भामतीव्याख्या
वेदान्तकल्पतरुः
 

सङ्कल्पादेव तु तच्छ्रुतेः ।

यत्नानपेक्षः सङ्कल्पो लोके वस्तुप्रसाधनः । न दृष्टः सोऽत्र यत्नस्य लाघवादवधारितः ॥ लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः । न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते । तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमोऽनुमन्तव्यः । अवधारणं तु सङ्कल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् । यल्लघु तदसत्कल्पमिति ।

स्यादेतत् । यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयोऽप्यस्य सङ्कल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह –

नच सङ्कल्पमात्रसमुत्थाना इति ।

सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि । कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि । तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति । नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तम्पुष्कलं भोगमिति प्राप्तेऽभिधीयते पित्रादीनां समुत्थानं सङ्कल्पादेव तच्छ्रुतेः । न चानुमानबाधोऽत्र श्रुत्या तस्यैव बाधनात् ॥ प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ति न प्रमाणान्तरेण शक्या बाधितुम् । अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते । अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते । तस्माद्विद्याप्रभावाद्विदुषां सङ्कल्पमात्रादेव पित्राद्युपस्थानमिति साम्प्रतम् । तथाहुरागमिनः को हि योगप्रभावादृतेऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्ये सृजति । तस्मात्सर्वमवदातम् ॥ ८ ॥

अत एव चानन्याधिपतिः ॥ ९ ॥

संकल्पादेव च तच्छुतेः॥८॥ इत उपरि सगुणविद्याफलप्रपञ्चः । पूर्वत्र सप्रपञ्चनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकत्वाभ्यां व्यवस्थोक्ता, इह तु संकल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयति –

यत्न इति ।

विमताः प्रयत्नादिसापेक्षसंकल्पजन्याः, भोगसाधनत्वात्संमतवदित्यर्थः । वस्तुशब्देन भोगसाधनत्वं विवक्षितम् ।

ननु मुक्तसंकल्पस्य लौकिकसंकल्पवत्सापेक्षत्वानुमानं संकल्पादेवेत्यवधारणबाधितमत आह –

सोऽत्रेति ।

अत्र सगुणविदि पित्रादिविषयप्रयत्नस्य लाघवाद् लघौ तस्मिन् असत्त्वमिवकृत्व संकल्पोऽवधारितः, न तु प्रयत्नाभाव इत्यर्थः । समीहते चेष्टते ।

उक्तानुमानस्य मनसि संकल्पमात्राभिव्यक्तकामिन्यां व्यभिचारमाशङ्क्याह –

स्यादेतदित्यादिना ।

सत्ताप्रयुक्तभोगसाधनत्वादिति हेतुर्विशेषणीय इत्यर्थः ।

दन्तक्षतमणिमालादीनीति ।

मणिमाला कण्ठे कृतः क्षतविशेषः ।

ननु श्रुत्यनुमानयोर्विरोधे किमिति श्रुत्यैवानुमानस्य बाधनं, न पुनर्विपरीतमत आह –

प्रमाणान्तरेणेत्यादिना ।

पदपदार्थावगममात्रे श्रुतेरपेक्षा, न वाक्यार्थबोधने इत्यर्थः ।

विद्यासृष्टत्वमुपाधिमप्यनुमानस्य दर्शयति –

तस्मादिति ।

अगस्त्यो हि समुद्रं संकल्पमात्रेण पपौ, कस्यचिदृषेः शापात्प्राणिनिवासनमपि दण्डकारण्यं निवासयामास, यस्त्वन्यो योगप्रभावदृते समुद्रमगस्त्यवत् पिबति, स दण्डकारण्यमपि सृजति वासयति न तूभयं शक्ष्यति कर्तुमेष इत्यर्थः । तदयं प्रयोगः । विमतः प्रयत्नाद्यनपेक्षसंकल्पजन्यः, योगसामर्थ्यसृष्टत्वाद् अगस्त्यकृतसमुद्रपानवदिति॥८॥९॥

इति चतुर्थं संकल्पाधिकरणम्॥