भाष्ये जन्मादिसूत्रमारभ्य वृत्तानुवादः प्रतिज्ञासूत्रसिद्धवत्कारेणेत्याह —
ब्रह्म जिज्ञासितव्यमिति हीति ।
इति पञ्चममीक्षत्यधिकरणम्॥
वेदान्तानां ब्रह्मपरत्वे सिद्धेऽपि प्रमाणान्तरैरविरोधार्थमुत्तरसूत्रारम्भमाशङ्क्य तेषां ब्रह्मण्यप्रवेशमाह —
तच्चेति ।
अत्र भाष्यं –‘द्विरूपं ही’ति, तदयुक्तं; निरुपाधिन एव जिज्ञास्यत्वादित्याशङ्क्याह —
यद्यपीति ।
यदि सोपाधिकरूपस्य निरुपाधिकोपदेशशेषता, कथं तर्हि उपास्तिरिति? तत्राह —
क्वचिदिति ।
अवान्तरवाक्यभेदेनोपाधिविवक्षयोपासनविधिरित्यर्थः ।
उपास्तीनामपि मोक्षसाधनत्वव्यावृत्तये फलान्तराण्याह —
तदुपासनानीति ।
अभ्युदयार्थानि प्रतीकोपासनानि । क्रममुक्त्यर्थानि दहरादीनि । कर्मसमृद्ध्यर्थान्युद्गीथादीनि । एतानि विधेयत्वाद्यद्यपि कर्मकाण्डे वक्तव्यानि; तथापि मानसत्वेन विद्यासाम्यादिहाधीतानीत्यर्थः ।
गुणभेदेऽपि गुणिन एवकत्वादुपासनातत्फलभेदाभाव इति शङ्कते —
स्यादेतदिति ।
न विशेषणमात्रमुपाधयः, किंत्वप्पात्रमिव सवितुरवच्छेदकाः । तत उपहितभेद इति भाष्याभिप्रायमाह — रूपाभेदे नोपासनविधिरर्थवान्निरतिशयेश्वरस्य प्रत्युपाध्यवस्थानेनोपासकस्यापि स्वत एवैश्वर्यादत औपाधिकानां मध्ये एक उपासकोऽपकृष्टोऽपरमुपास्यमुत्कृष्टमिति तारतम्यं सूचयन्त्य उपासनविधिश्रुतयः कथमित्यर्थः ।
वस्तुतः स्वतःसिद्धैश्वर्योऽप्युपासक उपाधिनिकर्षादनभिव्यक्तैश्वर्यस्तं प्रत्याविर्भूतैश्वर्यं विशुद्धोपाधिमद्ब्रह्मोपास्यमिति परिहाराभिप्रायमाह —
यद्यपीति ।
स्थावरादिष्वसदिव ज्ञानादि तिर्यगादिषु सत्तत्रैवात्यन्तापकृष्टं मनुष्येष्वपकृष्टमात्रम्, गन्धर्वादिषु प्रकर्षवद्देवादिष्वत्यन्तप्रकर्षवदिति । अविशेषेण वेदान्तानां निर्विशेषे ब्रह्मणि समन्वयः साधितः, तस्य क्वचिद्धिरण्मयवाक्यादावपवादः, क्वचिदानन्दमयवाक्यादावपवादाभासप्राप्तौ तदपवादश्च पतिपाद्य इत्यध्यायशेष आरभ्यते॥ आनन्दमयोऽभ्यासाइ ॥१२॥
ननु ‘‘ता आप ऐक्षन्त’’ इत्याद्यब्रह्मसन्निधिमपबाध्य मुख्येक्षितृ ब्रह्म निर्णीतम्, इह कथमन्नमयाद्यब्रह्मसन्निधिपाठादानन्दमयस्याब्रह्मत्वशङ्का? अत आह —
गौणेति ।
अनादिगौणेक्षणप्रवाहपातेऽपि जगत्कारणे मुख्यमीक्षणमिति युज्यते; मुख्यसंभवे गौणस्यानवकाशत्वात् । अतस्तत्र विशयानुदये प्रायपाठोऽकिंचित्करः । अत्र तु मयटो विकारप्राचुर्ययोर्मुख्यत्वे सति विकारार्थग्रहणे प्रायदृष्टिर्विशेषिका प्राचुर्यार्थत्वाद्व्यावर्तिकेत्यर्थः । एवचं पूर्वाधिकरणसिद्धान्ताभावेन पूर्वपक्षोत्थानात् प्रत्युदाहरणलक्षणसंगतिरपि सूचिता । संशयबीजं च मयटो विकारप्राचुर्यसाधारण्यमुक्तम् । प्रयोजने च तत्तदुपास्तिः प्रमितिर्वेति सर्वत्र द्रष्टव्यम् । ।
भास्करोक्तमाशङ्क्याह —
नचेति ।
विकारो हि द्विप्रकारः कश्चिच्छुक्तिरूप्यादिः स्वरूपेणाध्यस्तः, कश्चित्तु प्रतिबिम्बघटाकाशादिरूपाधितो विभक्तः, तत्र प्राणाद्युपाधिविभक्त आत्मा तद्विकारः ।
अथवा —
भृगुवल्ल्युक्ताधिदैविकान्नादीन्प्रत्याध्यात्मिका अन्नमयादयः कोशा विकारा इति ।
विकारसन्निधेः सर्वान्तरत्वलिङ्गेन बाधमाशङ्क्याह —
चतुष्कोशेति ।
आनन्दमयस्य सर्वान्तरत्वमन्नमयाद्यान्तरत्वमन्नमयाद्यान्तरत्वेनोक्तं तस्मादन्यस्यान्तरस्याश्रवणात् ।
प्रथमं निरस्य द्वितीयं निराचष्टे —
नचास्मादिति ।
यथा ‘बलवान्देवदत्त’ इत्युक्ते यज्ञदत्ताद्यपेक्षमेव बलवत्त्वं, सिंहादीनां ततोऽपि बलवत्त्वमनुक्तमपि गम्यते; तथानन्दमयस्येतरकोशापेक्षमान्तरत्वं, ब्रह्म तु ततोऽऽप्यान्तरमनुक्तमपि गम्यत इत्यर्थः ।
ब्रह्मत्वे लिङ्गाभासं निरस्य जीवत्वे लिङ्गमाह —
न च निष्कलस्येति ।
श्रुतिमप्याह —
नापीति ।
सशरीरस्य प्रियादि दुर्वारमित्येतावता कथं मयटः प्राचुर्यार्थत्वे ब्रह्मत्वानुपपत्तिरुक्ता? तत्राह —
अशरीरस्येति ।
एवमुक्ते ह्यशरीरे ब्रह्मणि नाप्रियमित्युक्तं भवति । तथाच दुःखगन्धाद्योती प्राचुर्यार्थो मयङ् न संभवतीत्युक्तं स्यादित्यर्थः ।
आनन्दप्रातिपदिकाभ्यासलिङ्गात्कथमानन्दमयस्य ब्रह्मत्वं? वैयधिकरण्यादिति शङ्कानिराकरणार्थं भाष्यं —
आनन्दमयं प्रस्तुत्येति ।
तदिदमनुपपन्नं पुच्छब्रह्मणः प्राकरणिकत्वादत आह —
आनन्दमयावयवस्येति ।
ननु ज्योतिषेति कर्मान्तरविधिर्नाभ्यासोऽत आह —
कालेति ।
वसन्तकालगुणसंक्रान्तत्वान्न कर्मान्तरविधिरित्यर्थः । देवदत्तादपि बलवत्त्वं सिंहादेर्मानान्तरसिद्धम् ।
