अभावं बादरिराह ह्येवम् ।
अन्ययोगव्यवच्छित्त्या मनसेति विशेषणात् । देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥ अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसम्भवादसतापि हि गुणेन स्तुतिर्भवत्येवेति ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ।
शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः । न चार्थसम्भवे युक्तं स्तुतिमात्रमनर्थकम् ॥ नहि मनोमात्रभेदे स्फुटतरोऽनेकधाभावो यथा शरीरेन्द्रियभेदे । अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते । न चार्थसम्भवे स्तुतिमात्रमनर्थकमवकल्पते । सम्भवति चास्यार्थवत्त्वम् । यद्यपि निर्गुणायामिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते । न चान्ययोगव्यवच्छेदेनैव विशेषणम् ।अयोगव्यवच्छेदेनापि विशेषणात् । यथा चैत्रो धनुर्धरः । तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः ।
मनसेति केवलमनोविषयां च स एकधा भवति त्रिधा भवतीति शरीरेन्द्रियभेदविषयां च श्रुतिमुपलभ्यानियमवादी खलु बादरायणो नियमवादौ पूर्वयोर्न सहते । द्विविधश्रुत्यनुरोधात् । न चायोगव्यवच्छेदेनैवंविधेषु विशेषणमवकल्प्यते । कामेषु हि रमणं समनस्केन्द्रियेण शरीरेण पुरुषाणां सिद्धमेवेति नास्ति शङ्का मनोयोगस्येति तद्व्यवच्छेदो व्यर्थः । सिद्धस्य तु मनोयोगस्य तदन्यपरिसङ्ख्यानेनार्थवत्त्वमवकल्पते । तस्माद्वामेनाक्ष्णा पश्यतीतिवदत्रान्ययोगव्यवच्छेद इति साम्प्रतम् ।
द्वादशाहवदिति ।
द्वादशाहस्य सत्रत्वमासनोपायिचोदने । अहीनत्वं च यजतिचोदने सति गम्यते ॥ द्वादशाहमृद्धिकामा उपेयुरित्युपायिचोदनेन य एवं विद्वांसः सत्रमुपयन्तीति च द्वादशाहस्य सत्रत्वं बहुकर्तृकस्य गम्यते । एवं तस्यैव द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनेन नियतकर्तृपरिमाणत्वेन द्विरात्रेण यजेतेत्यादिवदहीनत्वमपि गम्यत इति । सम्प्रति शरीरेन्द्रियाभावेन मनोमात्रेण विदुषः स्वप्नवत्सूक्ष्मो भोगो भवति । कुतः उपपत्तेः । मनसैतानिति श्रुतेः । यदि पुनः सुषुप्तवदभोगो भवेत्नैषा श्रुतिरुपपद्येत । नच सशरीरवदुपभोगः शरीराद्युपादानवैयर्थ्यात् । सशरीरस्य तु पुष्कलो भोगः । इहाप्युपपत्तेरित्यनुषञ्जनीयम् ॥ १२ ॥
तदिदमुक्तं सूत्राभ्याम् –
तन्वभावे सन्ध्यवदुपपत्तेः । भावे जाग्रद्वत् । इति ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
भावे जाग्रद्वत् ॥ १४ ॥
अभावं बादरिराह ह्येवम्॥१०॥ पूर्वत्र संकल्पादेवेत्यवधारणात्साधनान्तरानपेक्षं पित्रादिसमुत्थानमित्युक्तम्, एवमिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति –
अन्ययोगेति ।
ननु ‘‘स एकधा भवति त्रिधा भवती’’त्याद्यनेकधाभावाम्नानाच्छरीरादिकं किं न स्यादत आह –
