वेदान्तकल्पतरुः
कल्पतरुपरिमलः
 

परमा परमानन्दबोधसल्लक्षणाञ्चितम् । यमाश्लिष्यति सर्वज्ञं तं वन्दे पुरुषोत्तमम्॥

कार्यान्वयमिति ।

श्लोकपूरणार्थ एवंकारः । स्वयं पुरुषार्थे इति संबन्धः ।

यदि सर्वज्ञे वेदान्तप्रामाण्यं सिद्धं, किमधिकरणान्तरेण? अत आह —

तच्चेति ।

सर्वज्ञे जगत्कारणे समन्वयप्रदर्शनेन चेतनं तदित्युपक्षिप्तम् । तदाक्षिप्य समर्थ्यत इति सङ्गतिः । प्रयोजनं तु ‘तत्त्वमसीति’ तच्छब्दवाच्यप्रधानैक्यसंपत्तिः पूर्वपक्षे । सिद्धान्ते तु चेतनस्य ब्रह्मैक्यमिति । जीवाणुव्यतिरिक्तेति  कारणस्य जीवव्यतिरेकेण जीवा एव स्वकर्मद्वारा कर्तार इति मतं निरस्तम् । अणुव्यतिरेकेणाणुसङ्घातवादः । चेतनग्रहणेन प्रधानवादः । परमाणव इति सिद्धान्ताद्भेद इति॥ आदिग्रहणेनेति । सांख्यादय इति  भाष्ये इति । अनुमानवाक्येति । सिद्धान्ते अनुमानानि वाक्यानि च बीजम्, अन्यत्र तु तदाभासा इति ।

ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनः ।

सर्वजननशक्तिसर्वविषयज्ञाने ब्रह्मणो न स्तः कुतः? तस्य ज्ञानक्रियाशक्त्यभावात्, ज्ञानक्रिययोः शक्ती ज्ञानक्रियाशक्ती तयोरभावादित्यर्थः ।

यस्य हि किंचिन्मात्रजननशक्तिः किंचिन्मात्रज्ञानशक्तिर्वा न संभवति, कुतस्तस्य सर्वविषयजननशक्तिः सर्वविषयज्ञानं च भवेताम्? शक्तिद्वयाभावे हेतुमाह —

ज्ञानक्रियाशक्त्यभावाद्ब्रह्मणोऽपरिणामिनःअपरिणामिन इति ।

कार्योन्नेये हि शक्ती, कार्ये च ज्ञानक्रिये नास्य स्तोऽपरिणामित्वादित्यर्थः । प्रधाने तु परिणामित्वादस्ति संभव इत्यर्थः ।

नन्वपरिणामिन्यपि ज्ञानगुणः प्रयत्नगुणश्च किं न स्यातामत आह —

तस्यापरिणामित्वादेकत्वाच्चएकत्वाच्चेति ।

एकरूपत्वान्निर्गुणत्वादित्यर्थः । अथवाऽपरिणामित्वं साधयति निरवयवत्वादिति  यावत् ।

ननु चेतनत्वादपरिणाम्यपि सर्वज्ञमत आह —

स्वरूपेति ।

अवृत्तिकं सर्वविषयपरिणामरहितम् ।

नन्वावृतज्ञाना जीवाः, ब्रह्म तु अनावृतं किं न सर्वज्ञमत आह —

न च स्वरूपेति ।

ज्ञानकर्तृत्वं हि ज्ञातृत्वमित्यर्थः ।

अङ्गीकृत्यापि स्वरूपस्य कार्यतामाह —

कार्यत्वे चेति ।

स्यादेतत् — कथमचेतनं चेतनानधिष्ठितं प्रवर्तेतात आह —

भोगेति ।

पुरुषार्थेन प्रयुक्त आक्षिप्तश्चासावनादिः प्रधानपुरुषसंयोगः प्रधानस्य पुरुषं प्रति पारार्थ्यलक्षणः संबन्धस्तन्निमित्तः सर्ग इति॥

गौणश्चेत् (ब्र.अ.१.पा.१.सू.६) इत्यादिसूत्रनिरस्याः शङ्काः सौकर्यार्थमेकत्रलिखति —

तदैक्षतेत्यादिना ।

वृद्धाः शबरस्वामिनः ।

यज्ञपुरुषस्य ‘‘शिरो ह वा आग्नेयो हृदयमुपांशुयाज’’ इति प्रधानाग्नेयप्रायवचनात् प्रधानकर्मोपांशुयाज इत्युक्त्वा लोकेऽप्युदाहरति —

यथाग्नेत्यादि ।

अग्नयः श्रेष्ठः ।

कथं नित्यस्य जीवस्य प्रधाने लयोऽत आह —

प्रधानांशेति ।

प्रधानस्यांशस्तमोगुणस्तस्योद्रेके जीवो निद्रां कुर्वंस्तत्र मग्न इव भवत्यतश्च विवेकाभावाल्लयोपचारः । प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (पातं.यो.अ.१.पा.१.सू.६) इति सूत्रोक्ता निद्रातोऽन्या वृत्तयोऽभावं प्रत्ययन्ते प्रतिगच्छन्त्यस्मिन्नित्यभावप्रत्ययस्तदालम्बना जीवस्य या वृत्तिः सा निद्रेति पातञ्जलसूत्रार्थः ।

सर्वज्ञं प्रस्तुत्येति ।

‘ज्ञः कालकालो गुणी सर्वविद्य ‘ इति प्रधानकारणपक्षेऽपि योजयितुं शक्यत इति ।

सर्वशक्तित्वं तावत्प्रधानस्याप्युपपद्यते इति च भाष्येऽपिकारदर्शनादनवधारणेनात्र पूर्वपक्ष इति केचिद्व्याचक्षते, तद्व्यावर्तयति —

अपिकाराविति ।

इह हि ‘गौणश्चे’दितीक्षणे गौणत्वशङ्का मुख्येक्षणवतो ब्रह्मणः कारणत्वासंभवनिश्चयवत एव । तथाच नानवधारणम् । तत्परतयैव वेदान्तवाक्यानि योजयतीति च भाष्यं विपर्ययेण पूर्वपक्षं द्योतयति । यदा योगैश्वर्यात् सत्त्वं निरतिशयोत्कर्षं भवति, तदा तत्सर्वज्ञत्वे बीजं भवतीति सूत्रार्थः ।

निरतिशयतां सत्त्वस्य तत्कार्यज्ञानस्य निरतिशयत्वसाधनेनोपपादयति —

यत्खल्विति ।

कुवलं बदरम् । ज्ञानत्वं, निरतिशयकिंचिदाश्रितं, सातिशयवृत्तिजातित्वात्, परिमाणत्ववदिति समुदायार्थः ।

निरतिशयत्वे कथं सर्वविषयता? न हि नभः परिमाणं सर्वविषयमत आह —

इदमेवेति ।

ज्ञेयभूम्ना हि ज्ञानभूमा, ततो निरतिशयत्वं , सर्वविषयत्वमानयतीत्यर्थः । अपिभ्याम् एवकारार्थत्वेन व्याख्याताभ्याम् । सिंहावलोकितेनेति पुनरुक्तिपरिहारः । चकारो विशेषवाची तुशब्दसमानार्थः॥

नन्वनुमानसिद्धानुवादिषु वेदान्तेषु कथमीक्षतिश्रवणाद् ब्रह्मनिर्णयस्तत्राह —

नामरूपेति ।

प्रवेदयिष्यते तर्कपादे (ब्र.अ.२.पा.२) ।

पौर्वापर्येति ।

पौर्वापर्यमुपक्रमोपसंहारौ । परामर्शो मध्ये निर्देशः । एभिर्यदाम्नायो मुख्यवृत्त्या वदेत्तदेव जगद्बीजं, स चाम्नायश्चेतने मुख्यो न प्रधान इति ।

भवतु ब्रह्मणि प्रकृतिर्मुख्या, प्रत्ययः कथं मुख्य इति शङ्कते —

नन्विति ।

अत एव नित्यज्ञानत्वादेव ।

यदवाद्यपरिणामित्वान्न ज्ञानं ब्रह्मण इति , तत्राह —

यद्यपि चेति ।

उपाध्यपेक्षं ज्ञातृत्वं गौणमित्याशङ्क्य पारमार्थिकेक्षितृत्वासंभवादिदमेव मुख्यमित्याह —

