जगद्व्यापारवर्जं प्रकरणादसंनिहितत्वाच्च ।
स्वाराज्यकामचारादिश्रुतिभ्यः स्यान्निरङ्कुशः । स्वकार्य ईश्वराधीनसिद्धिरप्यत्र साधकः ॥ “आप्नोति स्वाराज्यम्”(तै. उ. १ । ६ । २) “सर्वेऽस्मै देवा बलिमावहन्ति”(तै. उ. १ । ५ । ३) “सर्वेषु लोकेषु कामचारो भवति”(छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्यो विदुषः परब्रह्मण इवान्यानधीनत्वमैश्वर्यमवगम्यते । नन्वस्य ब्रह्मोपासनालब्धमैश्वर्यं कथं ब्रह्माधीनं न तु स्वभावः । नहि कारणाधीनजन्मानो भावाः स्वकार्ये स्वकारणमपेक्षन्ते । किं त्वत्र ते स्वतन्त्रा एव । यथाहुः मृत्पिण्डदण्डचक्रादि घटो जन्मन्यपेक्षते । उदकाहरणे त्वस्य तदपेक्षा न विद्यते ॥ न च विदुषां परमेश्वराधीनैश्वर्यसिद्धित्वात्तद्गतमैश्वर्यं येन लौकिका इव राजानो महाराजाधीनः स्वव्यापारे विद्वांसः परमेश्वराधीना भवेयुः । न खलु यदधीनोत्पादं यस्य रूपं तत्तद्रूपादूनं भवतीति कश्चिन्नियमः । तत्समानां तदधिकानां च दर्शनात्तथा ह्यन्तेवासी गुर्वधीनविधः तत्समस्तदधिको वा दृश्यते । दुष्टसामन्ताश्च पार्थिवाधीनैश्वर्याः पार्थिवान्स्पर्धमानास्तान्विजयमाना वा दृश्यन्ते । तदिह निरतिशयैश्वर्यत्वात्परमेश्वरस्य मा नाम भूवन्विद्वांसस्ततोऽधिकास्तत्समास्तु भविष्यन्ति । तथाच न तदधीनाः । नहि समप्रधानभावानामस्ति मिथोऽपेक्षा । तदेते स्वतन्त्राः सन्तस्तद्व्यापारे जगत्सर्जनेऽपि प्रवर्तेरन्निति प्राप्ते प्रत्यभिधीयते - नित्यत्वादनपेक्षत्वात्श्रुतेस्तत्प्रक्रमादपि । एक्यमत्याच्च विदुषां परमेश्वरतन्त्रता ॥ जगत्सर्गलक्षणं हि कार्यं कारणैकस्वभावस्यैव हि भवतु आहो कार्यकारणस्वभावस्य । तत्रोभयस्वभावस्य स्वोत्पत्तौ मूलकारणापेक्षस्य पूर्वसिद्धः परमेश्वर एव कारणमभ्युपेतव्य इति स एवैकोऽस्तु जगत्कारणम् । तस्यैव नित्यत्वेन स्वकारणानपेक्षस्य कॢप्तसामर्थ्यात् । कल्प्यसामर्थ्यास्तु जगत्सर्जनं प्रति विद्वांसः । न च जगत्स्रष्टृत्वमेषां श्रूयते । श्रूयते त्वत्रभवतः परमेश्वरस्यैव । तमेव प्रकृत्य सर्वासां तच्छ्रुतीनां प्रवृत्तेः । अपिच समप्रधानानां हि न नियमवदैकमत्यं दृष्टमिति यदैकः सिसृक्षति तदैवेतरः सञ्जिहीर्षतीत्यपर्यायेण सृष्टिसंहारौ स्याताम् । न चोभयोरपीश्वरत्वं व्याघातात् । एकस्य तु तदाधिपत्ये तदभिप्रायानुरोधिनां सर्वेषामैकमत्योपपत्तेरदोषः । तत्रागन्तुकानां कारणाधीनजन्मैश्वर्याणां गृह्यमाणविशेषतयासमत्वान्नित्यैश्वर्यशालिनः स एव तेषामधीश इति तत्तन्त्रा विद्वांस इति परमेश्वरव्यापारस्य सर्गसंहारस्य नेशते ॥ १७ ॥
पूर्वपक्षिणोऽनुशयबीजमाशङ्क्य निराकरोति –