आनन्दमयादान्तरे वस्तुनि न मानान्तरं, नापि श्रुतिरित्यभिप्रेत्याह —
न हीति ।
दृष्टान्तवैषम्यं शङ्कते —
तादर्थ्यादिति ।
मुख्यारुन्धतीदर्शनाविरोधेनानुगुण्यं चेदत्रापि तुल्यमित्यर्थः ।
योऽपि पूर्वपक्षे प्राचुर्यार्थत्वमुपेत्य दुःखलवयोग आपादितः सोऽप्युपाधिवशादित्यर्थात्परिहृत इत्याह —
प्रियादीति॥१२॥
एवंच विकारशब्दात् (ब्र.अ.१.पा.१.सू.१३) इति सूत्रं व्याख्यातम् । ‘तत्प्रकृतवचने मयट्’ तदिति प्रथमासमर्थात्प्राचुर्यविशिष्टप्रस्तुतवचनाभिधाने गम्यमाने मयडिति सूत्रार्थः । वचनग्रहणात्प्राचुर्यवैशिष्ट्यसिद्धिः । तादृशस्यैव लोके मयटाभिधानादिति॥१४॥ मान्त्रवर्णिकम् (ब्र.अ.१.पा.१.सू.१६) इति सूत्रं — भाष्यकृद्भिः सत्यं ज्ञानमनन्तमिति मन्त्रप्रस्तुतं ब्रह्म, आनन्दमयवाक्ये निर्दिश्यते, प्रकृतत्वादसंबद्धपदव्यवायाभावाच्चेति विवृतं ।
तत्रेतरेतरत्रार्थप्रत्यभिज्ञानाभावाद् मन्त्रब्राह्मणयोर्व्याख्यानव्याख्येयभावस्याविशदत्वात्प्रकारान्तरेण सूत्रं व्याचष्टे —
अपिच मन्त्रेति ।
यथा मन्त्रः प्रयोगोपायः, एवं कोशचतुष्कवाक्यमानन्दमयब्रह्मप्रतिपत्त्युपायस्य देहादिव्यतिरेकस्य समर्पकत्वाद्गौण्या वृत्त्या मन्त्र उच्यते । आनन्दमयवाक्यमुपेयप्रयोगविधायिब्राह्मणवदुपेयब्रह्मप्रत्यायकत्वाद्ब्राह्मणं विवक्षितम् ।
तयोश्चेतरेतरत्रार्थप्रत्यभिज्ञानमाह —
मन्त्रे हीति ।
परब्रह्मणीति ।
विज्ञानमयादिशब्दैरपि ब्रह्मैव तत्तदुपाधिभ्यः प्रविविच्य निर्दिष्टमित्यर्थः । नचैवं प्राणमयादान्तरात्मनो विज्ञानमयस्यात्मत्वापत्तिः; तस्मादान्तरोपदेशादिति भावः । सूत्रकारग्रहणं व्याख्येयभाष्यानपेक्षत्वसूचनार्थम् । भाष्येऽपि महाप्रकरणोपन्यासः सूत्रार्थो, न मन्त्रब्राह्मणतया व्याख्यानव्याख्येयभाव ।
अतएवाह —
अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्यातामिति । मन्त्रब्राह्मणयोश्चेत्यपि भाष्यं प्रकरणप्रदर्शनपरमेवेत्यविरुद्धम् । सौत्रं तु मान्त्रवर्णिकपदं विवक्षितं कृतं टीकाकृता ।
ननु सर्वस्रष्टृत्वाद्यनेकहेतूपदेशे वाक्यभेदः स्यादत आह —
सूत्रमिति ।
सूत्रस्य विश्वतोमुखत्वमलङ्कार इत्यर्थः॥
ननु जीवादन्यत्वान्नानन्दमयस्य ब्रह्मत्वं; घटादिष्वदर्शनात्, अत आह —
तस्मादिति ।
आनन्दमयो ह्यात्मशब्दाच्चेतनस्तस्य च जीवत्वराहित्ये ब्रह्मत्वं सिद्धमित्यर्थः ।
एकत्वेऽपि परजीवयोरौपाधिकभेदाल्लब्धृलब्धव्यभावे जीवस्यापि स्वं प्रति स्यात्; तस्यापि स्थूलसूक्ष्माद्युपाधिभेदात्, अत आह —
न त्विति ।
स्वतन्त्रोपाधिभेदे चेतनभेदः, परब्रह्मणस्तु जीवोऽविद्यायां विभक्तः सत्वविद्यावच्छिन्न एव स्थूलसूक्ष्मोपाधिभ्यामवच्छिद्यत इति न स्वस्मादौपाधिकोऽपि भेद इत्यर्थः ।
सूत्रारूढो हि स्वरूपेणापि मिथ्या, जीवे तु भेदमात्रं कल्पितं, न स्वरूपमतः कल्पितत्वमात्रे दृष्टान्त इत्याह —
अत्रैवेति॥
ब्रह्मानन्दमयं प्रत्यवयवः, उत प्रधानमिति पुच्छब्रह्मशब्दाभ्यां संशये मुख्येक्षणाद् ब्रह्मनिर्णयेन गौणप्रायपाठो बाधितः, इह तु पुच्छशब्दस्यावयवमात्रत्वे आधारमात्रत्वे च लाक्षणिकत्वसाम्ये सत्यवयवप्रायदर्शनादवयव इति सङ्गतिः ।
यदुक्तं — आनन्दमयस्याङ्गं ब्रह्म — इति, तन्न, श्रुतिबाधप्रसङ्गादिति वदन् सिद्धान्तस्य बीजमावपति ब्रह्म पुच्छमिति । बल विवेकाय पूर्वोत्तरपक्षयुक्तीर्विभजते —
तत्र किमिति ।
उपेक्ष्यापि प्रायपाठं कथंचित्प्रचुरानन्दवाचि चानन्दमयपदं कल्पितमपि ब्रह्मण्यप्रसिद्धं; स्तोकदुःखनुवृत्त्यापत्तेरित्यर्थः ।
कयाचिद्वृत्त्येति ।
अल्पत्वनिवृत्तिलक्षणयेत्यर्थः । ननु प्रचुरप्रकाशः सवितेतिवदल्पत्वनिवृत्तिपरः कि न स्याद्, उच्यते; यत्र प्राचुर्यविशिष्टपदार्थप्रतीतिस्तत्रैवं भवति । यत्र पुनः प्राचुर्यमेव पदार्थेन विशेष्यते तत्र विरोधिन ईषदनुवृत्तिः प्रतीयते, ब्राह्मणप्रचुरोऽयं ग्राम इत्यादौ । तथाच आनन्दमयपदेऽपि प्रधानं प्रत्ययार्थ प्राचुर्यं प्रति आनन्दस्य विशेषणत्वाद् दुर्निवारा दुःखानुवृत्तिरिति॥ ‘तत्रापिशब्दबलाद्विरोध्यनुवृत्तिः प्रतीयते, मानान्तरेण तु तदभावावगमे प्राचुर्यमल्पत्वनिवृत्तिपरं कल्प्यते । तस्मान्मयडर्थस्य मुख्यस्य त्यागः’ । कृतबुद्धयः शिक्षितबुद्धयः । विदाङ्कुर्वन्तु विवेचयन्तु । विभागमात्रेणैव सिद्धान्तप्राबल्यमुन्मीलयन्वित्यर्थः ।
उक्तविवेकं स्फोरयति —
प्रायेति ।
