भामतीव्याख्या
वेदान्तकल्पतरुः
 

प्रदीपवदावेशस्तथा हि दर्शयति ।

वस्तुतः परमात्मनोऽभिन्नोऽप्ययं विज्ञानात्मानाद्यविद्याकल्पितप्रादेशिकान्तःकरणावच्छेदेनानादिजीवभावमापन्नः प्रादेशिकः सन्न देहान्तराणि स्वभावनिर्मितान्यपि नानाप्रदेशवर्तीनि सान्तःकरणो युगपदावेष्टुमर्हति । न वात्मान्तरं स्रष्टुमपि । सृज्यमानस्य स्रष्ट्रतिरेकेऽनात्मत्वादात्मत्वे वा कर्तृकर्मभावाभावाद्भेदाश्रयत्वादस्य । नाप्यन्तःकरणान्तरं तत्र सृजति सृज्यमानस्य तदुपाधित्वाभावात् । अनादिना खल्वन्तःकरणेनौत्पत्तिकेनायमवरुद्धो नेदानीन्तनेनान्तःकरणेनोपाधितया सम्बद्धुमर्हति । तस्माद्यथा दारुयन्त्रं तत्प्रयोक्त्रा चेतनेनाधिष्ठितं सत्तदिच्छामनुरुध्यते । एवं निर्माणशरीराण्यपि सेन्द्रियाणीति प्राप्ते प्रत्यभिधीयते शरीरत्वं न जातु स्याद्भोगाधिष्ठानतां विना । स त्रिधेति शरीरत्वमुक्तं युक्तं च तद्विभौ ॥ स त्रिधा भवति पञ्चधा सप्तधा नवधेत्यादिका श्रुतिर्विदुषो नानाभावमाचक्षाणा भिन्नशरीरेन्द्रियोपाधिसम्बन्धेऽवकल्पते नादेहहेतु(भूत)भेदे । नहि यन्त्राणि भिन्नानि निर्माय वाहयन्यन्त्रवाहो नानात्वेनापदिश्यते । भोगाधिष्ठानत्वं च शरीरत्वं नाभोगाधिष्ठानेषु यन्त्रेष्विव युज्यते । तस्माद्देहान्तराणि सृजति । न वानेनाधिष्ठितानि देहपक्षे वर्तन्ते । नच सर्वगतस्य वस्तुतो विगलितप्रायाविद्यस्य विदुषः पृथग्जनस्येवौत्पत्तिकान्तःकरणवश्यता येन तदौत्पत्तिकमन्तःकरणमागन्तुकान्तःकरणान्तरसम्बन्धमस्य वारयेत् । तस्माद्विद्वान् सर्वस्य वशी सर्वेश्वरः सत्यसङ्कल्पः सेन्द्रियमनांसि शरीराणि निर्माय तानि चैकपदे प्रविश्य तत्तदिन्द्रियमन्तःकरणैस्तेषु लोकेषु मुक्तो विहरतीति साम्प्रतम् । प्रदीपवदिति तु निदर्शनं प्रदीपैक्यं प्रदीपव्यक्तिषूपचर्यते भिन्नवर्तिवर्तिनीनां भिन्नव्यक्तीनां भेदात् । एवं विद्वाञ्जीवात्मा देहभेदेऽप्येक इति परामर्शार्थः । एकमनोनुवर्तीनीत्येकाभिप्रायवर्तीनीत्यर्थः ॥ १५ ॥

सम्पन्नः केवलो मुक्त इत्युच्यते । न चैतस्येत्थम्भावसम्भवः श्रुतिविरोधादित्युक्तमर्थजातमाक्षिपति –

कथं पुनर्मुक्तस्येति ।

सलिल इति ।

सलिलमिव सलिलः सलिलप्रातिपदिकात्सर्वप्रातिपदिकेभ्य इत्युपमानादाचारे क्विपि कृते पचाद्यचि च कृते रूपम् । एतदुक्तं भवति यथा सलिलमम्भोनिधौ प्रक्षिप्तं तदेकीभावमुपयाति । एवं द्रष्टापि ब्रह्मणेति ।