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ।
यतः परमेश्वराधीनमैश्वर्यं तस्मात्ततो न्यूनमणिमादिमात्रं स्वाराज्यं न तु जदत्स्रष्टृत्वम् । उक्तान्न्यायात् ॥ १८ ॥
विकारावर्ति च तथा हि स्थितिमाह ।
एतावानस्य महिमेति विकारवर्ति रूपमुक्तम् । ततो ज्यायांश्चेति निर्विकारं रूपम् । तथा पादोऽस्य विश्वा भूतानीति विकारवर्ति रूपम् , त्रिपादस्यामृतं दिवीति निर्विकारमाह रूपम् ॥ १९ ॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ।
दर्शयतश्चापरे श्रुतिस्मृती निर्विकारमेव रूपं भगवतस्ते च पठिते । एतदुक्तं भवतियदि ब्रूषे सगुणे ब्रह्मण्युपास्यमाने यथा तद्गुणस्य निरवग्रहत्वमपि वस्तुतोऽस्तीति निरवग्रहत्वे विदुषा प्राप्तव्यमिति तदनेन व्यभिचारयते । यथा सविकारे ब्रह्मण्युपास्यमाने वस्तुतः स्थितमपि निर्विकाररूपं न प्राप्यते तत्कस्य हेतोः, अतत्क्रतुत्वादुपासकस्य । तथा तद्गुणोपासनया वस्तुतः स्थितमपि निरवग्रहत्वं नाप्यते । तत्त्वोपासनासु पुरुषक्रतुत्वात् । उपासकस्य तदक्रतुत्वं च निरवग्रहत्वस्योपासनविध्यगोचरत्वाद्विध्यधीनत्वाच्चोपासनासु पुरुषस्वातन्त्र्याभावात्स्वातन्त्र्ये वा प्रातिभत्वप्रसङ्गादिति ॥ २० ॥
भोगमात्रसाम्यलिङ्गाच्च ।
न केवलं स्वाराज्यस्येश्वराधीनतयाजगत्सर्जनम् , साक्षाद्भोगमात्रेण तेन परमेश्वरेण साम्याभिधानादपि व्यपदेशलिङ्गादिति । भूतान्यवन्ति प्रीणयन्तीति भोजयन्तीति यावत् ।
सूत्रान्तरावतारणाय शङ्कते –
नन्वेवं सति सातिशयत्वादिति ।
सह परमेश्वरस्यातिशयेन वर्तत इति विदुष ऐश्वर्यं सातिशयम् । यच्च कार्यं सातिशयं तच्च यथा लौकिकमैश्वर्यम् । तदनेन कार्यत्वमुक्तम् । तथाच कार्यत्वादन्तवत्प्राप्तमिति तच्च न युक्तमानन्त्येन तद्विदुषां तत्र प्रवृत्तेरिति ॥ २१ ॥
अत उत्तरं पठति –
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ।
किमर्चिरादिमार्गेण ब्रह्मलोकप्राप्तानामैश्वर्यस्यान्तवत्त्वं त्वया साध्यते । आहोस्विच्चन्द्रलोकादिव ब्रह्मलोकादेतल्लोकप्राप्तिर्मुक्तेरन्तवत्त्वम् । तत्र पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरत्र तु श्रुतिस्मृतिविरोधः । तद्विधानां च क्रममुक्तिप्रतिपादनादिति ।
तत्त्वमसिवाक्यार्थैकोपासनापरान् प्रत्याह –
सम्यग्दर्शनविध्वस्ततमसामिति ।
द्विधाविद्यातमः । निरुपाधिब्रह्मसाक्षात्कारस्तत्त्वदर्शनम् ।
न चैतन्निर्वाणं स्वरूपावस्थानलक्षणं कार्यं येनानित्यं स्यादित्याह –
नित्यसिद्धेति ॥ २२ ॥
भङ्क्त्वा वाद्यसुरेन्द्रवृन्दमखिलाविद्योपधानातिगं येनाम्नायपयोनिधेर्नयपथा ब्रह्मामृतं प्राप्यते ।