मयड्विकारे मुख्यः ब्रह्मशब्दः परब्रह्मणि मुख्यः अभ्यस्यमानानन्दशब्दश्च प्रकृत्यर्थएव मुख्यो न मयडर्थे । पूर्वपक्षे एतत्त्रितयलङ्घनम्, आनन्दमयपदस्यान्नमयादिविकारप्रायपाठपरित्यागश्च स्यात् । उत्तरे तु पक्षे पुच्छशब्दस्यावयवप्रायपाठस्यैव बाधनम्, अनुगुणं तु मुख्यत्रितयमित्यर्थः । ननु यथा पूर्वपक्षे मयट् च्छ्रुतिबाधः ।
एवं सिद्धान्ते पुच्छश्रुतिबाधस्तत्राह —
पुच्छपदं हीति ।
लाङ्गूले मुख्यं पुच्छपदं , न करचरणाद्यवयवमात्रे; आनन्दमयस्य चात्मनो न मुख्यलाङ्गूलसंभव इति ।
अपिच पुच्छशब्देनाधारलक्षणा प्रतिष्ठेत्युपपदसामर्थ्याच्छ्रुत्यनुमथा, नावयवलक्षणेत्याह —
आधारपरत्वे चेति ।
आनन्दमयस्यकोशस्यैवेतरकोशापेक्षयाऽन्तरत्वं चेत्, तर्हि ततोऽभ्यन्तरं ब्रह्म किमिति नो़क्तमत आह —
ब्रह्मणस्त्विति ।
अर्थात्प्रतिष्ठात्वसामर्थ्यादित्यर्थः ।
यदुक्तमुपाधिवशात्प्रियादियोगः प्राचुर्यप्रयुक्तदुःखलेशान्वयश्चेति, तत्राह —
वाङ्मानसेति॥
गुणे त्विति ।
यथा ह्यग्नीषोमीये पशावेकपाशके ‘‘अदितिः पाशान् प्रमुमोक्त्वेतान्‘‘ इति, ‘‘अदितिः पाशं प्रमुमोक्त्वेत’’मिति च मन्त्रौ श्रुतौ ।
तत्र बहुवचनवान्मन्त्रः किं प्रकरणादुत्क्रष्ठव्यो न वेति विशये बहुवचनस्यासमवेतार्थत्वादुत्कर्षे प्राप्ते विशेषप्रधानभूतपाशवाचिप्रातिपदिकस्याग्नीषोमीये समवेतार्थत्वात् तदनुरोधेन बहुवचनं पाशगुणत्वेन तद्विशेषणभूतबहुत्ववाचकमन्याय्यया लक्षणया पाशावयवाल्लक्षयतीति नवमे निर्धारितम् —
विप्रतिपत्तौ विकल्पः स्यात्समत्वाद् गुणे त्वन्याय्यकल्पनैकदेशत्वात् (जै.अ.९.पा.३.सू.१५) इति । उत्कर्षोऽनुत्कर्षो वेत्यस्यां विप्रतिपत्तौ पाशं पाशानिति च मन्त्रयोर्विकल्पः स्यात्; पाशप्रातिपदिकस्योभयत्र समत्वात् गुणे प्रत्ययार्थे त्वन्याय्यकल्पना न तद्बलान्मन्त्रोत्कर्षः; प्रत्ययस्य पदैकदेशत्वात्प्रातिपदिकपारतन्त्र्येणोत्कर्षकत्वायोगादिति सूत्रार्थः । एवमिहापि प्रधानश्रुतिविरोधे गुणभूतसूत्राण्यध्याहारादिभिर्नेयानीति ।
तथाचाचार्यशबरस्वामी वर्णयांबभूव — लोके येष्वर्थेषु प्रसिद्धानि पदानि तानि सति वेदाविरोधसंभवे तदर्थान्येव सूत्रेष्वित्यवगन्तव्यमिति॥अपराण्यपीति भाष्ये येषु सूत्रेषु व्याख्याऽतिदिष्टा तान्यल्पवक्तव्यत्वात्प्रथमं योजयति —
यत्सत्यमिति ।
तद्धेतुव्यपदेशाच्चेति (ब्र.अ.१.पा.१.सू.१४) सूत्रव्याख्यानपरमधिकरणसमाप्तिभाष्यं व्याख्याति —
विकारजातस्येति ।
अवयवो यदीति शेषः ।
अवयवश्चेत् कथं कारणमुच्येत, तत्र हेतुमाह —
न हीति ।
आनन्दमयस्तावद्विकारः, तदवयवो ब्रह्मापि विकारः स्यात्परिच्छिन्नत्वात् तथाभूतं सन्न विश्वहेतुरित्यर्थः ।
चिन्ताप्रयोजनमाह —
तस्मादिति ।
आनन्दमयविकारस्यावयवो ब्रह्मेति कृत्वेत्यर्थः । तेन ब्रह्मणाऽवयवेन योगो यस्य स तथोक्तः॥ इति षष्ठं आनन्दमयाधिकरणम्॥
वृत्तानुवादटीकायां तच्च शास्त्रैकसमधिगम्यमिति ब्रह्मणः शास्त्रयोनित्वसूत्रसिद्धमानान्तरागम्यत्वानुवादः करिष्यमाणाक्षेपानुपयोगात् न कार्य इत्याशाङ्क्य तद्व्यावर्त्यां शङ्कां दर्शयति –
वेदान्तानामिति।
विचार्यत्वेन प्रतिज्ञातं ब्रह्म प्रमाणमुखेन विचारणीयं, ब्रह्मणि यदि वेदान्तवन्मानान्तरमपि प्रमाणं भवेत्, तदा वेदान्तानां ब्रह्मणि प्रामाण्यस्य प्रतिष्ठापितत्वेऽपि मानान्तरविचारार्थमुत्तरसंदर्भारम्भः स्यादिति शङ्कार्थः। मानान्तरैरविधेयार्थमिति पाठश्चेदयं परिहाराभिप्रायः। यत्प्रमाणं यत्साधनक्षमं तदेव तदभावबोधनेऽपि प्रभवति। न खलु रूपबोधनाक्षमं श्रोत्रं रूपाभावं बोधयितुं शक्नोति। अतः परब्रह्मणि प्रवर्तितुमक्षमं मानान्तरं वेदान्तबोध्यतत्स्वरूपापहारेऽपि न प्रभवतीति। तमिममर्थं 'श्रुतेस्तु शब्दमूलत्वात् (ब्र. अ. २ पा. १ सू. २७) इति द्वितीयाध्याये सूत्रकृदेव वक्ष्यति॥
न विशेषणमात्रमुपाधय इति।
यद्यपि विशेषणमात्रत्वेऽपि विषयभेदादुपासनाभेदः तद्भेदात्फलभेदश्च सिद्ध्यति; तथापि संभवाद्धर्मिभेदपर्यन्तः परिहार आश्रितः। ननु भाष्यटीकयोः वेदान्तेषूपाधिविवक्षाऽविवक्षास्थलविभजनार्थमुत्तरसूत्रारम्भ इत्युक्तमयुक्तम्। न हि वेदान्तखोपाधिना अन ते विचार णीया; येनात्र विवक्षितोपाधयोऽपि विचारणीयाः स्युः, किन्तु जिज्ञास्यनिर्विशेषब्रह्मप्रमाणत्वोपाधिना। तत्र चेदविवक्षितोपाधय एवं प्रमाण, तर्हि ते जगत्कारणलाद्युपलक्षणमुखैन यथा निर्विशेषपर्यन्तास्तत्रैव प्रमाणं भवन्ति नान्यत्र, तथा प्रतिष्ठापितमेव। अत उत्तरसूत्रप्रपञ्चानारम्भशङ्का तदवस्थेत्याशापवादसङ्गत्या सविशेषवाक्यानां तदपवादसङ्गया निर्विशेषवाक्यानां च केषांचिद्विचारार्थ तदारम्भ इत्यत्र तयोस्तात्पर्यमाह