अत्रोत्तरं सूत्रम् –

स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ।

आसु काश्चिच्छ्रुतयः सुषुप्तिमपेक्ष्य काश्चित्तु सम्पत्तिं तदधिकारात् । ऐश्वर्यश्रुतयस्तु सगुणविद्याविपाकावस्थापेक्षा मुक्त्यभिसन्धानं तु तदवस्थासत्तेर्यथारुणदर्शने सन्ध्यायां दिवसाभिधानम् ॥ १६ ॥

प्रदीपवदावेशस्तथा हि दर्शयति॥१५॥
सर्गः सङ्कल्पमात्रेण तनूनां निष्प्रयोजनः ।
पुंसां निरात्मिकास्वासु भोगस्यानवकल्पनात्॥
इत्याक्षेपिका सङ्गतिः । ननु ब्रह्माभिन्नस्य जीवस्य सर्वशरीरेषु सन्निधानात् कथं साङ्कल्पिकशरीराणां निरात्मकत्वेन पूर्वपक्षोदयस्तत्राह –

वस्तुत इति ।

ननु यथा स्वभावतो योगप्रभावान्नानादेशवर्तीनि शरीराणि योगी सृजति, तथाऽन्यान्यधितिष्ठतु, तत्राह –

स्वभावनिर्मितान्यपीति ।

परिच्छिन्नान्तःकरणोपहितजीवादृष्टसामर्थ्याद्देहानामुत्पत्तिर्भवति, परिच्छिन्नस्य तु देशान्तरे व्यञ्जकान्तःकरणाभावादभिव्यक्त्यनुपपत्तेरधिष्ठातृत्वमयुक्तमित्यर्थः ।

ननु शरीरान्तरेष्वसन्निहितोऽपि जीवस्तत्र तत्रात्मान्तरं सृजतु, शरीरवदत आह –

न वा आत्मान्तरमपीति ।

स्रष्टुर्महतीत्यनुषङ्गः ।

सृज्यमानमात्मान्तरं स्रष्टुरन्यत्, तत्स्वरूपं वा, नाद्य इत्याह –

सृज्यमानस्येति ।

नापि द्वितीय इत्याह –

आत्मत्वे वेति ।

कर्तृकर्मभावाभावात् स्रष्टृस्रष्टव्यत्वाभावादित्यर्थः । अस्य कर्मकर्तृभावस्य । भेदाश्रयत्वात् भेदस्याश्रय एवाश्रयो यस्येति भेदाश्रयः, तत्त्वादिति लुप्तमध्यमपदोऽयं बहुव्रीहिः ।

नन्वात्मसृष्टावुक्तदोषपरिहारायान्तःकरणानि स्रष्टव्यानि तेषु चायमेव जीवोऽभिव्यक्तः सन्नधिष्ठाता भवतु, तत्राह –

न चान्तःकरणान्तरमिति ।

औत्पत्तिकेन अनादिसंबन्धवतेत्यर्थः । अवरुद्धोऽवच्छेदितः ।

ननु व्यवहितदेशान्यपि दारुयन्त्राणि यथा मायाव्यधितिष्ठति, एवं जीवोऽपि देहान्तराणि, इत्याशङ्क्य तथा सति तेषु  भोगासिद्धेर्भावे जाग्रद्वदित्युक्तिविरोध इत्यभिप्रेत्याह –

तस्माद्यथेति ।

दारुयन्त्रसमत्वं योगिसृष्टशरीरेषु व्यावर्तयति –

शरीरत्वमिति ।

यदवच्छिन्न आत्मनि भोगः, तदिन्द्रियग्राह्यमन्त्यावयवि भोगायतनमेवंविधस्य भोगाधिष्ठानतां विना शरीरत्वं न स्यात् । तथाविधे एव शरीरत्वप्रसिद्धेरित्यर्थः ।

तर्हि शरीरत्वमेव योगिनिर्मितेषु कुतस्तत्राह –

स त्रिधेति ।

‘‘स एकधा भवति त्रिधा भवती’’त्यादिकमात्मनो बहुभवनं शरीरभेदोपाधिकम् ; अन्यादृशस्य तस्यासंभवादित्यर्थः ।

