्यते सशक्तिके कर्तृत्वभोक्तृत्वे स्वभावावस्वभावौ वाऽऽत्मनः । न चरमः; तथा सति हि तयोरात्मनि समवायो वाच्यः ; स च द्वितीये दूषितः ।
न प्रथम इत्याह –
ततो न शक्याविति ।
अवरोपयितुम् उत्तारयितुं निवर्तयितुमित्यर्थः । स्वरूपाभावे आत्मन एव नाशप्रसङ्गादित्यर्थः ।
क्रियाभोगयोरात्मस्वरूपत्वे दूषणमुक्त्वाऽन्यत्वमभ्युपेत्यापि दोषमाह –
न च भोगोऽपीति ।
क्रियाया अप्युपलक्षणम् । क्रियाभोगयोः सत्त्वं स्वभावश्चेदसत्त्वं न स्यात्, कालभेदेन सदसत्त्वव्यवस्था चारम्भणाधिकरणे बभञ्जे । धर्मश्चेत्संबन्धो दुर्निरूपः ।
यथोक्तमेवेति ।
विकल्पमकृत्वेत्यर्थः । भविष्यति कदाचिदेषां समुदाचार आविर्भावो नित्यत्वादात्मनस्तद्गतशक्तेः कदाचिदुद्भवः संभवति, तैललिप्तस्य तु शालिबीजस्याल्पकालस्थायित्वाच्छक्तावनुद्भूतायामेव नाश इत्यङ्कुराद्यनुदय इत्यर्थः ।
निरस्तमपीति ।
प्राचीनेषु बहुष्वधिकरणेष्वित्यर्थः । एष ब्रह्मलोकः । हे सम्राडिति याज्ञवल्क्यस्य जनकं प्रति संबोधनम् । न तत्र च ब्रह्मैव लोक इति परं ब्रह्म विवक्षितम् । न च कार्ये इति सूत्रं सभादिनिर्देशात्कार्यविषया प्राप्तिरिति शङ्काया उत्तरम् । भाष्यगतोऽपिचनिर्देशः समुच्चयार्थः । एतच्छङ्कानिराकरणोपपत्तिसाहित्यं प्राचीनोपपत्तीनामाह - यशःप्रकाश आत्मा ब्राह्मणानामात्मा भवामीत्युपासकस्य स्वानुभवोक्तिः । ब्राह्मणानामित्युपलक्षणं सर्वेषामात्मा भवामीत्यर्थः । तस्य ब्रह्मणः प्रतिमा सदृशं वस्त्वन्तरं नास्ति यस्य यश इति महन्नामाभिधानम् । तत्तत्र ब्रह्मलोके परैरपराजिता पूः पुरमस्ति प्रभुणा हिरण्यगर्भेण विमितं निर्मितं वेश्म विद्यते । एतं ब्रह्मविदमन्तकाले न तपत्येव पुण्यं पापं च केन प्रकारेण, तमाह - अहमेतावन्तं कालं किं साधु नाकरवं किमिति च पापमकरवमित्येवंप्रकारेण न तपति न तापयतीत्यर्थः । शुङ्गं कार्यम् । अयनाय मोक्षगमनाय ॥७॥८॥९॥१०॥११॥१२॥१३॥१४॥