सोऽयं शाङ्करभाष्यजातविषयो वाचस्पतेः सादरं सन्दर्भः परिभाव्यतां सुमतयः स्वार्थेषु को मत्सरः ॥ १ ॥
अज्ञानसागरं तीर्त्वा ब्रह्मतत्त्वमभीप्सताम् ।
नीतिनौकर्णधारेण मयापूरि मनोरथः ॥ २ ॥
यन्न्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
यन्न्यायसाङ्ख्ययोगानां वेदान्तानां निबन्धनैः ॥ ३ ॥
समचैषं महत्पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन प्रीयतां परमेश्वरः ॥ ४ ॥
नृपान्तराणां मनसाप्यगम्यां भ्रूक्षेपमात्रेण चकार कीर्तिम् ।
कार्तस्वरासारसुपूरितार्थसार्थः स्वयं शास्त्रविचक्षणश्च ॥ ५ ॥
नरेश्वरा यच्चरितानुकारमिच्छन्ति कर्तुं नच पारयन्ति ।
तस्मिन्महीपे महनीयकीर्तौ श्रीमन्नृगेऽकारि मया निबन्धः ॥ ६ ॥
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च॥१७॥
मनःशरीरसर्गादावैश्वर्यं यदुपासितुः ।
जगत्सर्गे तदुत्सृष्टमिह मानादपोद्यते॥
इति संगतिमभिसंदधानः पूर्वपक्षमाह –
स्वाराज्येति ।
नन्वीश्वरदत्तसिद्धेरुपासकस्य कथं स्वकार्ये निरङ्कुशत्वमाशङ्क्यतेऽत आह –
ईश्वराधीनेति ।
सिद्ध्युत्पत्तिरस्येश्वराधीना सिद्धिकार्ये त्वनपेक्षेत्यर्थः । अत्र जगज्जन्मादावित्यर्थः । अस्मै उपासकाय । बलिं पूजाम् ।
स्वभाव इति ।
स्वकार्यजनकत्वं स्वभावः । मृत्पिण्डेत्यादि भाट्टं वार्तिकम् ।
ननूदकाहरणादि घटादेः कारणानपेक्षं भवतु , ऐश्वर्यं तूपजीव्यादुपजीवकस्य न्यूनमिति विशेषव्याप्तिमाशङ्क्य व्यभिचारयति –
न च विदुषामित्यादिना ।
ननु विद्या उपजीव्यसमा उपजीवकस्य भवतु, न तु नियन्तृकर्तृत्वाद्यैश्वर्यमित्याशङ्क्याह –
दुष्टसामन्ताश्चेति ।
समप्राधान्यं हि विशेषानिर्णये भवति, अस्ति त्वत्रेश्वरस्य साधकेभ्यो विशेषनिर्णयहेतुरित्याह –
नित्यत्वादिति ।
विदुषां स्वकार्ये परमेश्वराधीनता, कुतः? परमेश्वरस्य जगत्कर्तृत्वाद्यैश्वरस्य नित्यत्वात्, अत एवानपेक्षत्वात्तत्सापेक्षाणा तु जीवानां जगत्स्रष्टृत्वादेरीश्वरप्राप्त्यन्यथानुपपत्त्या कल्प्यत्वात् कल्प्याच्च क्लृप्तस्य बलीयस्त्वादित्यर्थः । ईश्वरस्यैव चा’’त्मन आकाशः सभूत’’ इत्यादौ जगत्स्रष्टृत्वश्रुतेः’’स्तत्तेजोऽसृजते’’त्यादौ च जगत्सर्गे ‘‘सदेव सोम्येदमग्र’’ इत्यादिना तस्यैव प्रक्रमादीश्वराधीनत्वाभ्युपगमे एवैकमत्यलाभाच्चेत्यर्थः ।
नित्यत्वादेत्येतद्व्याचष्टे –
जगत्सर्गलक्षणं हीति ।
अनपेक्षत्वादित्येतद्व्याकरोति –
तस्यैवेति ।
श्रुतेरित्येतद्विभजते –
न च जगत्स्रष्टृत्वमिति ।
तत्प्रक्रमादित्यस्य विवरणं –
तमेव प्रकृत्येति ।