अविशेषेणेति।
यद्यपि हिरण्मयादिवाक्यानामपि महातात्पर्येण निर्विशेषे पर्यवसानमस्ति; तथाप्युपाधिविवक्षा नास्तीत्यस्मिन्नंशे अपवाद इति भावः॥
प्राणायुपाध्यवच्छिन्नो ह्यात्मेत्यादिटीकानुसारेण व्याख्यायाऽन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमन्वादिभाष्यानुसारेण व्याचष्टे –
अथवा भृगुवल्ल्युक्तेति।
'आत्मन आकाश' इत्यादिभ्यः प्रकृतिविकारोपदेशकेभ्यः पूर्ववाक्येभ्यो विकारार्थस्य बुद्धिसन्निहितवाद् भृगुवल्युक्ताधिदैविकात्वादि-यथासंख्याम्नातेनाध्यात्मिकेषु देवतादिषु तद्विकारत्वोक्तिः प्रतीयत इति भावः।
विकारसन्निधेरिति।
मीमांसाभाष्यकारैरनुष्ठेयानामङ्गाङ्गिभावे प्रमाणानि श्रुत्यादीनि निरूपितवद्भिः विशये प्रायदर्शना (जै.अ.२ पा.३ सू.१६)दिति सूत्रे गोदोहनादिसंस्काराणां वत्सालम्भस्य चाङ्गाङ्गिभावाभावात् तत्रत्यप्रायपाठः सान्निध्याम्नानरूपं स्थानप्रमाणं न भवतीत्यभिप्रेत्यान्यार्थदर्शनरूपलिङ्गत्वेन व्यवहृतः। इह शास्त्रे सिद्धार्थबोधनोपयुक्तान्यपि श्रुत्यादीनि गृह्यन्त इति विकारप्रायपाठः सन्निधिलक्षणस्थानप्रमाणत्वेन व्यवह्रियत इति न विरोधः।
ब्रह्म तु ततोऽप्यान्तरमिति।
यथा देवदत्तात्सिंहादीनां बलवत्तरत्वं प्रमाणान्तरसिद्धमित्युक्तमिति गम्यते, तथा ब्रह्मण आनन्दमयप्रतिष्ठात्वोक्त्या ततोऽप्यान्तरत्वमनुक्तमपि गम्यत इति भावः।
श्रुतिमपीति॥
जीवत्व इत्यनुषङ्गः।
अनुपपत्तेस्तु न शारीर (ब्र.अ.१ पा.२ सू.३) इत्यादिप्रयोगात् शारीरशब्दो जीवस्याभिधानश्रुतिरिति भावः। न च सशरीरस्य सत इत्यादिभाष्यं शारीरश्रुतौ शरीरे भव इति यौगिकार्थस्यापि सत्वात् शरीरवतो दुःखमनिवार्यम् इत्यानन्दमयशरीरसंबन्धानुमितदुःखभागित्वादपि न ब्रह्मेत्येवमर्थं प्रतीयते। तदयुक्तम्। उत्तराधिकरणे (प्र.अ.१पा.३सू.१९) परमेश्वरस्य शरीरवत्वेनाथापि सर्वपापोदितत्वेन च व्यवस्थापयिष्यमाणस्य दुःखाप्रसक्तेरित्याशाङ्क्य टीकाकृता मयटः प्राचुर्यार्थत्वेऽपि ब्रह्मपरत्वमनुपपन्नमित्येतदर्थतात्पर्यकतया भाष्यमवतार्याऽशरीरस्येत्यादिना तदर्थो वर्णितः। तत्तात्पर्यं विवृणोति–
एवमुक्ते हीति।
सशरीरत्वेऽप्यैच्छिकशरीरस्य सविशेषस्य दुःखास्पर्शे सर्वथैवाशरीरस्य निर्विशेषस्य तदस्पर्शोऽनुक्तसिद्ध इति भावः।
सोऽप्युपाधिवशादिति।
प्रियादियोगवद् दुःखलवयोगोऽपि अतीतानन्तरविज्ञानमयकोशोपाधिक उपपद्यत इति नासौ मुख्यात्मत्वबाधक इत्यर्थः। 'तत्प्रकृतवचने मयडिति प्रचुरतायामपि मयटः स्मरणात्। यथा 'अन्नमयो यज्ञ' इत्यन्नप्रचुर उच्यत इति। भाष्योपात्तं व्याकरणसूत्रमुपादाय व्याचष्टे –
तत्प्रकृतेति॥
इदं सूत्रं वैयाकरणैरित्थं व्याख्यातम्। तदिति प्रथमासमर्थात् प्राचुर्येण प्रस्तुतमिदमित्यर्थे वर्तमानात्स्वार्थे मयट्प्रत्ययो भवतीत्येकोऽर्थः। अस्यान्नमयं यवागूमयीत्याद्युदाहरणम्॥ प्राचुर्येण प्रस्तुता यवागूरियादिस्तदर्थः। यद्यपि प्रकृतशब्दः प्रस्तुतमात्रवाची, न क्लृप्तप्राचुर्यविशिष्टप्रस्तुतवाची; तथापि प्रकृत इत्येतावति वक्तव्ये वचनग्रहणादयं विशेषो लभ्यते। वचनग्रहणं हि लोके यादृशस्य प्रकृतस्य मयटा वचनं प्रत्यायनं प्रसिद्धं तत्र यथा स्यादित्येवमर्थम्। लोके च मयडन्तैरन्नमयादिशब्दैः प्राचुर्येण प्रकृतस्य प्रत्यायनं प्रसिद्धमिति। अपरस्त्वर्थः, प्रकृतं प्रस्तुतमुच्यतेऽस्मिन्निति प्रकृतवचनम्। तदिति प्रथमासमर्थात्प्रकृतवचनेऽर्थे मयट्प्रत्ययो भवतीति। अस्यान्नमयो यज्ञ इत्याद्युदाहरणम्। प्रकृतमन्नमस्मिन् यज्ञ इत्यादिस्तदर्थः। अस्मिन्नर्थे प्रकृत्यर्थादर्थान्तरे प्रत्ययः। प्रकृतशब्देन च प्रस्तुतमात्रमुच्यते। न तु प्राचुर्यविशिष्टमिति पूर्वस्मादर्थाद्विशेष इति॥
वृत्तिकारमते व्याख्यानद्वयमपि नोपयोगि। प्रथमव्याख्यानस्य प्राचुर्यविशिष्टप्रकृत्यर्थमात्रपर्यवसितमयड्विधिरूपत्वेन ततोऽन्नमयो यज्ञ इत्यन्नप्रचुरो यज्ञ उच्यत इति तदीयोदाहरणानुसारेण विवक्षिततयाऽवगतस्य आनन्दप्रचुरधर्मिपर्यन्तत्वस्यालाभात्। द्वितीयव्याख्याने प्राचुर्यप्रतीत्युपायाभावात्। शब्दार्थनिर्णयाभियुक्तवैयाकरणव्यवहारविरोधिनः अनादित्वनिर्णायकप्रमाणरहितस्य अन्नप्रचुर इत्यर्थेऽन्नमय इति व्यवहारस्य लोके क्वचित् क्वचित् सतोऽप्युपादेयत्वाभावात्। अतो वृत्तिकारमतं द्विविधेनापि वैयाकरणकृततत्सूत्रव्याख्यानेन निर्वोढुं न शक्यमिति तनिर्वाहमुपेक्ष्य धर्मिपर्यन्तलम्भकत्वाभावेऽपि 'विकारशब्दादिति सूत्रोपात्तप्राचुर्यप्रतीत्युपयोगिप्रथमव्याख्यानं दर्शयति –