परैरपीति ।

चैतन्यसामानाधिकरण्येनेति ।

यत्रात्मनि स्वरूपभूतं चैतन्यं तत्रैव ज्ञातृत्वोपलब्धेस्तस्य च परिणामानभ्युपगमात्परैरित्यर्थः ।

ननु किं चितिशक्तेर्ज्ञातृत्वेन, प्रधानविकारा एव ज्ञास्यन्ति? नेत्याह —

न हीति ।

भवतु कापिले मतेऽलीकं ज्ञातृत्वं, भाट्टे तु तात्त्विकं तदनभ्युपगच्छतस्तव गौणं स्यादत आह —

नित्यस्येति ।

अस्तु तर्हि न्यायमते वास्तवमत आह —

कूटस्थेति ।

अव्यापारवत इति च्छेदः । धर्मो गुणः । उपरिष्टात् ‘ज्ञोऽत एव’(ब्र.अ.२.पा.३.सू.१८) इत्यादौ ।

औपाधिकमीक्षणकर्तृत्वमित्यत्र श्रुती दर्शयति —

तथा चेति ।

ज्ञानं साधनेनोपलक्षितं तद्विषयनामरूपव्याचिकीर्षावद्भवति । अयं धर्मद्वययोग उपचयः ।

ततोऽन्नमभिजायत इत्येतद्व्याचष्टे —

व्याचिकीर्षायां  चेति ।

उत्पन्नव्याचिकीर्षया नामरूपप्रपञ्चस्य व्याप्तिरभिजायत इत्युक्त्वाऽन्नशब्देन नामरूपमुच्यते, तत्र निमित्तं प्रसिद्धान्नगुणयोगमाह —

साधारणमिति ।

अन्नादिति क्रमार्था पञ्चमी । व्याचिकीर्षितत्वानन्तरमित्यर्थः । हिरण्यगर्भसृष्टिः सूक्ष्मभूतसृष्ठ्यनन्तरमिति द्रष्टव्यम् । मणीनामिव सूत्रं जगतो सूत्रं विधारकः सूत्रात्मा ।

समुदाये सिसृक्षिते प्रथममेकदेशोत्पत्तौ निदर्शनमाह —

यथेति ।

मन इत्यादावपि पूर्वपूर्वसर्गानन्तरमिति द्रष्टव्यमित्याह —

तस्माच्चेति ।

मनआख्यमिति ।

व्यष्टि मन इत्यर्थः । सङ्कल्पादिवृत्तिव्यक्तीकरणात्मकं तत्कारणमिति यावत् ।

सत्यमित्यस्यार्थमाह —

आकाशादीनीति ।

स्थूलानीत्यर्थः । तेषु हि पृथिव्यादिभूतत्रयम् अपरोक्षत्वात्सत् वाय्वाकाशौ परोक्षत्वात्सत्यमिति तत्त्वशब्दप्रयोगः ।

कर्मसृष्टिं सिद्धवत्कृत्य श्रुत्या कर्मसु चेत्युक्तं, तामाह —

तेष्विति ।

सप्तमी निमित्तार्था । ज्ञानमयम् इत्यौपाधिकमीक्षणमुक्तम् ।

अन्नात्प्राण इत्यत्र पञ्चम्याः क्रमार्थत्वस्वीकारादिहापि तत्प्रसङ्गमाशङ्क्याह —

पूर्वस्मादिति ।

नियतपूर्वकालवर्तित्वं कारणत्वं तच्छब्दार्थ इत्यर्थः ।

नियतपूर्वसतः सर्वज्ञाज्जायमानस्य हिरण्यगर्भब्रह्मणः परकालवर्तित्वेन कार्यत्वमेतच्छब्दार्थ इत्याह —

एतदिति ।

नाम देवदत्त इत्यादि । रूपं शुक्लादि ।

मुमुक्षोश्चेति ।

‘तन्निष्ठस्य’ (ब्र.अ.१.पा.१.सू.७) इति सूत्रार्थानुकर्षः । अयथाभूतप्रधानात्मत्वोपदेशश्च मुक्तिविरोधी ।

यदवादि “यत्प्राये श्रूयत’’ इति, तत्राह —

संशये चेति ।

द्वितीये स्थितम् – ‘विशये प्रायदर्शनात्’ (जै.अ.१.पा.३.सू.१६) । ‘‘वत्समालभेत वत्सनिकान्ता हि पशव’’ इत्यत्र किमालभतिर्यजिमत्कर्माभिधानः, उत स्पर्शमात्रवचन इति सशये ‘वायव्यं श्वेतमालभेते’त्यादावालभतिः प्राणिद्रव्यसंयुक्तो यजिमत्कर्माभिधानो दृष्ट इतीहापि तथात्वे प्राप्ते — राद्धान्तः, वायव्यादौ द्रव्यदेवतासंबन्धाद्यागप्रतीतेर्यजिमत्संज्ञपनाभिधाय्यालभतिः, इह तु न, द्रव्यदेवतासंबन्धाभावात्, किंतु गोदोहनादिसंस्कारकर्मसन्निधौ श्रवणात् स्पर्शमात्रसंस्कारकर्मवचन इति॥

प्रकृते वैषम्यामाह —

इहत्विति ।

ब्राह्मण अयनमाश्रयो यस्य स्वयं त्वाभास इति । आरोपे सादृश्यनियमभङ्गाय मरीच्युदाहरणम् । चेतनभेदारोपे चन्द्रभेदः ।

पातञ्जलादिमतेऽप्याह —

नचेति ।

तन्मते कार्याणामधिष्ठातुरुपादानाच्च भेदात् श्रुतौ च तदभावादित्यर्थः ।

चेतनं कारणमिति प्रतिपाद्ये तत्सत्त्वोक्तिरनर्थिकेत्याशङ्क्याह —

सदिति ।

अधिकरणानुक्रमणे उक्तोऽर्थो भाष्यारूढः क्रियते —

तथापीक्षितेति ।

सिद्धान्तेऽप्यनिर्वाच्या त्रिगुणास्ति माया, तत उक्तं —

पारमार्थिकेति ।

तेनापीति ।

चेतनकारणेनात्मन एव बहुभवनकथनेनेत्यर्थः ।

आकाशोपक्रमसृष्टिश्रुत्या तेजः प्राथम्यश्रुतेर्वियदधिकरण (ब्र.अ.२.पा.३.सू.१) सिद्धान्तो नास्तीति कृत्वाचिन्तयैव विरोधमाह —

यद्यपीति ।

छन्दोग्ये हि – ‘‘तासां त्रिवृतं त्रिवृतमेकैकामकरोदि’’ति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करणमनन्तरं वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति॥ संप्रदायाध्वना पञ्चोकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद्वाचस्पतिमतं शुभम्॥ पृथिव्यबनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्वाभ्यां चाक्षुषत्वं प्रसज्यते॥ अर्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने । व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत्॥ अनपेक्ष्य फलं वेदसिद्धेत्येषेष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता॥ तस्मात्सुष्ठूच्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति । पञ्चीकरणमेवम् — पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते तत एकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूतान्तरागतपादचतुष्केण च पञ्चीकरणम् । एवं भूतान्तरेषु योजना । त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य प्रतिभूतमेकैकमर्धं द्विधा प्रस्फोष्ठ्येतरभूतद्वये योजनमिति ।

अभ्युच्चयाय श्रुत्यान्तरोदाहरणमित्याह —

एकमिति ।

ब्रह्म चतुष्पादिति ।

क्वचिच्च षोडशकलं पुरुषं प्रस्तुत्येत्यस्य भाष्यस्य व्याख्यानम् । पशोः पादेषु हि पुरतः खुरौ पृष्ठतश्च द्वौ पार्ष्णिस्थानीयाववयवौ दृश्येते । तद्वत्परमात्मन्यपि चतुष्पात्त्वेन षोडशकलत्वेन च पशुरूपकल्पनयोपासनम्॥ इदमुदाहरणमत्र न संगच्छते; प्रश्नोपनिषदि हि – ‘‘इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति’’ प्रस्तुत्य ‘‘स ईक्षांचके कस्मिन्न्वहमुत्कान्ते उत्कान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामिति स प्राणमसृजत्प्राणाच्छ्रद्धां स्वं वायुर्ज्योतिरापः पृथिवीमिन्द्रियं मनोऽन्नमन्नाद्धीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम चेति’’ पठ्यते ।