ऐकमत्याच्चेत्यस्य व्याख्या - अपि चेत्यादि । सिसृक्षासंजिहीर्षयोः सत्योरपि यदि सृष्टिसमये सहारो न स्यात्, तर्हि न वा सृष्टिसंहारौ द्वावपि स्याताम् ; उभयोः स्रष्टृसंहर्त्रोरीश्वरत्वाविघातादित्यर्थः ।
स्वपक्षे जगत्र्सर्गोपपत्तिमाह –
एकस्य त्वित्यादिना ।
गृह्यमाणविशेषतयाऽसमत्वादिति ।
असमत्वादिति छेदः॥१८॥
उक्तान्न्यायादिति ।
नित्यत्वादित्यादेरित्यर्थः ॥१८॥ एतावान् सहस्रशीर्षेत्यादिरस्य महिमा विभूतिर्न तु स्वरूपमित्यर्थः॥१९॥
विकारावर्तीति दर्शयतश्चेति सूत्रद्वयस्याभिप्रायमाह –
एतदुक्तमिति ।
सगुणे ब्रह्मणि स्थितानामपि गुणानां सत्यकामत्वादीनां निरवग्रहत्वं सर्वगोचरत्वमुपासकैर्न प्राप्यत इत्यर्थे दृष्टान्त उक्तः ।
यथा सगुणे ब्रह्मणि स्थितमपि विकारावर्तित्वाद् न प्राप्यत इति, तत् प्रपञ्चयति –
तत्त्वोपासनास्विति ।
पुरुषशब्देन पूर्णं निर्गुणं तत्त्वमुच्यते, तत्त्वोपासनासु हि तत्त्वमसीत्यादिषूपासकस्य पुरुषक्रतुत्वं निर्गुणचिन्तकत्वमित्यर्थः ।
ननु सगुणोपास्तिषु तर्हि किमित्युपासकस्य गुणगतं निरङ्कुशत्वमुपास्यं न भवति ? तत्राह –
उपासकस्य तदक्रतुत्वं चेति ।
न हि निरवग्रहसत्यकामत्वादिगुणकमीश्वरमुपासीतेति श्रुतिरस्ति, सा हि सत्यकामत्वादिगुणमुपासीतेत्यवंरूपेत्यर्थः । यदि तु विध्यभिप्रायमुपेक्ष्याप्युपासीत, तत्राह - स्वातन्त्र्येति॥२०॥२१॥ द्विधा कार्यकारणरूपा । तं ब्रह्मलोकगतमुपासकम् हिरण्यगर्भ आह आपो वै खल्वमृतमय्यो मया मीयन्ते दृश्यन्ते मुज्यन्त इत्यर्थः । तवाप्यसौ स्मृतरूपोदकलक्षणो लोको भोग्य इत्यर्थः ॥२२॥
श्रोतॄणामुत्साहजननाय परमपुरुषार्थप्राप्त्युपायतां गलितकलङ्कतां च स्वकृतेरादर्शयन् सकलशास्त्रार्थं संकलयति –
भङ्क्त्वेति ।
येन ग्रन्थसंदर्भेण वाद्यसुरेन्द्रसमूहं युक्तिनिशितखड्गधाराभिर्भङ्क्त्वा नयनथा श्रुतिलिङ्गादिन्यायरूपमन्था तेन, विलोलितादाम्नायदुग्धपयोनिधेरुद्गतमखिलाविद्योपधानातिगं ब्रह्मामृतं श्रोतृभिः प्राप्यते । सोऽयं परिभाव्यतामित्यन्वयः ।
अपि च व्याख्यानग्रन्थकर्तुः, व्याख्येयग्रन्थकारस्य च गौरवादपि तात्पर्येण प्रवर्तितव्यमित्याह –
सोऽयमिति ।
शाङ्करं भाष्यं व्याख्येयं जातो विषयो यस्य सोऽयं वाचस्पतेर्मम ग्रन्थसन्दर्भो हे सुमतयो युष्माभिः श्रवणव्याख्यानादिभिः सादरं परिभाव्यताम् । मा चैवं मन्यध्वं एतावप्यस्मदादितुल्यौ विद्वांसौ किमेतत्कृतिभ्यां करिष्याम इति । यतः स्वार्थेषु को मत्सरः विशुद्धसंप्रदायविमलधियौ न तादृश्यौ युष्माकं यादृश्यावावयोरित्यर्थः । अत्र च भङ्क्त्वेत्यादिरविरोधाध्यायस्य संक्षेपः, आम्नायपयोनिधेर्नयमथेति समन्वयाध्यायस्य, अविद्योपधानातिगमित्यविद्यावृत्तिवर्णनेन तद्धेतुविद्यास्तवनात् तृतीयाध्यायस्य, अविद्यानिवृत्त्या चतुर्थस्य ब्रह्मामृतमिति चतुर्थाध्यायस्यैवार्थसंक्षेप इति॥ ॥१॥