तदिति प्रथमा समर्थादिति॥
अविशदत्वादिति।
व्याख्यानव्याख्येयभावः स्पष्टो न भवति, किन्तु सूक्ष्मेक्षिकयाऽवसेय इत्यर्थः। तथाहि - ब्रह्मविदाप्नोति परम् इत्यानन्दवल्या प्रतिपाद्यस्य कृत्स्नस्याप्यर्थस्य संग्राहकं सूत्रम्। तत्र किं तद् ब्रह्म? कथं च तद्वेदनं? किञ्च तद्वेदनप्राप्यं परमुत्कृष्टं फलं? इत्याकाङ्क्षायां तत्त्रितयं स्पष्टीकर्तुं 'तदेषाभ्युक्तेति' ब्राह्मणोक्तार्थप्रतिपादकत्वेन अवतारणपुरस्सरं तदनुव्याख्यानरूपः 'सत्यं ज्ञान मित्यादिमन्त्र आम्नातः। तत्राप्येवमाकाङ्क्षोदेति कथं ब्रह्मणस्त्रिविधपरिच्छेदराहित्यरूपमानन्त्यम्? अपरिच्छिन्नं ब्रह्म च कस्यां गुहायां निहितं वेद्यं? कथं तद्वेदनेन ब्रह्मादिस्तम्बपर्यन्तप्राणिनिकायव्यवस्थितसकलकामरूपोत्कृष्ट फलावाप्तिरिति। अतस्तदानन्त्याद्युपपादनार्थमन्त्रव्याख्यानरूपोऽनुवाकशेषः। तन्नानन्त्यनिरूपणार्थं "तस्माद्वा एतस्मा"दित्यादिकारणवाक्यम्। अत्र तदेतच्छन्दौ व्यवहिताव्यवहितब्राह्मणतद्व्याख्यानमन्त्रप्रकृतब्रह्मपरामर्शिनौ। तस्य गुहानिहितत्वविवरणार्थं चतुष्कोशान्तरत्वनिरूपणम्। एवं च यद् ब्राह्मणोपक्षिप्तं मन्त्रवाक्येन विवृतं कारणवाक्यगतेन तदेतत्पदसमानाधिकरणेनात्मपदेन परामृष्टं ब्रह्म, तदेव गुहानिहितत्वविवरणार्थानन्दमयवाक्यगतेनान्तरत्वेनात्मशब्देन च प्रत्यभिज्ञायत इति सूक्ष्मदृष्ट्या तत्प्रत्यभिज्ञानमात्रेणावगन्तव्यो मन्त्रब्राह्मणयोः व्याख्यानव्याख्येयभावः स्पष्टो न भवति। कोशवाक्यानामानन्दमयवाक्यस्य च व्याख्यानव्याख्येयभावः स्पष्टः। अन्योऽन्तर आत्मेत्यैतावत्प्रत्यभिज्ञानसत्वात् इत्यभिप्रेत्य मान्त्रवर्णिकसूत्रं कोशवाक्यविषयत्वेन नीतमिति तात्पर्यम्॥
ननूदाहृतप्रत्यभिज्ञानेन आनन्दमयस्य विज्ञानमयवाक्यसिद्धावपि न तस्य ब्रह्मत्वं सिद्ध्यति तेषामपि ब्रह्मत्वासंप्रतिपत्तेः, तत्संप्रतिपत्तावपि न सिद्ध्यति विज्ञानमयादन्य इति; तत्र विज्ञानमयप्रतियोगिकभेदनिर्देशात् इत्याशङ्कानिराकरणार्थस्य मन्त्रे हीत्यादिटीकावाक्यस्य तात्पर्यमाह –
विज्ञानमयादिशब्दरपीति।
"विज्ञानं देवाः सर्वे” “ब्रह्म ज्येष्ठमुपासते” विज्ञानं ब्रह्म चेद्वेद" आनन्द ब्रह्मणो विद्वान्" "ये प्राणं ब्रह्मोपासते" "येऽन्नं ब्रह्मोपासते" इति विज्ञानमयादिपर्यायावगताभिः ब्रह्मश्रुतिभिः ब्रह्मैव स्थूलारुन्धतीन्यायेन अन्नमयादिकोशरूपतया प्रथममुपदिश्योत्तरोत्तरपर्यायगतैरन्यशब्दैस्तत्तदुपाधिभ्यः प्रविविच्य निर्दिष्टमित्यर्थः। विज्ञानमयादिशब्दरित्यस्यापि विज्ञानमयादिपर्यायगतैरन्यशब्दरित्यर्थो ग्राह्यः। एवं च कश्चित्तु प्रतिबिम्बितघटाकाशादिरित्यादिना प्राणमयादीनां प्राणाधुपाध्यवच्छिन्नजीवरूपत्वं यदुक्तं तत्पूर्वपक्षिदृष्ट्येति न विरोधः॥
ननु यद्यन्नमयादिपर्याया अपि ब्रह्मश्रुत्या ब्रह्मविषयाः तर्हि विज्ञानमये एव ब्रह्मोपदेशपर्यवसानं स्याद्, "विज्ञानं देवाः सर्वे" "ब्रह्म ज्येष्ठमुपासते" "विज्ञानं ब्रह्म चेद्वेदे"ति मन्त्राम्नाताभ्यां "विज्ञानं ब्रह्म चेदिति" मन्त्रे सर्वकामावाप्तिफलकीर्तनेन तत्प्रत्यभिज्ञोपबृंहिताभ्यां ब्रह्मश्रुतिभ्यां विज्ञानमयस्य ब्रह्मत्वप्रतिपादने तात्पर्यातिशयप्रतीतेः इत्याशमाह –
नचैवमिति।
ननु टीकाभिमते सूत्रार्थे मन्त्रग्रहणमविवक्षितस्वार्थं स्यादित्याशङ्कक्य भाष्याभिमतेऽपि सूत्रार्थे सा शङ्का भवतीत्याह –
भाष्येऽपीति।
भाष्ये, सौत्रमन्त्रपदार्थतया 'सत्यं ज्ञानमिति' मन्त्रमात्रं नोपन्यस्तम्, किन्तु 'ब्रह्मविदाप्नोति पर'मित्युपक्रम्य इत्यादिसन्दर्भेण महाप्रकरणं तदर्थतयोपन्यस्तम्। अतः प्रकरणानुरोधेनानन्दमयस्य ब्रह्मत्वनिर्धारणं सूत्रार्थतया भाष्याभिमतमित्यवसीयते। अत एव भाष्ये प्रकृतहानं विपक्षबाधकत्वेनोक्तम्, अतो मन्त्रपदस्य स्वार्थप्रच्यावनं भाष्यपक्षेऽपि तुल्यमित्यर्थः॥
ननु भाष्यकारपक्षे प्रकरणे मन्त्रगर्भत्वमप्युपचारबीजं, न तु टीकाकारपक्षे कोशवाक्येषु तदस्ति; अतस्तत्पक्षे मान्त्रवर्णिकपदमविवक्षितार्थं स्यादित्याशाङ्क्य, उपायोपेययोरिति टीकोकं तत्स्मारयति –