छान्दोग्ये तु —

दिगाद्यवयवः षोडशकल उपास्यो, न च तत्र स ईक्षांचके इति श्रवणमस्ति । तस्माद् न्यायनिष्ठं शास्त्रमिति द्योतयितुमनुदाहरणमप्युदाहृतम् । अथवा — एवं कथं चित्समर्थनीयम् । परब्रह्मप्रमित्यर्थां सृष्टिमाश्रित्य शासति । उपासनानि वेदान्तास्तत एतदुदाहृतम्॥ या हि कलाः प्रश्ने परमात्मप्रमितिप्रयोजनास्तत उत्पान्ना इत्युक्तास्तभिर्विशिष्टः छान्दोग्ये स एवोपास्य उक्तः । तत्र यद्यपि श्रद्धादयश्छान्दोग्ये न पठिताः नापि दिगादयः प्रश्ने, न च गुणॊपसंहारः, सगुणनिर्गुणत्वेन विद्याभेदादुपसंहारे चाधिकसंख्यापत्तौ षोडशकलत्वभङ्गात्; तथापि पृथिवीन्द्रियमनः प्राणादयः कियन्तः समा उभयत्रापि, दिगादयस्तु लोकेष्वन्तर्भवन्ति, न च यावत्सृष्टावुक्तं तावत्सर्वमुपास्तावुपसंह्रियते; येन संख्यातिरिच्यते, उपयोगि तु । तस्मात्प्रश्नच्छान्दोग्ययोरेकत्वात् षोडशकलस्य शक्यते वक्तुं दिगाद्यवयवं षोडशकलं प्रस्तुत्य स ईक्षांचक्रे इति श्रूयत इति । एवंच निर्गुणप्रकरणे कलाशब्दप्रयोगोऽन्यत्रोपास्यत्वाभिप्रायः सन् सोपयोग इति । कलाः षोडश भूतानि प्राणोऽक्षं नाम कर्म च । श्रद्धा लोकास्तपो मनो वीर्यं शरीरकम्॥

प्रसिद्धेति ।

लक्षणाया एव निरुढत्वार्थं प्रयोगानुगमो न वाचकत्वायेत्यर्थः । सप्तमे स्थितम् — इतिकर्तव्यताविधेर्यजतेः पूर्ववत्त्वम् (जै.अ.७.पा.४.सू.१) सौर्यादिष्वनाम्नानादनितिकर्तव्यताकत्वे प्राप्ते — उच्यते; तथा लोके शाकादिषु सिद्धेषु वदत्योदनं पचेति, तथेह सिद्धवत्कृत्य सामान्येनेतिकर्तव्यतां करणं विहितम् । तस्याश्च विकृतिष्वविधेः सौर्यादीनां विकृतियागानां दर्शादिप्रकृतिविहितपूर्वेतिकर्तव्यतावत्त्वमिति । । समुदाचरणं व्यक्तिः । तेषामपि हैरण्यगर्भाणां मते क्लेशैरविद्याऽस्मितारागद्वेषाभिनिवेशधर्माधर्मकर्मणां विपाकेन तत्फलेन आशयेन फलभोगवासनया अस्पृष्टस्य पुरुषस्यैव प्रकृष्टसत्त्वोपादानं सर्वज्ञत्वं, नाचेतनस्येत्यर्थः ।

नचैतदपिभेदमतं श्रद्धेयमित्याह —

तदपि चेति ।

इदं तावदित्यादिदोषोऽस्तीत्यन्तं भाष्यं ब्रह्मणि प्रकृत्यर्थस्येक्षणस्याञ्जस्यप्रदर्शनपरम् ।

ज्ञाननित्यत्व इत्यादिना प्रत्ययार्थानुपपत्तिमाशङ्क्य परिह्रियते, तदभिप्रायमाह —

एतदपीति ।

अनुपहितनित्यचैतन्ये कर्तृत्वाभावादित्यर्थः । सवितृप्रकाश्यस्य रूपादेर्भावादसत्यपीति भाष्यायोगमाशङ्क्य विकल्पमुखेनावतारयति किमिति । सवितरि कर्मास्ति, इह तु नेति वस्तुत एव कर्माभाव उदाहरणाद्वैषम्यमभिमतम्, उत दृष्टान्ते कर्म विद्यते विवक्षितं च, दार्ष्टान्तिके तु यद्यपि विद्यते, तथाप्यविवक्षितं; तव मतेऽध्यस्तत्वादृश्यस्येति मतम् । तत्र द्वितीये विकल्पे किं सविता प्रकाशयतीत्यस्मादैक्षतेत्यस्य दार्ष्टान्तिकस्य वैषम्यमुत प्रकाशत इत्यस्मात् ।

आद्यमभ्युपगमेन परिहरति —

तदा प्रकाशयतीत्यनेनेति ।

न द्वितीय इत्याह —

प्रकाशते इत्यनेनेति ।

नह्यत्रेति ।

अकर्मकत्वात्प्रकाशतेरित्यर्थः । एवंच सत्यैक्षतेत्येतदपीक्षणं करोतीत्येवंपरं, नत्वालोचयतीत्येवमर्थमिति । प्रकाशत इति कर्तृत्वव्यपदेशदर्शनादित्ययमेव भाष्यपाठः साधुर्न णिजन्तः ।

आद्यविकल्पयोर्मध्ये प्रथमं प्रत्याह —

अथेति ।

ऐक्षतेत्यत्र कर्माविवक्षामुपेत्य प्रकाशत इतिवत्कर्तृत्वनिर्देश उपपादितः, इदानीमविवक्षाप्यसिद्धेत्याह —

विवक्षितत्वाच्चेति ।

न खल्वस्माकं क्वचिद्वास्तवं दृश्यमस्त्यतोऽप्यस्ततयैव कर्मत्वस्य विवक्षेत्यर्थः ।

या तु प्रधानस्य सर्वज्ञत्वे साक्षिणी सत्त्वोत्कर्षे योगिसार्वज्ञप्रसिद्धिरुक्ता, सा समा ब्रह्मण्यपि; चेतनेश्वरप्रसादायत्तयोगिसर्वज्ञत्वस्य पातञ्जलतन्त्रे प्रसिद्धत्वाद्, इत्येवमर्थ यत्प्रसादादित्यादिभाष्यं, तद्व्याचष्टे —

यस्येति ।

तत ईश्वरप्रणिधानात्प्रत्यगात्माधिगमोऽन्तरायस्य रागादेरप्यभाव इति सूत्रार्थः ।

वस्तुतो नित्यस्येति ।

औपाधिकत्वेनानित्यत्वस्योक्तत्वादिति ।

कारणानपेक्षामिति ।

कर्ममात्रमुपाधिमीक्षणमपेक्षते, न शरीरादीतिभावः ।

स्वरूपेणेति ।

अन्वयेनेत्यर्थः ।

ज्ञानाभिव्यक्तये कर्तव्यं नास्तीत्याह —

आवरणादीति ।

ज्ञानमेव बलं सामर्थ्यमुपाध्यवच्छिन्नफलोत्पत्तौ, तेन बलेन फलभूतानुभवस्य करणं क्रिया, सा च न प्रधानस्येत्याह —

प्रधानस्य त्विति ।

अभिनिवेशस्यैव मिथ्याबुद्धित्वात्कथं तस्यैव तं प्रति हेतुत्वमत आह —

पूर्वेणेति ।

ननु लयलक्षणाऽविद्योपादानमस्ति कथं मात्रशब्दोऽत आह —

मात्रेति ।५ ।६ ।

गौणश्चेदिति ।

(ब्र.अ.१.पा.१सू.६) सूत्रसंबन्धिभाष्यमनुक्रमणिकायां व्याख्यातमित्युपरितनभाष्यं व्याचष्टे —

शङ्कोत्तरत्वेनेत्यादिना॥

यः सदाख्यः । एषोऽणिमाऽणोर्भावः । भावभवित्रोरभेदादणुः॥ एतस्यात्मनो भाव ऐतदात्म्यम् । अयमपि प्रयोगो भवितृपरः । एतदात्मकं जगत्॥ सत्येन तप्तपरशुं गृह्वतो मोक्षवत्सत्यब्रह्मज्ञस्य मोक्ष उक्तः ‘तप्तं परशुं गृह्णाती’त्यत्र॥ उक्थं प्राणः ।