न केवलं ग्रन्थव्याख्यामात्रमत्र कृतम्, अपि तु तत्र तत्र बौद्दादिविरुद्धराद्धान्तभङ्गं स्वातन्त्र्येण नयमरीचिभिः कुर्वता जगतामबोधोऽपनिन्ये, ब्रह्मबोधश्च स्थिरीचक्रे इत्याह –
अज्ञानेति ।
नीतिरेव नौस्तस्याः कर्णधारो नेता । अपूरि पूरितः॥२॥
यावन्तस्ते कृता ग्रन्थास्तन्निर्माणजं पुण्यं फलमीश्वरे समर्पयन् स्वस्य साक्षात्कृतब्रह्मतया फलेऽप्यसङ्गं गमयति –
यन्न्यायेति ।
न्यायकणिका विधिविवेकटीका । तत्त्वसमीक्षा ब्रह्मसिद्धिव्याख्या । तत्त्वबिन्दुर्भाट्टमताश्रयं स्वकृतं प्रकरणम् । न्यायस्य निबन्धो न्यायवार्तिकतात्पर्यटीका । तत्त्वकौमुदी सांख्यनिबन्धः । योगनिबन्धनं पातञ्जलभाष्यटीका तत्त्वशारदी । वेदान्तानां सर्वोपनिषदां निबन्धनमियमेव भामती । एतैर्निबन्धनैः यन्महापुण्यमहं समचैषं संचितवानस्मि तस्य फलं पुष्पकं यत् तत् परमेश्वरे मया समर्पितम् । अथ समर्पणसमनन्तरमनेनोपहारेण परमेश्वरः प्रीयतामित्यर्थः ॥३॥४॥
कार्तस्वरं सुवर्णं तस्यासारोऽनवरतवर्षणं तेन सुपूरितोऽर्थः काङ्क्षिता यस्य सार्थस्य जनसमूहस्य स तथेत्येको बहुव्रीहिः । तथाविधः सार्थो यस्य प्रकृतत्वेन वर्तते स नृगस्तथेत्यपरः । नृगः इति राज्ञ आख्या॥५॥६॥ स्वज्योतिःसुखसदभेदमात्मभूतं यन्मायाविरचितविश्वदृश्यनीडम् ।
तद् ब्रह्म प्रणतभवान्धकारभानुं वन्देऽहं हरिहरविग्रहं दधानम्॥१॥
अमृतममृतैरप्यायासादतीव सुदुर्लभं प्रवरगुणवच्छिष्यिर्यत्र स्थितं सुखमाप्यत ।
अजनि कमला यस्माद्विद्यावपुर्निखिलार्तिहा गुरुमनुभवानन्दं तं नौम्यपारकृपाम्बुधिम्॥२॥
आकल्पं कल्पवृक्षादमुत उदितसन्न्यायपुष्पैः प्रफुल्लैः
सत्पक्षारूढविद्वद्भ्रमरमुखरितैर्बोधसद्भूरिगन्धैः ।
श्रोतृश्रेणीविदोषश्रवणपुटगतैर्हृत्सरोजाधिवासः
श्रीकान्तोऽभ्यर्च्यतां स प्रकटयतु तनुं सच्चिदानन्दरूपम्॥३॥
क्व मामकं क्लेशवशानुगामि चेतः क्व वाचस्पतिसूक्तयोऽमूः ।
क्व शङ्कराचार्यवचः क्व चेदं वैयासिकं सूत्रमगाधभावम्॥४॥
गुरुक्षमाभर्तृविनिर्गतानां सरस्वतीनां श्रुतिसिन्धुसङ्गे ।
विगाह्यसञ्चेतुमनन्तपुण्यं परं मयाऽकारि निबन्ध एषः॥५॥
शास्त्राम्बुधेः पारगता द्विजेन्द्रा यद्दत्तचामीकरवारिराशेः ।
ज्ञातुं न पारं प्रभवन्ति तस्मिन् कृष्णक्षितीशे भुवनैकवीरे॥६॥
भ्रात्रा महादेवनृपेण साकं पाति क्षितिं प्रागिव धर्मसूनौ ।
कृतो मयाऽयं प्रवरः प्रबन्धः प्रगल्भवाचस्पतिभावभेदी॥७॥