विवक्षितं कृतमिति।
अविवक्षितार्थं कृतमिति पाठे मुख्यार्थविवक्षारहितं कृतमित्यर्थः। तद्राहित्यं तु भाष्यकाराभिमते प्रकरणे लक्षणापक्षेऽपि समानमिति भावः। वस्तुतस्तु भाष्यकारपक्षे मन्त्रपदं न प्रकरणपरम्; यतो भाष्ये 'ब्रह्मविदाप्नोतीति' परमोपक्रमोपन्यासस्तस्यान्यपरत्वे प्रकरणान्य एवानन्दमयः स्यादिति शङ्कावारणार्थः, कारणवाक्याद्यर्थोपन्यासो मन्त्रस्यासंबन्धिपदनिचयव्यवधानशङ्कावारणार्थः। 'यदानन्त्यं प्रतिज्ञाय श्रुतिस्तत्सिद्धये जगौ। तत्कार्यत्वं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय॥' इति तैत्तिरीयवार्तिकोत्तरीत्या मान्त्रवर्णिकब्रह्मानुवृत्तिसूचनार्थश्च। अन्यथा हि प्रकृतहानेत्यादिग्रन्थः प्रतिपिपादयिषित-मान्त्रवर्णिकब्रह्मविषयत्वाभावे बाधकोद्धाटनार्थः। एवं कृत्स्नस्यास्य भाष्यवाक्यस्य सौत्रमन्त्रपदमुख्यार्थानुरोध्यर्थपरत्वं 'मान्त्रवर्णिकमिति सूत्रं भाष्यकृद्भिरित्यादिना विवृतमित्यन्तेन ग्रन्थेन आचार्यैर्दर्शितमेव। टीकाग्रन्थश्च सौत्रं मन्त्रपदं मुख्यार्थे भाष्योक्तदर्थे वा केनचिदस्वारस्येन न प्रवृत्तम्, किन्तु मत्रवर्णस्येव कोशवाक्यजातस्य पर्यालोचनायामप्यानन्दम यस्य ब्रह्मत्वं निश्चेतुं शक्यम्। अतः साऽपि युक्तिरनेन सूत्रेण मन्त्रशब्दस्य गौणीं वृत्तिमाश्रित्य विवक्षितेति सूत्रयितुमर्थान्तरमाश्रितम्। अत एव सूत्राणामनेकार्थत्वम् अलङ्कार इत्यर्थद्वयपरत्वमित्येतदुपपादयितुमित्याह सूत्रकार इत्यवतारयामास। अनुपदमेवोत्तरसूत्रावतारिकागतं सूत्रपदमेवमाशयं व्याचक्षाणानाम् आचार्याणाम् एतत्सूत्रावतारिकागतस्यापि सूत्रपदस्य अयमेवाशय इत्यभिप्रायोऽस्त्येव, किन्तु भाष्यानुक्तत्वात् टीकोक्तार्थो न श्रद्धेय इति मन्दशङ्कानिराकरणार्थं टीकोक्त एवार्थ उपपन्नतर इति तत्प्रौढिः प्रदर्शिता। केषुचिट्टीकाकोशेषु - मन्त्रे हि पुनः पुनरन्योऽन्तर आत्मेति परब्रह्मण्यान्तरत्वश्रवणादिति पाठं दृष्ट्वा तत्परिष्करणमित्थमाचार्यैः कृतम्। कोशान्तरेषु तु - मन्त्रे हि यो वेद निहितं गुहायामिति परब्रह्मण्यान्तरत्वश्रवणादिति पाठो दृश्यते। तस्मिन्पाठे मन्त्रोक्तं ब्रह्मणो गुहासन्निहितत्वमन्तरशब्देन प्रत्यभिज्ञायत इत्येतत् स्पष्टमेवेत्यभिप्रेत्य पाठान्तरमेव व्याख्यातम्॥
यत्र पुनः प्राचुर्यमेवेति।
प्राचुर्यस्य धर्मिविशेषणत्वेन निर्देश एव व्यधिकरणसजातीयाल्पत्वस्य निरूपकत्वं दृष्टम्। यथा 'प्रचुरब्राह्मणो ग्रामः' इत्यत्र प्राचुर्यस्य नामान्तरगतब्राह्मणाल्पत्वं निरूपकं दृष्टमिति। तस्य धर्मिविशेष्यत्वे तु समानाधिकरणविजातीयाल्पत्वमेव निरूपकम्। अत एव 'ब्राह्मणप्रचुरो ग्रामः' इति प्रयोगे तद्रामगतशूद्राल्पत्वापेक्षं प्राचुर्यं प्रतीयते। न च - प्रचुरप्रकाशः सवितेतिव'त्प्रकाशप्रचुरः सवितेति' प्रयोगेऽपि नक्षत्रादिगतप्रकाशाल्पत्वापेक्षमेव प्राचुर्यं प्रतीयते, न तु सवितृगततमोल्पत्वापेक्षं तत्र तमसो बाधितत्वात्, तथेहापि स्यादिति शङ्कनीयम्; तत्रापि घनतुहिनसैंहिकेयाच्छादनारोपिततमोल्पत्वमपेक्ष्य घनाद्यपसरणसमये तथा प्रयोगात्। तदभावे व्युत्पन्नानां तथा प्रयोगा भावात्। ननु-'बलवत्तरश्चैत्र' इत्यादौ तरबाद्यर्थस्य प्राचुर्यस्य विशेष्यत्वेऽपि मैत्रादिगतबलाद्यल्पलापेक्षत्वं दृष्टमिति चेद, नः तत्र 'द्विवचनविभज्योपपदे तरबीयसुना'विति द्विवचन विभज्योपपदविशेषणवशादातिशायनिकप्रत्ययेषु व्युत्पत्त्यन्तरकल्पनेऽपि मयटि तत्कल्पकाभावेन औत्सर्गिकव्युत्पत्तिलङ्घनायोगादिति भावः॥
प्रधानं प्रत्ययार्थ प्राचर्य प्रतीति।
यद्यपि मयड्विधायकसूत्रस्य प्रथमव्याख्याने प्राचुर्यं प्रकृत्यर्थस्य विशेषणं, मयट् च स्वार्थिकः; द्वितीयव्याख्याने मयट् प्रस्तुतान्नादिविशिष्टयज्ञाद्यर्थः प्राचुर्यस्य प्रत्यायनमेव नास्तीति शाब्दिकानां मर्यादा; तथाप्यन्नमयो यज्ञ इत्यन्नप्रचुर उच्यत' इति वृत्तिकारदर्शितोदाहरणार्थानुसारेण द्वितीयव्याख्याने प्रकृत्यर्थप्राचुर्यविशिष्ट एवान्यपदार्थो मयडर्थ इति वृत्तिकारमतमालोच्यैवमुक्तम्।। मयड्विकारे मुख्य इत्यादि। नन्वानन्द शब्दाद्विकारार्थो मयडेव न प्राप्नोति मयड्वैतयोर्भषायामभक्षाच्छादनयोर्नित्यं वृद्धशरादिभ्य इति विकारावयवार्थमयड्विधायकसूत्रयोः भाषाविषयत्वातयोरर्थयोः