अर्थवादप्रकल्पितेनेति ।

‘एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा’’ इति प्रकाशकत्वाज् ज्योतिष्ट्वेन रूपितत्रिवृदादिस्तुतिसमुदायवत्त्वात्क्रतौ ज्योतिः शब्दः॥७॥ हे श्वेतकेतो पुत्र तमप्यादेशम् आदिश्यते इति शास्त्राचार्योपदेशगम्यं वस्त्वप्राक्षीः पृष्टवानसित्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽश्रुतमप्यन्यच्छ्रुतं भवति, अमतमन्यन्मतं तर्कतो एन मतेन , अविज्ञातमनिदिध्यासितं विज्ञातं भवति येन विज्ञातेनेति ।

अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रप्रश्नः —

कथं न्विति ।

नान्यत्वं कार्यस्य कारणादित्याह —

यथा सोम्येति ।

यो विकारः स वाचारम्भणं वागालम्बनम्, उच्यते परम् । नामधेयं नाममात्रं, नार्थ इति॥८॥ मनःशब्दवाच्यो भवतीति । लक्ष्यो भवति । ‘‘एवमेव खलु सोम्य तन्मन‘‘ इति स्वप्नोपन्यासवाक्ये अर्थवादस्यापि स्वपितिनामनिर्वचनस्य यथार्थत्वाय हृदयादिनिरुक्त्युदाहरणम् । तस्य हृदयशब्दस्य ।    एतन्निरुक्तं निर्वचनम् । ‘‘अशनायापिपासे सोम्य विजानीहि’’ इत्युपक्रम्याषितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनाया । एकवचनं छान्दसम् । द्रावकोदकापनयताच्छोषणादुदन्यं तेजः । आकारश्छान्दसः॥१॥ प्राणाः चक्षुरादयः । यथायतनं यथागोलकम् । प्राणेभ्योऽनन्तरमादित्याद्या अनुग्राहका देवाः । लोक्यन्त इति लोकाः विषयाः॥१०॥ करणाधिपानां जीवनामधिपः॥११॥

परमेति ; यदि सर्वज्ञे इति ; सर्वज्ञे जगत्कारण इति ; अणुव्यतिरेकेणेति ; परमाणव इति सिद्धान्ताद्भेद इति ; ज्ञानक्रिययोः शक्ती इति ; यस्य हीति ; नन्वपरिणामिन्यपीति ; एकरूपत्वादिति ; प्रयुक्त आक्षिप्त इति ; यज्ञेति ; प्रधानाग्नेयप्रायवचनादिति ; चकारो विशेषवाची तुशब्दसमानार्थ इति ; तदनभ्युपगच्छतस्तव गौणं स्यादिति ; ज्ञानं साधनेनोपलक्षितमिति ; तत्र निमित्तमिति ; सप्तमी निमित्तार्थेति ; ज्ञानमयमित्यौपाधिकमीक्षणमुक्तमिति ; नियतपूर्वकालवर्तित्वरूपं कारणत्वमिति ; द्वितीये स्थितमिति ; 9वत्सनिकान्ताः ; संज्ञपनाभिधायीति ; द्रव्यदेवतासंबन्धाभावादिति ; तन्मते कार्याणामिति ; आकाशोपक्रमेति ; प्रयोगानुगम इति ; न वाचकत्वायेति ; सप्तमे स्थितमिति ; शाकादिषु सिद्धेविति ; अस्पृष्टस्य पुरुषस्यैवेति ; ईक्षणं करोतीत्येवंपरं न त्वालो चयतीत्येवमर्थमिति ; गौणश्चेदित्यादिभाष्यमिति ; प्रकाशकत्वाद् ज्योतिष्ट्वेन रूपितेति ; स्तुतिसमुदायवत्वादिति ; एकवचनं छान्दसमिति ; आदित्याद्या अनुग्राहका देवा इति ;

परमेति।

परं सर्वपूर्वभाविजगत्कारणं वस्तु, तद्विषया या मा प्रमा, “सदेव सोम्येदम्' इत्यादिकारणवाक्यजन्या सा निरतिशयानन्दादिस्वरूपलक्षणाञ्चितं सर्वज्ञं यं विषयीकरोति, न त्वतथाभूतं प्रधानादिकम्; प्रस्तोष्यमाणाधिकरणन्यायात्, तं पुरुषोत्तमं वन्दे इत्यर्थः। परा उत्कृष्टा मा श्रीमहालक्ष्मीः यमालिङ्गतीत्यर्थान्तरमप्यनेन क्रोडीकृतम्। यद्यपि तदन्या काचिदपरा लक्ष्मीः नास्ति; तथापि तस्या एव सन्ति रूपभेदा देवमनुष्याद्यनुग्रहार्थं तत्र तत्र तारतम्येन आविर्भूताः तदंशकलाविशेषरूपाः “सौम्यासौम्यैः जगद्रूपैः त्वयैतद्देवि पूरितम्" इत्यादिपुराणवचनप्रसिद्धाः। तदपेक्षया परत्वमिह भगवद्दिव्यमहिषीरूपे विवक्षितमिति परशब्दस्य व्यावर्तकत्वात् विशेषणसमासोपपत्तिः।

यदि सर्वज्ञे इति।

सर्वज्ञत्वं चेतनस्य ब्रह्मण एव संभवति, नाचेतनस्य प्रधानादेरिति कारणवाक्यानां ब्रह्मपरत्वं तत एव सिद्ध्यतीति भावः।

सर्वज्ञे जगत्कारण इति।

ननु सर्वज्ञे समन्वयप्रदर्शनेन चेतनत्वं नोपक्षिप्तं, किन्तु प्रथमसूत्रमारभ्यैव प्राप्तम्; प्रथमसूत्रे विचार्यत्वेन प्रतिज्ञातस्य नित्यशुद्धबुद्धमुक्तत्वरूपप्रवृत्तिनिमित्तानुसारेण चेतनत्वेनाभिमतस्य ब्रह्मण एव लक्षणप्रमाणाकाङ्क्षाक्रमेण जन्मादिसूत्रत्रयप्रवृत्तेः। अतः सर्वज्ञत्वोपक्षिप्तं चेतनत्वमाक्षिप्य समर्थ्यत इत्ययुक्तम्। एवं च तच्च ब्रह्मणि इत्यादिव्याख्येयटीकाग्रन्थोऽप्ययुक्त इति चेत्, उच्यते नित्यशुद्धबुद्धमुक्तस्वभावे जन्मादिसूत्रोदाहृतनिर्णयवाक्यानुसारेण समन्वयसूत्रव्यवस्थापितपरमपुरुषार्थतानुसारेण च निरतिशयानन्दरूपे ब्रह्मण्येव समन्वय इहाक्षिप्यते। अत एवाव्यवहितेन समन्वयाधिकरणेन आक्षेप्याक्षेपिकी संगतिः। सा च तदधिकरणार्थानुवादकेन टीकाश्लोकेनैव व्यञ्जिता इत्याचार्यैः नोद्धाटिता। टीकायां सर्वज्ञं सर्वशक्ति यत् जगत्कारणं तद्ब्रह्मेति नाद्यापि सिद्धमित्युक्तिः सर्वज्ञत्वसर्वशक्तिकत्वयोः प्रधाने पूर्वपक्षिणा अङ्गीकृतत्वाज्जगत्कारणं ब्रह्मेत्यत्रैव विवाद इति प्रागुक्तमपि तदेतदधिकरणपूर्वपक्षनिराकरणपर्यन्तमनुक्तप्रायमित्येतदभिप्राया, न तु ब्रह्मेति प्राङ्नोक्तमित्यभिप्राया; प्रथमसूत्रमारभ्य सूत्रभाष्ययोस्तदुक्तेः स्पष्टत्वात्। सर्वज्ञत्वेन चेतनत्वोपक्षेपोक्तिस्तु तद्दृढीकरणाभिप्राया योज्या। जीवाणुव्यतिरिक्तेत्यादिटीकायां यथा जगदुपादानकारणाधिष्ठातुः जीवव्यतिरिक्तबविशेषणमपेक्षितं जीवा एव कर्मद्वारा तदधिष्ठातार इति मताद्भेदप्रदर्शनार्थं, न तथाणुव्यतिरिक्तत्वविशेषणं प्रधानव्यावर्तनार्थं चेतनत्वविशेषणं च तस्यापेक्षितम्। अणवो जगदुपादानभूतान् परमाणूनधितिष्ठन्तीति वा प्रधानं तानधितिष्ठतीति वा मतस्य कस्यचिद् निरसनीयस्याभावात्। तथाप्यर्थगत्या तद्विशेषणद्वयं कणादमतस्याणुसङ्घातवादात् प्रधानवादाच्च भेदप्रदर्शनार्थत्वेन योजनीयमित्यभिप्रेत्य व्याचष्टे –

