ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।
उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः । तथाज्ञातज्ञापनं विधिः । यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः । सर्वज्ञः सर्वेश्वर इति व्यपदेशः । नायमुद्देशो विधेयान्तराभावात् । नापि विधिरप्रतिपाद्यत्वात् । सिद्धवद्व्यपदेशात् । तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयते त एते उपन्यासादयः । एतेभ्यो हेतुभ्यः । भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः । मुक्तः सम्पद्यते स्वैरित्याह स्म किल जैमिनिः ॥ न च चित्स्वभावस्यात्मनोऽभावात्मानोऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति । नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच ॥ ५ ॥
चितितन्मात्रेण तदात्मकत्त्वादित्यौडुलोमिः ।
अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् । परस्परविरोधेन न भेदाभेदसम्भवः ॥ न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसम्भवः । ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरन् । अथ न भिद्यन्ते तत एकस्मादात्मनोऽभेदान्मिथोऽपि न भिद्येरन् । आत्मरूपवत् । आत्मरूपं वा भिद्येत । भिन्नेभ्योऽनन्यत्वान्नीलपीतरूपवत् । नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् । धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् । भेदे वा धर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् । भेदाभेदौ च परस्परविरोधादेकत्राभावान्न सम्भवत इत्युपपादितं प्रथमे सूत्रे । अभावरूपाणामद्वैताविहन्तृत्वेऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते । एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयोऽप्यौपाधिका व्याख्याताः ।
तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोऽर्थशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने । तदिदमुक्तम् –
शब्दविकल्पजा एवैते
अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति ॥ ६ ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।
तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते । बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥ एवमपीत्यौडुलोमिमतमनुजानाति ।
शौण्डीर्यं तु न सहत इत्याह –
व्यवहारापेक्षयेति ।
एतदुक्तं भवति - सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥ ७ ॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः॥५॥ ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वशङ्कनात्सङ्गतिः । सौत्रहेतुं व्याचष्टे –
उद्देश इत्यादिना ।
ज्ञातस्येति ।
ब्रह्मैश्वर्यस्येत्यर्थः । य आत्मेति हि वाक्ये यच्छब्दोपबन्धादन्यतो नेतिनेत्यादिवाक्यै सृष्टिवाक्यैश्च प्रतीतस्य पाप्माद्यभावस्य सत्यसङ्कल्पत्वादेश्चोद्देशः प्रतीयते, स उपन्यास इत्यर्थः । उद्देशापेक्षितश्च विधिरिह सोऽन्वेष्टव्य इत्यादिरिति बोद्धव्यम् ।
आदिशब्दार्थमाह –
अज्ञातज्ञापनमिति ।
विधिमेव दर्शयति –
यथेति ।
यच्छब्दोपबन्धाभावात् फलत्वेन च प्रतिपाद्यत्वादित्यर्थः ।
विधेयान्तराभावादिति ।
यद्यपि यः सर्वज्ञ इत्युपक्रम्य तस्मादेतन्नामरूपादि जायत इत्यस्ति विधेयान्तरं, यद्यपि चैष सर्वेश्वर इति प्रस्तुत्येषां लोकानामसंभेदायेति विधीयते; तथापि जीवोपयोगि किंचिदुपासनं फलं वा न विधेयान्तरमस्तीत्यर्थः ।
कथं तर्ह्येवंविधाद्व्यपदेशात् जीवः सर्वेश्वरत्वादिरूपो मुक्ताविति गम्येतात आह –
तन्निर्वचनसामर्थ्यादिति ।
तेषां सर्वेश्वरत्वादीनां निर्वचनं निष्कृष्य तात्पर्यतः प्रथनं, तस्मादनन्तरवक्ष्यमाणश्लोकप्रतिपाद्योऽयमर्थः प्रतीयते, इतरथा पराग्भूतेश्वरकथनस्य प्रयोजनाभावादित्यर्थः । एवं सौत्रं हेतुं व्याख्याय सौत्री प्रतिज्ञां व्याचष्टे - भावात्मकैरित्यारभ्य जैमिनिरित्यन्तेन श्लोकेन । यो मुक्तः स भाविकैः परमार्थभूतैर्धर्मैः स्वैः स्वस्येश्वराऽभेदात्स्वकीयैः सह परमेश्वरः संपद्यत इत्यर्थः ।
अभावात्मान इति ।
अवस्तुत्वादभावात्मकानामद्वैताव्याघातकत्वम्॥५॥
अनेकाकारतेति ।
एकस्यात्मनोऽनेकाकारता सर्वेश्वरत्वाद्यनेकाकारात्मकता न भवति , अत्र हेतुः –
एकत्वादिति ।
विपक्षे दण्डमाह –
नैकतेति ।
एकस्यानेकाकारत्वं वदन्प्रष्टव्यः किमेकस्यानेकाकारतावन्मात्रत्वम्, उतानेकाकाराणामेकवस्तुतावन्मात्रत्वम् । आद्ये एकस्यैकता न भवेत्, एवमनेकेषामेकतावन्मात्रत्वेऽनेकतापि न भवेदिति द्रष्टव्यम् ।
अथात्मन आकारैराकाराणां चात्मना सह भेदाभेदौ, तत्राह –
परस्परेति ।
भेदे वेति ।
धर्म्याभिन्नानामपि इतरेतरभेदे तैरभिन्नधर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् - आत्मरूपं वा भिद्येतेति ग्रन्थेनेत्यर्थः । यद्येकत्र भेदाभेदौ विरोधान्न भवतः, तर्हि मा भूतां भेद एवास्तु धर्माणाम् ।
न चाद्वैतव्याघातः; अभावरूपधर्माणामवस्तुत्वेन सदद्वैताविघातकत्वमित्युक्तत्वादत आह –
अभावरूपाणामिति ।
एतेनेति भेदाभेदनिषेधाद् भेदे च भावरूपत्वे सत्यकामत्वादीनां भवत्येवाद्वैतविघातकत्वम् । तस्मात्सत्यकामत्वादयोऽप्यौपाधिका विकल्परूपा इत्यर्थः॥६॥ अतिशौण्डीर्यमतिप्रागल्भ्यं दुर्वैदग्ध्यं धर्माणां तुच्छत्वाभ्युपगमप्रयुक्तं न मृष्यते न सहते ।
किमौडुलोमीयं मतं कलयाऽपि न स्वीचकार बादरायणः, नेत्याह –
मृष्यन्नभिहितं मतमिति ।
धर्माणामवस्तुत्वमित्यौडुलोमिनाऽभिहितं मतं मृष्यन् सहमान एवेति । मृष्यन्नपि हि तन्मतमिति पाठे तस्यौडुलोमेर्मतमित्यर्थः॥७॥