छन्दस्यप्राप्तस्य मयटो विधायकस्य द्व्यचश्छन्दसीति सूत्रस्य द्व्यज्भ्य एव शरपर्णादिप्रातिपदिकेभ्यः तद्विधायकत्वादतो मयड्विकारे मुख्य इत्युक्तमयुक्तम्। एवं च विकारप्रायपाठपरित्यागोक्तिरप्ययुक्ता। अन्नरसमयविज्ञानमयशब्दयोरपि मयटो विकारार्थत्वायोगादिति चेन्न। वृद्धशरादिसूत्रगतेन नित्यग्रहणेन तत्प्राप्तिसम्भवात्। न च वृद्धशरादिभ्यो मयटो नित्यत्वसिद्धायै तत्पूर्वसूत्रेण सर्वप्रातिपदिकेभ्यो विकल्पेन मयविधानानन्तरं वृद्धशरादिसूत्रारम्भसामर्थ्यादेव तेभ्यस्तस्य नित्यत्वसिद्धेः। न च वाङ्गस्रङ्मयादिरूपसिद्ध्यर्थं प्रवृत्तस्य नित्यमेकाच इति व्याकरणान्तरसूत्रस्यैकदेशभूतनित्यग्रहणमेकदेशद्वारा तत्सूत्रपस्मारणायेति येागविभागार्थं तदिति शङ्क्यम्। शरादिगणे मृद्ग्रहणवैयर्थ्योपत्तेः। अतस्तदेव मृद्ग्रहणमेकाजुदाहरणेकदेशत्वात् सर्वेषामेकाचां स्मारकम् आश्रयितुं शक्यमिति नित्यग्रहणमतिरिच्यमानं भाषायामेव वृद्धशरादिभ्यो नित्यमित्येतदर्थकं सच्छन्दसि वृद्धशरादिभ्योऽन्येभ्यश्च प्रातिपदिकेभ्यो यथादर्शनं व्यवस्थितविकल्पार्थमित्यङ्गीकर्तुं युक्तमिति। ननु तथापि प्राचुयार्थमयड्विधायकसूत्र-प्रथमत्र्याख्यानुसारेण अत्रत्यानन्दमयपदस्य प्रचुरानन्दार्थत्वपरिग्रहे माण्डुक्यश्रुतिगतानन्दमयशब्दस्य सुषुप्तजीवे एव ब्रह्मणि मुख्यत्वमुपपद्यते। ब्रह्मणो मनआदिरूपतयेवान्यावयवत्वेनोपास्यतया निर्देशेपि ब्रह्मश्रुतेः मुख्यता नापैति। प्रचुर आनन्दोऽप्यानन्द एव इत्यभ्यस्यमानानन्दपदानाम् आनन्दमयविषयत्वेऽपि लक्षणा न प्रसज्यते। अतः पूर्वपक्षे मुख्यचित्तयलङ्घनोक्तिरयुक्ता। एवमुत्तरपक्षे प्रायपाठमात्रबाधनोक्तिरप्ययुक्ता। पुच्छश्रुतिबाधस्यापि सत्वात्। न च पक्ष्यवयवपरत्वेऽपि तद्बाधस्तुल्यः तस्या वालधावेव मुख्यत्वादिति वाच्यम्। तस्याः पशुपश्चाद्वागावयव इव पक्षिपश्चाद्भागावयवेऽपि मुख्यत्वात्। बृहद्रथन्तरे पक्षौ यज्ञायज्ञियं पुच्छं तस्मात् सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव प्रतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छमित्यादिश्रुतिषु तत्रापि तस्याः प्रयोगसत्वेन विनिगमनाविरहादिति चेत्, अत्रेदं समाधानं विवक्षितम्। आनन्दमय इत्यस्यानन्दप्रचुर इत्यर्थपरिग्रह इव प्रचुर आनन्द इत्यर्थपरिग्रहे ऽपि मुख्यार्थबाधः स्यादेव ब्रह्मस्वरूपानन्दे संख्याधिक्यरूपस्य मुख्यस्य प्राचुर्यस्याभावात्। न हि संख्याधिक्यवत् परिमाणाधिक्यमुत्कर्षो वा प्रचुरशब्दस्य मुख्योऽर्थः। अयं पटोऽस्मात् पटात् प्रचुर इति वाऽयं गकारोऽस्माद् गकारात् प्रचुर इति वा प्रयेागाभावात्। सुषुप्तजीवे दृष्टोऽप्यानन्दमयशब्दो देहद्वयोपाधिविगमप्रयुक्ताभिव्यक्तिविशेष- रूपोत्कर्षलक्षको न मुख्यः। न चेह तथा लक्षणाबीजमस्ति। प्रायपाठानुरोधिविकारार्थपरिग्रहोपपत्तेः। ब्रह्मशब्दोपि ज्ञेये परब्रह्मणीवोपास्ये केनचिद्रूपेण परिच्छिन्ने सविशेषब्रह्मण्यवयवार्थपौष्ककल्याभावाद् नात्यन्तं मुख्यभावमश्नुते। यद्यपि प्रचुरानन्देऽप्यानन्दशब्दो मुख्यः तथाऽप्यानन्दमयस्य ब्रह्मत्वे जीवसाधारणानन्दाभ्यासमात्रं न लिङ्ग किं तु प्रचुरानन्दाभ्यास इति तल्लाभार्थमभ्यस्यमानानन्दमयशब्दोक्ते प्रचुरानन्दे लक्षणा वाच्या। पुच्छशब्दस्य पक्ष्यवयवपरत्वेऽपि मुख्यार्थत्यागस्तुल्यः। पुच्छोऽस्त्री लूम लाङ्गलमित्यभिधानको प्रयोगबाहुल्यनिश्चितलाङ्गूलशक्तिकस्य तस्य पक्ष्यवयवे पश्चाद् लम्बमानत्वसादृश्येनाऽकच्छः पुच्छकच्छश्चेति पश्चाद् लम्बमानवस्त्रावयव इव प्रयोगोपपत्तौ अनेकशक्तिकल्पनायोगात्। तस्मादिह न कश्चन शङ्कावकाश इति।
ततोऽभ्यन्तरं ब्रह्म किमिति नोक्तमिति।
ब्रह्मणः सर्वान्तरत्वप्रदर्शनार्थं खल्वन्नमयाद्युतरोत्तरान्तरनिरूपणं प्रवृत्तं सच्चिदानन्दमये पर्यवसितं स एव ब्रह्मेति युक्तम्; ततोऽप्यान्तरं ब्रह्म विवक्षितं चेत्, तथा किमिति नोच्येत। न हि ब्रह्मणः सर्वान्तरत्वप्रदर्शनार्थं प्रक्रान्तं तद्ब्रह्मणि परिसमापितमिति युज्यत इति भावः॥
प्रतिष्ठात्वसामर्थ्यादिति।