अणुव्यतिरेकेणेति।

परमाणव इति सिद्धान्ताद्भेद इति।

सिद्धान्तेऽपि जीवव्यतिरिक्तेश्वरनिमित्ताधिष्ठिताः सन्ति परिणाम्युपादानभूता जीवानामविद्या इति ततो भेदप्रदर्शनार्थं परमाणव इति विशेष्यभाग इत्यर्थः। ज्ञानक्रियाशक्ती खल्वित्यादिश्लोकव्याख्यानटीकाग्रन्थेन स्पष्टीकृतमपि ज्ञानक्रियाशक्त्यभावात् इत्यत्र अभिमतं समासं तत्र टीकाग्रन्थे ज्ञानाभावसाधितेन ज्ञानशक्त्यभावेन ज्ञानाभावसाधने अन्योन्याश्रयः शक्त्यभावेन शक्त्यभावसाधने आत्माश्रय इति शङ्काशदानाय स्मारयति –

ज्ञानक्रिययोः शक्ती इति।

दत्तावकाशशङ्कासमाधानार्थमाह –

यस्य हीति।

सामान्याभावसिद्ध्यपेक्षं विशेषाभावसाधनमिति न दोष इति समाधानाभिप्रायः।

नन्वपरिणामिन्यपीति।

सर्वज्ञ इत्यादिषु कर्त्रर्थप्रत्ययः सर्वविषयज्ञानाश्रयत्वमात्रेणोपपद्यते; सविता प्रकाशते चैत्रः पश्यति ईक्षते करोति स्वपिति इत्यादिप्रयोगेषु धात्वर्थायत्वस्यापि तदभिधेयत्वदर्शनादिति भावः॥

नन्वेकमपि ज्ञानक्रिययोराश्रयत्वमर्हति, तयोर्व्यासज्यवृत्तित्वाभावात् इत्याशङ्क्य व्याचष्टे –

एकरूपत्वादिति।

अनेन प्रथमव्याख्याने गुणापेक्षानेकरूपत्वनिषेधो, द्वितीयव्याख्याने अवयवापेक्षस्तन्निषेधश्च कृतो भवति। प्रथमव्याख्याने निर्गुणत्वहेतोः श्लोकव्याख्याने संगृहीतस्य श्लोकेनासंग्रहो वैकल्यमापादयेत्, द्वितीयव्याख्याने तु निरवयवत्वहेतुरपि चेत्यादिपूर्वपक्षान्तभाष्येण दर्शितोऽत्राकृष्ट इति श्लोके तदसंग्रहो न वैकल्यापादक इति विशेषः। निरवयवत्वहेतुः कृत्स्नप्रसक्त्यधिकरण (ब्र. अ.१ पा. सू. २६) पूर्वपक्षन्यायेनापरिणामित्वसाधकः। ननु निरवयवत्वं श्रुतिसिद्धत्वेन सिद्धान्त्यभिमतमपरिणामित्वे हेतूकर्तव्यम्। हेतुवत्साध्यमपि तथात्वेन सिद्धान्त्यभिमतमेव, किमर्थं तत्र हेतुगवेषणं? किमर्थं चापरिणामित्वक्रियाज्ञानाभावतदुभयशक्त्यभावप्रणाडिकया सर्वज्ञानसर्वशक्त्यभावप्रसाधनम्? अपरिणामित्वमेव ब्रह्मणि जगदुपादानप्रतिपादकवाक्यसमन्वयप्रत्याशां त्याजयति, ज्ञानक्रियाभावो जगत्कर्तृप्रतिपादकत्वाभिमतवाक्यसमन्वयप्रत्याशामपि, जगत्कारणत्वाक्षिप्तं सर्वज्ञत्वं सर्वशक्तित्वं च ब्रह्मणो न संभवतीति प्राक्सिद्धार्थाक्षेपार्थं तस्य सर्वविज्ञानसर्वशक्त्यसंभवप्रसाधनमिति चेन्न; तथापि प्रधाने त्वस्ति संभव इत्यस्य वैयर्थ्यापत्तेः, प्रधानस्योपादानत्वसिद्ध्यर्थं सर्वशक्तिकत्वोपपादनापेक्षायामपि कर्तृत्वोपयोगिसर्वज्ञत्वोपपादनवैयर्थ्यानिवारणात्। प्रधानस्य कर्तृत्वमपीष्यत इति चेन्न; कर्तृत्वस्य अभिव्यक्तसार्वज्ञ्यापेक्षत्वेन शक्तिरूपसार्वज्ञ्योपपादनस्य अनुपयोगित्वापत्तेः, उच्यते; 'यः सर्वज्ञः सर्ववित्' 'परास्य शक्तिर्विविधैव श्रूयते' इत्यादिश्रुतीनां प्रधाने समन्वयार्थ तत्र तदुभयोपपादनं, भाष्यानुसारात् ब्रह्मणि तत्समन्वयनिरासार्थं च तत्र तदुभयानुपपत्तिप्रदर्शनं, ब्रह्मणो जगत्कारणत्वाङ्गीकारे तदुपपादनार्थम् अनेकत्वाद्यभ्युपगमावश्यंभावात् तदेकत्वापरिणामित्वनिर्गुणत्वनिष्क्रियत्वनिर्धर्मकत्वश्रुतिसमन्वयोऽपि ब्रह्मणि त्वदभिमतो न सिद्ध्येदिति दर्शयितुमित्थं प्रणाडिकाश्रयणम्॥

प्रयुक्त आक्षिप्त इति।

अत्राक्षिप्तत्त्वं तादर्थ्येन। पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य॥ पश्बन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः॥ (सां.का.२१) इति सांख्यवचनात्,

पुरुषस्य विकारावस्थापनप्रधानप्रदर्शनरूपभोगार्थ तस्य कैवल्यार्थं च प्रधानपुरुषयोः जडचेतनयोः क्रियाज्ञानशक्तियुक्तयोरुभयोरपि एकफलसंपादनार्थं प्रवृत्तयोः पङ्ग्वन्धयोरिव संयोगस्तत्कृतश्च महदादिसर्ग इत्येतदर्थपरत्वेनास्य वचनस्य तत्वकौमुद्यां व्याख्यातत्वाच्च। प्रायपाठस्य ईक्षतिश्रुतिस्वारस्यभञ्जकत्वं विधिश्रुतिस्वारस्यभञ्जकत्ववद्युक्तमिति विभावयितुमध्यप्रायन्यायोत्पत्तिस्थलमुदाहरति –