नन्वेकान्तःकरणमात्रावच्छिन्नस्यात्मनो नानादेशवत्सु देहेषु अधिष्ठातृत्वानुपपत्तिरुक्ता, तत्राह –

युक्तं चेति ।

सगुणचिदात्मनः विद्यासामर्थ्याद्व्याप्तिरपि संभवतीत्यर्थः ।

‘‘स त्रिधे’’ति शरीरत्वमित्येतद्व्याचष्टे –

स त्रिधा भवतीति ।

अदेहरूपे भूतभेदे श्रुतिर्नावकल्पत इत्यन्वयः ।

शरीरत्वं न जात्वित्येतद्व्याचष्टे –

भोगाधिष्ठानत्वं चेति ।

शरीरत्वेन यत्प्रमितं भोगाधिष्ठानत्वं तदभोगाधिष्ठानत्वाभ्युपगमे यन्त्रेष्विव न युज्यत इत्यर्थः ।

ननु शरीरत्वान्न भोगाधिष्ठानत्वं सिध्यति अधिष्ठितत्वमात्रेण शरीरत्वोपपत्तेरित्यत आह –

न वा चेतनाधिष्ठितानीति ।

अनेनात्मनाऽधिष्ठितानि अधिष्ठितमात्राणि न देहपक्षे वर्तन्ते दारुयन्त्रेष्वदर्शनादित्यर्थः । अनधिष्ठितानीति पाठः सुगमः ।

युक्तं च तद्विभाविति श्लोकभागं व्याकरोति –

न च सर्वगतस्येति ।

नैजादन्तःकरणाद् बहिरपि योगप्रभावाद्व्याप्तिसंभवादन्तःकरणान्तरेषु सृष्टेष्वस्यात्मनोऽभिव्यक्तिः सम्भवेत्तद्वशाच्च शरीरान्तरेष्वपि भोगसंभव इत्यर्थः । एकपदे एकपदनिक्षेपकाले । युगपदित्यर्थः ।

एकस्मात्प्रदीपादुत्पन्नानामपि प्रदीपानां प्रतिपत्तिभेदात् विदुषश्च सर्वशरीरेष्वैक्यान्निदर्शनानुपपत्तिमाशङ्क्याह –

प्रदीपवदिति त्विति ।

यस्माद्दीपात्प्रवर्तिता इतराः प्रदीपव्यक्तयः, तस्यैक्यं सादृश्यादुपचर्यते, न वर्तिवर्तिनीनां प्रदीपव्यक्तीनामैक्यम् इत्यनुषङ्गः ।

तत्र हेतुः –

भेदादिति ।

भेदप्रतीतेरित्यर्थः ।

एकमनोऽनुवर्तित्वं शरीरान्तराणामयुक्तम् ; स्वकीयमनोऽनुवर्तित्वादतो व्याचष्टे –

एकाभिप्रायेति॥१५॥

यो मुक्तः स ब्रह्म संपन्न इत्याद्युच्यते, तस्य न शरीरित्वसंभवः; श्रुतिविरोधादित्येवंप्रकारेणाक्तमर्थमाक्षिपतीत्यर्थः ।

सलिलशब्दस्य नपुंसकत्वात्पुल्लिङ्गत्वानुपपत्तिमाशङ्क्य व्याचष्टे –

सलिलमिवेत्यादिना ।

उपमानवाचिनः शब्दात् आचारार्थे गम्यमाने सर्वप्रातिपदिकेभ्य इत्येके इति वक्तव्येन क्विपि कृते नन्दिग्रहिपचादिभ्यो ल्युणिन्यच इति सूत्रेणाच्प्रत्यये च कृते सलिल इति रूपम् । सलिलमिवाचरति तत्तुल्यो वर्तत इत्यर्थः । सगुणविद्याफलावस्थायां मुक्तित्वाभिधानं मुक्त्यवस्थाप्रत्यासत्तिकृतमित्यर्थः॥१६॥

इति षष्ठं प्रदीपाधिकरणम्॥