अनेकधाभावश्चेति ।
ऋद्धिप्रभावभुवः योगप्रभावजातात् मनोभेदादनेकधाभावोपपत्तेर्नानेकशरीरप्राप्तिरित्यर्थः॥१०॥
ननु मनोभेदाभ्युपगमे मनसेत्येकवचनबाधः स्यात्, तथा च लब्धप्रसरे बाधे मनःशब्दोऽप्युपलक्षणार्थत्वेन नीयतामत आह –
स्तुतिमात्रं वा कथंचिदिति ।
अत्र हेतुमाह –
भूमविद्यायामिति ।
निर्गुणायां भूमविद्यायाम् अयमनेकधाभावः पठ्यते, न तु सगुणविद्यायाम्, तत्र च न संभवतीत्यर्थः ।
असता तर्हि तेन कथं भूमविद्या स्तूयेत? तत्राह –
असतापीति ।
वपोत्खननादिनाऽपि स्तुतिदर्शनादित्यर्थः॥११॥
मनोभेदमात्रादनेकधाभावं निषेधति –
शरीरेन्द्रियेति ।
परैः संवादेन भोगार्थो ह्यनेकधाभावः, न च मनः परैर्दृश्यत इति न पुष्कलभोग इत्यर्थः । यदुक्तमविद्यमानेनानेकधाभावेन भूमविद्यास्तुतिरिति, तत्राह – न चेति ।भूमविद्योपक्रमे ‘‘प्राणो वा आशाया भूया’’निति सूत्रात्मविद्या विद्यते, तत्फलमनेकधाभावो भूमविद्यायामपि प्रशंसार्थमुच्यत इत्यर्थः । संभवेऽनर्थकं स्तुतिमात्रं न युक्तमित्यर्थः । चैत्रो धनुर्धर इत्युक्ते खड्गाद्यन्ययोगो न वार्यते, एवमत्रापि ।
यस्य हि प्राप्तिः पाक्षिकी विशेष्ये तद्विशेषणासंबन्धव्यवच्छेदकः स्वस्य विशेष्यान्वयमात्रं गमयेद्यथा धनुर्धरत्वं, न हि चैत्रो धनुर्दधान एव वर्तते, प्रकृते तु ‘‘मनसैतान् कामान् पश्यन् रमत’’ इत्यत्र कामभोगेषु नित्यप्राप्तत्वान्मनसस्तदनुवादेन परिसंख्याविधिष्विवान्ययोगनिवृत्त्यर्थमाह –
न चायोगेति ।
दृष्टान्तं विभजते - द्वादशाहस्येति श्लोकेन । आसनोपयिभ्यां चोदने सति द्वादशाहस्य सत्रत्वं गम्यते, आसनोपयिचोदनयोरन्यतरत्वं सत्रलक्षणम्; तस्यैव द्वादशाहस्य यजेतेति चोदने सति अहीनत्वं च गम्यत इत्यर्थः । उपायिचोदनेति सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्निति द्वादशाहप्रकरणपठितमासिचोदनं च द्रष्टव्यम् । बहुकर्तृकस्येति सत्रलक्षणान्तराभिधानम्, नियतकर्तृपरिमाणत्वेनेत्येककर्तृकत्वमहीनलक्षणमुक्तम् । इदं चाहीनलक्षणद्वयम् अहर्गणत्वे सतीति विशेषणीयम् । इतरथा एकाहे ज्योतिष्टोमादावेककर्तृके यजतिचोदनाचोदिते चातिव्याप्तिः स्यादिति ।
सशरीरत्वमशरीरत्वच्चेत्युभयविधत्वं विरुद्धमित्याशङ्क्य कालभेदेन व्यवस्थापनार्थं सूत्रद्वयं भाव इत्यादि, तद्व्याचष्टे –
संप्रतीति ।
इदानीं शरीराभावकाल इत्यर्थः ।
का सा उपपत्तिः; तां श्रुतिमाह –
मनसैतानितीति ।
शरीरादौ सति यादृशो भोगस्तादृशश्चेन्मनोमात्रेऽस्य स्यात्, तर्हि शरीराद्युपादानवैयर्थ्यम् ।
एवं चेत्तर्हि शरीरे सति कीदृशो भोगस्तत्राह –
सशरीरस्य त्विति ।
पुष्कलो जागरवत् स्थूल इत्यर्थः ।
इहापीति ।
देहाद्युपादानार्थवत्त्वमुपपत्तिः॥१२॥१३॥१४॥१५॥