यज्ञेति।

प्रधानाग्नेयप्रायवचनादिति।

"शिरो ह वा एतद्यज्ञस्य यदामेयो हृदयमुशियाजः पादावग्नीषोमीय इति प्रधानामेयाग्नीषोमीयप्रायपाठादिति यावत्। ननु आग्नेयामीषोमीययोर्येन दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति फलवचनेन प्राधान्यमवगम्यते, तेनैवोपांशुयाजस्यापि तदवगम्यत एव, पूर्णमासपदप्रवृत्तिनिमित्तस्य पौर्णमासीकालसंबन्धस्य त्रिष्वप्यविशेषादतस्तदुभयप्रायपाठेनोपांशुयाजस्य प्राधान्य सिद्ध्युक्तिरयुक्ततिचेत्, उच्यते। उपांशुयाजाधिकरणसिद्धान्ते प्रायवचनाचेति (जै.अ.२ पा.२ सू.१२) गुणसूत्रस्येदं व्याख्यानम्। यदाग्नेयादिनायपाठादुपांशुयाजस्य प्राधान्यमभ्युपगन्तव्यमिति। तच्चाधिकरणं "जामि वा एतद्यज्ञस्य क्रियत" इत्यादिसंदर्भे विष्णुरुपांशु यष्टव्य" इत्यादिवाक्यत्रयं विध्यर्थोचिततव्यप्रत्यययोगाद् यागत्रयविधायकम्, अदेवतमन्तरावाक्यं यागत्रयसमुदायानुवादकमिति पूर्वपक्षप्राप्तौ; जामितादोषोपक्रम-तन्निर्हरणोपसंहारैकरूप्यावगतैकवाक्यत्वनिर्वाहार्थं पुरोडाशद्वय नैरन्तर्यप्रयुक्तजामितादोषनिर्हरणोपयुक्तपुरोडाशद्वयान्तरालकालविशिष्टयागविधिनिर्वाहार्थं चान्तरावाक्ये एकस्यैव यागस्य विधिः। तत्र त्रिविधयाज्यानुवाक्यायुगलरूपमन्त्रवर्णप्राप्तविकल्पितदेवतात्रयान्वयानुवादेन स्तुत्यर्थं विष्ण्वादिवाक्यत्रयमिति सिद्धान्तव्युत्पादनाय। तत्र सिद्धान्ते प्रायवचनाच्चेति सूत्रेण युक्त्यन्तरमुच्यते। तदित्थम् - न केवलमन्तरालविधिसामर्थ्यलब्धेन पौर्णमासीकालसंबन्धेन उपांशुयाजस्य फलवचनगतपौर्णमासपदग्राह्यतया फलान्वयः सिद्ध्यति; उत्पत्तिवाक्यश्रुतपौर्णमासीकालसंबन्धयोः आग्नेयाग्नीषोमीययोः झटिति प्रवृत्तिनिमित्तावगत्या पूर्णमासपदगृहीतयोः फलान्वयबोधने फलवचनस्य चरितार्थतया अन्तरालविधिसामर्थ्याक्षेप्यपौर्णमासीकालसंबन्धित्वेन विलम्बितप्रवृत्तिनिमित्तावगमस्य उपांशुयाजस्य पश्चात् पौर्णमासपदग्राह्यतया फलवचनस्यार्थान्तरबोधकत्वासंभवात्। शब्दानां विरम्य व्यापारासंभवात्। किन्तु तावब्रूतामग्नीषोमावाज्यस्यैव तावुपांशु पौर्णमास्यां यजन्निति प्रक्रम्य आम्नातेनान्तरावाक्येन बोध्यमानान्तरालकाल: प्रकान्तः पौर्णमासीरूपः पर्यवस्यति इत्येवमुत्पत्तिवाक्यबोध्यपौर्णमासीकालत्वाविशेषेणाग्नेयादितौल्यादुपांशुयाजस्य फलवचनगतपौर्णमासपदग्राह्यतया स सिद्ध्यति। एवं च यदि विष्ण्वादिदेवत्यास्त्रय उपांशुयाजाः स्युः, तदा प्रक्रान्ताग्नीषोमवक्तृकवाक्यानुसारेण तद्देवत्यस्यैवोपांशुयाजस्य स्फुटपौर्णमासीकालसंबन्धतया फलवचनगतपौर्णमासीपदगृहीतस्य फलान्वयेन प्राधान्यं सिद्ध्येत्, न तु विष्णुप्रजापतिदेवत्ययोः उपांशुयाजयोः, न चेष्टापत्तिः। प्रायपाठेनोपांशुयाजमात्रस्य प्राधान्यावगमात्, अतस्तनिर्वाहार्थमन्तरावाक्यविधेयो विकल्पितविष्ण्वादिदेवतात्रययुक्त एक एवोपांशुयाजः स्वीकर्तव्यः। न च तथाप्यग्नीषोमवक्तृकवाक्यानुसारेणाग्नीषोमदेवत्यप्रयोग एवोपांशुयाजस्य प्राधान्यं सिद्ध्येत्, न तु विष्णुप्रजापतिदेवत्ययोः प्रयोगयोरिति दोषतौल्यं शङ्कनीयम्। यागैक्ये विष्णुप्रजापतिदेवत्यप्रयोगयोरप्युपलक्षणतया तद्देवताभूताग्नीषोमान्वयावैकल्यात्। अत एव सोमयाजिनामग्नीषोमीयपुरोडाशाभावात् एकपुरोडाशे पूर्णमासयागे अन्तरालकालाभावेनोपांशुयाजाप्राप्तिमाशय अनपायो हि कालस्य लक्षणं हि पुरोडाशौ (जै.अ.१० पा.८ सू.६९) इति दशमाध्यायसूत्रेण अग्नीषोमीयपुरोडाशाभावेऽपि तदुपलक्षितकालावैकल्यात् तत्प्राप्तिः समर्थितेति। एवं सत्यपि फलवचने उपांशुयाजमात्रस्य प्राधान्यं मा भूदिति शङ्कायामविशेषेण तन्मात्रप्राधान्यसमर्पकप्रायपाठप्रदर्शनं युक्तमेव। एवं च तत्र यथा प्रधानाग्नेयादिप्रायपाठस्य सैद्धान्तिकमूलयुक्तिसहकृतस्य तव्यप्रत्ययत्रयगतविधिस्वारस्यभजकत्वमेवमिह गोणेक्षणप्रायपाठस्य सर्वज्ञत्वाद्यनुपपत्तिसहकृतस्य ईक्षतिश्रुतिस्वारस्यभञ्जकत्वमुपपद्यत इति भावः॥

चकारो विशेषवाची तुशब्दसमानार्थ इति।

यस्य प्रपञ्चनार्थोऽयमपिच प्रागुत्पत्तेरित्यादिग्रन्थः तस्मिन्न केवलस्याकार्यकारणस्येत्यादिपूर्वग्रन्थे पुरुषस्य सार्वज्ञ्यानुपपत्तिप्रदर्शनपूर्वकं त्रिगुणत्वात्तु प्रधानस्येत्यादिना प्रधानस्य सर्वज्ञत्वाद्युपपादनमेकप्रन्धतया तुशब्दयोगेन दृष्टमितीहापि चकारस्वर्थो ग्राह्यो न तु स्वतन्त्रयुक्त्यन्तरप्रदर्शनार्थतया योजनीय इति भावः॥

तदनभ्युपगच्छतस्तव गौणं स्यादिति।

ज्ञानोत्पत्तिप्रक्रियायां भाट्टमतमनभ्युपगच्छतस्ते ज्ञानकर्तृत्वं गौणं स्यादित्यर्थः। तदभ्युपगच्छतस्तव न गौणं स्यादिति क्वचित्पाठः। तस्मिन्पाठे तद् भाट्टमतमभ्युपगम्यते चेद्, ज्ञानकर्तृत्वमगौणमुपपादयितुं शक्यमित्यर्थः॥

ज्ञानं साधनेनोपलक्षितमिति।

तपश्शब्दार्थेन ज्ञानसाधनेन कर्मणा तत्साध्यं ज्ञानं लक्षितम्; ईक्षणवृत्तिरूपस्येश्वरज्ञानस्यास्मदाद्यदृष्टजन्यवादित्यर्थः। ज्ञानेन साधनेनोपलक्षितमिति पाठे तपसा ज्ञानेन कारणेन चीयते व्याचिकीर्षारूपोपचयवद्भवतीति श्रुत्यर्थ उक्तो भवति। उपलक्षितमिति त्वीक्षणव्याचिकीर्षारूपधर्मद्वययोगस्पष्टीकरणार्थम्। ज्ञानेनौपलक्षितमिति पाठे तु तपसेत्युपलक्षणतृतीया। व्याचिकीर्षयेत्यध्याहार्यम्। तथा च तपसा केनचिद् धर्मेण युक्तं सद् व्याचिकीर्षाद्वयधर्मान्तरजननेनोपचीयत इति श्रुत्यर्थ उक्तो भवति।

ननु तपसेत्युपलक्षणतृतीया, चीयत इत्येतदध्याहृतव्याचिकीर्षयोपचयपरम्। ततोऽन्नमिति वाक्यं नामरूपप्रपञ्चगतव्याचिकीर्षाविषयीभवनार्थकम्, अन्नादित्येतद्याचिकीर्षितान्नानन्तरमित्येतदर्थकं सदन्नव्याचिकीर्षानन्तरम् इत्यर्थपर्यवसितम्। प्राणादिसृष्टेः प्राग् भूतसूक्ष्मसृष्ट्यध्याहार इति क्लिष्टयोजनाश्रयणं किमर्थम्। तपसा ब्रह्मोपचीयते तदुपचिताद् ब्रह्मणो भूतसूक्ष्मपञ्चकं जायते तस्मादन्नात्प्राणादि जायत इति योजना किमिति नाश्रिता? इत्याशङ्कापरिहारार्थत्वेन साधारणमिति विशेषणमवतारयति –

तत्र निमित्तमिति।

भोग्यत्वेन सर्वप्राणिसाधारण्यरूपप्रसिद्धान्नगुणयोगो नामरूपे व्याकरवाणीति व्याचिकीर्षाविषयत्वेनाम्नाते स्थूलप्रपञ्च इव भूतसूक्ष्मेषु नास्तीत्यतस्तत्वारस्यानुसारेणैवं योजनाश्रितेति भावः।

