भामतीव्याख्या
वेदान्तकल्पतरुः
 

अविभागेन दृष्टत्वात् ।

यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य सम्पत्तृसम्पत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥ ४ ॥

अविभागेन दृष्टत्वात्॥४॥
स्वरूपावस्थितस्यापि जीवस्य ब्रह्मणोऽन्यता ।
आशङ्क्यतेऽत्र योगानामिव तेनास्ति संगतिः॥
पुनरुक्तिमाशङ्क्य परिहरन्पूर्वपक्षमाह –

यद्यपीति ।

तत्त्वमस्यादिवाक्यात्साधनभूतज्ञानपरात् स मुक्तः , तत्र ब्रह्मणि पर्येति परिगच्छतीत्यादिभिराधाराधेयभावव्यपदेशस्य परं ज्योतिरुपसंपद्येति च संपत्तुः संपत्तव्यभेदस्य च साध्यप्रधानभूतफलविषयतया प्राबल्यान्मुक्तौ परं ज्योतिर्ब्रह्म प्राप्यापि तस्माद्भेदेन स्वेन रूपेण मुक्तोऽवतिष्ठत इत्यर्थः । तत्राभिनिष्पन्नस्वरूपस्य स उत्तमः पुरुष इति तच्छब्दोत्तमपुरुषश्रुतिभ्यां परमात्मभावः फलं तत्त्वमस्यादिवाक्यानुगुणमवगम्यते ।

‘‘स तत्र पर्येती’’त्यादिफलस्य तु निर्गुणप्रकरणगतस्यापि ‘‘मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके’’ इति ब्रह्मलोकसंबन्धादिलिङ्गात्सगुणविद्यासूत्कर्ष इति सिद्धान्तयति सूत्रकार इत्याह –

समाधानार्थमिति॥४॥

इति द्वितीयमविभागेन दृष्टत्वाधिकरणम्॥