सप्तमी निमित्तार्थेति।

तेषु कर्मसु निमित्तेषु सत्स्वित्यर्थे यस्य च भावेन भावलक्षणमिति सूत्रेण सप्तमीत्यर्थः।

ज्ञानमयमित्यौपाधिकमीक्षणमुक्तमिति।

ज्ञानं तप इत्येतावति वक्तव्ये मयटोऽधिकस्य वचनाव्याख्येयस्य तपश्शब्दनिर्दिष्टेक्षणस्य ज्ञानविकारत्वमवगम्यते, न वृत्तिज्ञानं कस्यचिद्वृत्तिज्ञानस्य विकार इति ज्ञानशब्दस्य स्वरूपज्ञानार्थत्वस्थितौ निर्विकारस्यात्मनः स्वरूपज्ञानस्यौपाधिक एव विकार उक्तो भवतीति भावः॥

नियतपूर्वकालवर्तित्वरूपं कारणत्वमिति।

ननु कारणत्वं पञ्चम्यर्थः, कार्यत्वं जनिधात्वर्थः, कथमनयोस्तदेतच्छब्दार्थत्वं वर्ण्यते? उच्यते; तत्पदनिर्दिष्टब्रह्मकार्यत्वं जायत इत्यनेनोक्तं, ब्रह्मादिपदनिर्दिष्ट कार्यप्रकृतित्वं तस्मादिति पञ्चम्योक्तं, तदुभयं तदेतत्पदाभ्यां न स्पृश्यते, किं त्वेतत्पदेन सन्निहितवाचिना कालतः सन्निधानरूपं कारणब्रह्मव्यावर्तकत्वेन 'कार्यं बादरि' (ब्र.अ.४. पा.३ सू.७) रित्यादिषु प्रसिद्धकार्यत्वसामान्यमुच्यते तत्पदेन कार्यब्रह्मव्यावर्तकं कारणत्वसामान्यमुच्यते। कारणं ब्रह्म, कार्यं ब्रह्म, परं ब्रह्म, अपरं ब्रह्मेत्यादिव्यवहारेषु परस्परव्यावर्तककारणकार्यपरापरविशेषणदर्शनेन अत्रापि हिरण्यगर्भे कार्यत्वनिर्देशदर्शनेन च परब्रह्मणि कारणत्वनिर्देशापेक्षणात्। यद्यपि तत्पदस्य तत्पदघटितपूर्ववाक्याकासानुसारेण पूर्ववाक्यप्रकृतसर्वज्ञत्वादिवैशिष्ट्यपरत्वमावश्यकम्, तथापि तद्वदेव वक्ष्यमाणकार्यब्रह्मव्यावर्तककारणपरत्वमप्यावश्यकमित्युभयपरत्वे न कश्चिद्दोषः।

प्रायपाठो न स्वयं श्रुत्यादिप्रमाणविरोधेन कस्यचिदर्थस्य प्रापणे प्रभवति, किन्तु संशयनिवर्त्तनमात्र इत्यत्र साक्षित्वेनाधिकरणमुदाहरति –

द्वितीये स्थितमिति।

9वत्सनिकान्ताः

वत्सप्रियाः। दार्शपूर्णमासिके ईषामालभेतेत्यालभतिश्रवणेऽपि व्यभिचारवारणार्थं प्राणिद्रव्यसंयुक्त इति विशेषणम्। एवं चात्र यजेस्तदनुमापकद्रव्यदेवतासंबन्धस्य चाश्रवणेऽपि प्राणिद्रव्यसंयुक्तालभतिलिङ्गेनानुमिते यागे सोमयागविकृतिष्विव मासाग्निहोत्रादिविकृतिष्विव च प्रकृतितो देवताप्राप्तिर्भविष्यति। प्राणिद्रव्यसंयुक्तालभतिसादृश्येन दैक्षपशोः प्रकृतित्वप्राप्तेः। न च संस्कारप्रायपाठात् संस्कारविधिरत्र शङ्क्यः। अन्यार्थदर्शनरूपस्य प्रायपाठलिङ्गस्य स्वातन्त्र्येण किञ्चिदर्थप्रापकत्वाभावादिति भावः।

संज्ञपनाभिधायीति।

यद्यपि वायव्यादिवाक्येष्वपि चोदकादर्थाद्वा प्राप्तस्य स्पर्शस्याभिधानं संभवति; दृष्टं च पशुयागविधिवाक्येष्वपि 'त्वाष्ट्रं पात्नीवतमालमेत' 'ईशानाय परस्वत आलभेत' इत्यादिष्वालभतेः स्पर्शमात्राभिधायकत्वं, 'पर्यग्निकृतं पात्नीवतमुत्सृजतीति तान् पर्यग्मिकृतानुत्सृजतीति तत्र पर्यग्निकरणान्तोत्सर्गविधानेन संज्ञपनाभावात्; तथापि वाजपेये प्राजापत्यपशूनां प्रातस्सवने पर्यग्निकरणान्ताङ्गकलापं कृत्वा विरम्य माध्यन्दिनसवने ब्रह्मसामस्तोत्रकाले तेषां संज्ञपनं कार्यमिति संज्ञपनोत्कर्षविधानार्थे “तान्पर्यमिकृतानुत्सृजति" ब्रह्मसाम्न्यालभत" इति वाक्ये संज्ञपनेऽप्यालभतेः दृष्टत्वाद्वायव्यादिवाक्येषूभयथाप्युपपत्तेः संज्ञपनाभिधायित्वमुक्तम्।

द्रव्यदेवतासंबन्धाभावादिति।

द्रव्यदेवतासंबन्धो ह्यनन्यथासिद्ध यागानुमाने लिङ्गं; कार्यकारणभावमूलकानुकूलतर्कसद्भावाद्, न तथेदमालभतिलिङ्गम्। तदिहैतल्लिङ्गानुमेययागविधिर्भवतु, उत गुणकर्मप्रायपाठलभ्यगुणकर्मविधिरिति संशये, अन्यार्थदर्शनरूपमपि वैदिकं लिङ्गं सहचारदर्शनमात्रकल्प्यव्याप्तिमूलकात् लौकिकानुमानाद् बलवदतः प्रायपाठेन गुणकर्मलसिद्धिरित्याशयः। किं चैवं सति विधेः दृष्टार्थत्वं लभ्यते, वत्सस्य स्पर्शेन लालनं हि वत्सलां गां प्रस्नावयद्दोहनोपयोगीति सार्थवादविषयवाक्यलेखनेनाविष्कृतम्॥

तन्मते कार्याणामिति।

कार्याणां महदहंकारादीनामधिष्ठातुरीश्वरात् अधिष्ठातुरीश्वरस्य उपादानात्प्रधानाच्च भेदादित्यर्थः। न तु कार्याणामीश्वरादुपादानाच्च भेदादित्यर्थः। सांख्यमत इव पातञ्जलमतेऽपि सत्कार्यवादेन कार्योपादानाभेदाभ्युपगमात्। एवं चाधिष्ठातुरिति पञ्चम्यन्तषठ्यन्तयोः तन्त्रेणोच्चारणमिति द्रष्टव्यम्। एतदनुरोधेन टीकायां तेषां भेदेन कार्यत्वादित्यस्याधिष्ठातुरीश्वराः भेदेन कार्यत्वादित्यर्थः। कार्याणां कारणेनाभेदादित्यत्र कारणेनेत्यस्याधिष्ठात्रेत्यर्थश्चेति द्रष्टव्यम्। यद्यपीत्यादिटीकाग्रन्थेन छान्दोग्ये वियत्सृष्टिस्त्यक्तेति सिद्धवत्कृत्य वक्ष्यमाणत्रिवृत्करणानुपयोगात्तत्त्याग इत्युपपाद्यते। इदमयुक्तम् वियदधिकरणे (ब्र.अ.२ पा.३ सू.१) श्रुत्यन्तरश्रुतवियत्सृष्टि-उपसंहारस्य व्युत्पादितत्वेन तत्र तत्त्यागाभावादित्याशाङ्क्य, तदुपसंहारव्युत्पादकं वियदधिकरणं यदि न स्यात्, तदा छान्दोग्ये तत्त्यागः सन्नपि न दोषः; वक्ष्यमाणत्रिवृत्करणानुपयोगेन तत्त्यागस्यान्यथासिद्धेः। तावता वियत्सृष्ट्यनभिमत्यप्रसङ्गादित्येवं न्यायान्तरव्युत्पादनार्थो यद्यपीत्यादिग्रन्थ इत्यवतारयति –

आकाशोपक्रमेति।

प्रयोगानुगम इति।

भाष्यकारीयं प्रयोगोदाहरणमित्यर्थः।

न वाचकत्वायेति।

अनेकार्थवस्यान्याय्यत्वादिति भावः॥

ननु यजतेरिति कुत्रत्यः प्रयोगः? तत्र वा धातुपरत्वं किं न स्यात्? इति शङ्काद्वयं परिहर्तुं यजतेरिति प्रयोगयुक्तं जैमिनिसूत्रं लिखित्वा अधिकरणमुपन्यस्थति –

सप्तमे स्थितमिति।

शाकादिषु सिद्धेविति।

शाकादिपाकेषु सिद्धवत्कृतेष्वित्यर्थः। यद्वा - यथा शाकादिषु प्राक्सिद्धेषु विद्यमानेषु तेषां प्राप्तिं सिद्धवत्कृत्यौदनपाकमात्रं विधीयते तथेत्यर्थः। यद्यपि शाकानामोदनपाकस्वरूपे तत्फले ओदने च नेतिकर्तव्यतारूपेणाकाङ्क्षा; तथाप्योदनस्य फलं भोजनमिति तत्राकाङ्क्षासत्वात् आकाङ्क्षामात्रे दृष्टान्तोऽयम्। ननु तत्र शाकादिषु यथा कथंचिदाकाङ्क्षामात्रं वास्ति, इह त्वितिकर्तव्यताकाङ्क्षैव नास्ति, यथाश्रुति सौर्यचस्यागमात्रेण ब्रह्मवर्चसाऽपूर्वोत्पत्त्युपपत्तेरितिचेत्, उच्यते। सौर्ययागेन ब्रह्मवर्चसं कुर्यादिति विधौ न ज्ञायते केन प्रकारेण तेन ब्रह्मवर्चसापूर्वं कर्तव्यमिति। अतस्तेन कथं कर्तव्यमिति भवत्याकाङ्क्षा। न हि पाकेनौदनं कुर्वित्यत्र निर्ज्ञातप्रकारे ओदनपाक इव पाकेन धात्वन्तरं कुर्वित्यत्रानिर्ज्ञातप्रकारेऽप्याकाङ्क्षा न भवति। तदिहाकाङ्क्षापूरणार्थमित्थं कर्तव्यमितीतिकर्तव्यताविधानमपेक्ष्यते। तच्च दर्शपूर्णमासादिष्वग्न्यन्वाधानबर्हिराहरणादिवत् प्रकरणाम्नातं नास्ति। अथापि करणविधानं दृश्यते, तेन ज्ञायते नूनमन्यतः संभवत्प्राप्तिकेतिकर्तव्यताऽत्र विवक्षितास्तीति। अतो यजतेः सौर्यादियागस्याकालानुसारेण सेतिकर्तव्यताकत्वं युक्तमेव। एवं च यद्यपि सौर्यादीनामनितिकर्तव्यताकत्वपूर्वपक्षनिराकरणार्थेन सिद्धान्तेन तेषां सेतिकर्तव्यताकत्वमात्रं सिद्धम्; तथाप्याष्टमिकैः इष्टिषु दर्शपूर्णमासयोः प्रवृत्तिः (जै. अ. ८ पा. १सू. ११) इत्याद्यधिकरणैः सेत्स्यद्दर्शपूर्णमासादिप्रकृतिकत्वं सिद्धवत्कृत्य दर्शादिप्रकृतिविहितेत्युक्तम्। ननु अत्र यजतिपदस्य सौर्यादियागपरत्वं वक्तव्यमिति लक्षणास्तु, ईक्षतिपदस्य तु धातुपरत्वमपि युज्यते। यत्रेक्षणं मुख्यं नास्ति ततो मुख्यार्थस्येक्षतिधातोरपि व्यावृत्तेरर्थवद्धातोरपि लिङ्गत्वसंभवादिति चेन्न; अर्थस्याचेतनाद्यावृत्त्यवगमं विना तद्वाचकस्य ततो व्यावृत्तरवगन्तुमशक्यतया प्रथमोपस्थितस्यार्थस्यैवात्र लिङ्गतौचित्यात्। तदेतन्न चाविवक्षितार्थंधातुस्वरूपस्य चेतनोपादानसाधनत्वसंभव इति टीकाग्रन्थेन स्पष्टत्वात् नोक्तम्॥

अस्पृष्टस्य पुरुषस्यैवेति।

क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषविशेष ईश्वरः (योगसू.पा.१ सू.२४) इति पातञ्जलसूत्रलक्षितस्येश्वरस्येत्यर्थः॥

ईक्षणं करोतीत्येवंपरं न त्वालो चयतीत्येवमर्थमिति।

ईक्षणं ब्रह्मप्रकाशमात्रं सवितृप्रकाशवदकर्मकलेनाप्युपपद्यते, आलोचयतिस्तु कर्मापेक्ष एवेति तात्पर्यम्।

गौणश्चेदित्यादिभाष्यमिति।

भाष्यग्रहणेन सूत्रे किंचिद्याख्यातव्यमस्तीति सूचितम्, तत्प्रदर्श्यते। पूर्वसूत्रेण ब्रह्मणि ईक्षतिलिङ्गसमन्वये सिद्धे सार्वश्याद्यनुपपत्तिसहकृतत्वाभावाद् गौणप्रायपाठमात्रं यद्यपि श्रुतेर्बाधक न भवति; तथापीक्षणं प्रधाने गौणं, कर्तृत्वं ब्रह्मणि वेति विशये प्रायपाठमात्रमपि नियामकं भवितुमर्हतीति शङ्कितुस्तात्पर्यम्, प्रथमश्रुतनिरपेक्षप्रकृत्यर्थगौणत्वायोगादिति परिहारान्तरं नेत्यनेन सूच्यते॥

प्रकाशकत्वाद् ज्योतिष्ट्वेन रूपितेति।

ज्योतिष्टोमनामधेयस्य 'ज्योतींषि स्तोमा अस्येति' निर्वचनार्थे “त्रिवृत्पञ्चदशस्सप्तदश एकविंशः एतानि वाव तानि ज्योतींषि य एतस्य स्तोमा” इत्यर्थवादे स्तोत्रीयानवकादिरूपेषु त्रिवृदादिस्तोमेषु ज्योतिश्शब्दः प्रयुक्तः। ज्वलने रूढस्य तस्य तेषु प्रयोगे प्रकाशकत्वसादृश्यं निमित्तमिति। 'यो हि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति, यः पञ्चदशः स तं, यः सप्तदशः स तं, य एकविंशः स तमिति" वाक्यशेषेण दर्शितम्। प्रथमयज्ञे ज्योतिष्टोमेऽनुष्ठितास्त्रिवृदादिस्तोमाः पश्चादनुष्ठेयानन्यान् क्रतून् प्राप्तांस्तान् दीपयन्ति प्रकाशयन्ति। पूर्वमनुष्ठिताः पुनःप्रयोगे अभ्यासपाटवात्सम्यगनुष्ठीयमानाः स्वाश्रयान् क्रतून् उज्ज्वलान् कुर्वन्तीति तस्यार्थः॥

स्तुतिसमुदायवत्वादिति।

स्तुतिशब्देन स्तोत्रीयऋक्साध्यगुणिनिष्टगुणाभिधानवाचिना स्तोत्रीयऋक्संख्यारूपाः स्तोमा लक्षणीयाः; त्रिवृदादिशब्दानां स्तोमविशेषवाचिवात्॥७॥८॥

एकवचनं छान्दसमिति।

इदमुपलक्षणम्। गोनायादिशब्दसाम्येन श्रुतावशनायाशब्दस्य व्युत्पादितत्वात् कर्मण्यणन्तत्वेन प्राप्तस्य ङीपोऽभावोऽपि छान्दस इति द्रष्टव्यम्। एकवचनाकारयोः छान्दसत्वोक्तिश्च अशनायोदन्याशब्दयोरप्सु तेजसि च संज्ञारूपेण वृत्तिमनाश्रित्य॥९॥

आदित्याद्या अनुग्राहका देवा इति।

आदित्यादयश्च शुरादीनामनुग्राहका इत्यर्थः॥१०॥११॥

पञ्चमं ईक्षत्यधिकरणं संपूर्णम्॥