"ब्रह्म पुच्छं प्रतिष्ठे"त्यानन्दमयप्रतिष्ठितिहेतुत्व-तदाधारत्वसामर्थ्यादित्यर्थः। अतः ‘कस्मिन्वहमुत्क्रान्त' इत्यादिश्रुत्यन्तरे प्राणस्य जीवप्रतिष्ठाहेतुत्वश्रवणेऽपि न तत्र व्यभिचारः। यथा भूमविद्याया"मस्ति भगवो नाम्नो भूय" इत्यादिप्रश्नप्रतिवचनपरम्परायाः प्राणे समापनेऽ"प्येष तु वाऽति वदती'त्यादेस्तुशब्दश्रुत्या "आत्मनः प्राण” इति ततः प्राणोत्पत्तिलिङ्गेन च प्राणादर्थान्तरोपदेशपरत्वमिति। तत्रैव "श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मविदिति शिष्यजिज्ञासितात्मोपदेशपर्यवसानमभ्युपगम्यते, न तु प्राचीने प्राणे; एवमिहापि योजनीयमिति भावः॥ अन्नमयाद्युत्तरोत्तरान्तरनिरूपणं ब्रह्मणि कारणवाक्यश्रुतस्यात्मत्वस्य ब्रह्मण्येव श्रुतस्य गुहासन्निहितत्वस्य विवरणार्थम्। अतस्तदवश्यं ब्रह्मणि पर्यवसितं वक्तव्यमित्यभिप्रेत्येवं परिहार आश्रितः। यदि तु 'सत्यं ज्ञानमिति' मन्त्रे सत्यादिलक्षणं ब्रह्म गुहायां निहितं जीवरूपेण गुहायामीश्वरेण निवेशितं जीवाभिन्नं वेदेति जीवस्य गुहानिहितत्वमुक्तमिति तद्विवरणार्थं तत्प्रवृत्तं भवेत्, तदा तत्पर्यवसानमानन्दमय एवं युक्तमिति न काचिदनुपपत्तिः॥
विशेष्यप्रधानभूतेति।
मयडर्थं प्रति प्रातिपदिकार्थस्य विशेषणत्वेनाप्राधान्येऽपि विभक्त्यर्थसंख्या प्रति विशेष्यत्वेन तस्य प्राधान्यमिति सूचयितुं विशेष्यग्रहणम्। संख्या समानप्रत्ययोपात्तकारकान्वयिनी तद्गुणभूता। प्रातिपदिकार्थोऽपि तद्गुणभूतः। अतो गुणानां च परार्थत्वादसंबन्धः समत्वात् स्यात् (जै.अ.२ पा. १ सू. २२) इति न्यायात् संख्याप्रातिपदिकार्थयोर्न परस्परं गुणप्रधानभाव इति कौमारिलमतानुसरणे तु पार्ष्णिकान्वयवेलायां प्रातिपदिकार्थस्य संख्या प्रति विशेष्यत्वमस्तीति तदभिप्रायं विशेष्यपदम्। एवं च शाब्दबोधवेलायां तस्य संख्यां प्रति प्राधान्यास्फुरणेऽपि प्रथमश्रुतस्य तस्य संख्याविशेष्यस्य विभक्त्यर्थस्य च प्रकृतौ समवेतत्वादनुत्कर्ष इति सिद्धान्तन्यायो द्रष्टव्यः। अत एव - प्रकृत्यर्थस्य पाशस्य विभत्त्यर्थस्य कर्मणः। उभयोः प्रकृतीभावान्नोत्कर्षोऽस्यावकल्पते॥ इति शास्त्रदीपिकायां तदुभयमनुत्कर्षहेतुत्वेन दर्शितम्॥
ननु-आम्नायस्यार्थं वक्तुं प्रभवामो नाम्नाऽयं पर्यनुयोक्तुमिति न्यायादपर्यनुयोज्ये वेदे पाशैक्येऽपि बहुवचनं कथंचिदवयवबहुत्वाभिप्रायं योज्यते, पौरुषेयेषु सूत्रेषु वायत्ते शब्दप्रयोगे सर्वज्ञेन सूत्रकृता किमर्थं श्रुतिविरोधनान्तिकरसूत्रप्रणयनं कृतम्? इत्याशयाध्याहाराद्यपेक्षानेकार्थप्रत्यायनामित्याह–
अध्याहारादिभिर्नेयानीति।
आदिशब्देन लक्षणानुषङ्गो योगवृत्तिश्च गृह्यते। तत्र सौत्रानन्दमयशब्दस्यानन्दमयपयायामनाते पुच्छब्रह्मणि लक्षणा। स्वप्राधान्येन प्रतिपाद्यमित्यध्याहारः। असन्नेव स भवतीति निगमनश्लोकस्थब्रह्मशब्दाभ्यासविषयत्वादिति हेतुः। यत्र ब्रह्मत्वं साध्यं तत्र तद्विषयश्रुत्यादिमात्रं हेतूकर्तव्यम्। इह तु ब्रह्मणः पुच्छवाक्यविषयत्वे स्थिते तात्पर्येण प्रधानतया तत्प्रतिपाद्यत्वं साध्यमिति तात्पर्यसिद्धये तल्लिङ्गतयाऽभ्यासपर्यन्तहेतूक्तिः। नन्वसिद्धोऽयं हेतुः। यत आनन्दमयो निगमनश्लोक विषयः, न पुच्छ ब्रह्मः पूर्वपर्यायेषु निगमनश्लोकानां पुच्छविषयत्वादृष्टेरिति शङ्कायामपि सूत्रमेवोत्तरम्। तत्रानन्दमय एवं पक्षः, न निगमनश्लोकप्रतिपाद्य इति साध्यम्, ईक्षतिसूत्रानजानुवर्तमानेन निषेध्याध्याहारेण च साध्यपूरणम्, ब्रह्मशब्दाभ्यासादित्यैव हेतुः। अभ्यस्यमानं ब्रह्मशब्दं प्रति जीवस्यानन्दमयस्य मुख्यार्थवाभावादेकपुच्छपदमनुरुध्यानेकस्य ब्रह्म शब्दस्य आनन्दमये जघन्यवृत्तिकल्पनायोगात् इत्यभिप्रायेणाभ्यासपर्यन्तोकिः। किञ्च न निगमनश्लोकप्रतिपाद्य इत्यस्मिन् साध्ये निगमनश्लोकप्रतिपाद्यब्रह्मसत्वासत्ववेदितृत्वेन प्रकृतपरामर्शिभ्यां स एनमिति सर्वनामभ्यामभ्यस्यमानत्वादिति हेलन्तरमप्यनेन विवक्षितम्। अत्रापि पुच्छपदाद् बलवत्वसिद्ध्यर्थमभ्यासपर्यन्तहेतूक्तिः॥१२॥ द्वितीयसूत्रे विकारपदेनावयवो लक्ष्यते। तद्वाचिशब्दः पुच्छशब्दः। स एव शब्दो विकारो विगतकार्योऽनर्थकः शब्दः। कारशब्दः कर्मणि घञन्तः कार्यवाची। तथाचावयववाचिशब्दात्तस्य स्वार्थत्यागे लक्षणीयाभावेनानर्थक्यप्रसङ्गाच्च ब्रह्म न स्वप्राधान्येन प्रति पाद्यमिति शङ्कार्थः। न च पुच्छपदेनाधारत्वं लक्षणीय प्रतिष्ठापदेन पौनरुक्त्यप्रसङ्गादिति शङ्कितुः हृदयम्। नैव शङ्कितव्यम्। ब्रह्मश्रुत्यभ्यासानुरोधात्। ब्रह्म स्वप्राधान्येन प्रतिपाद्यमेव, पुच्छपदं तु तत्राधारत्वलक्षकम्। न च प्रतिष्ठापदेन पौनरुक्त्यम्। पुच्छपदसमभिव्याहृतेन तेन पुच्छवत्प्रतिष्ठितिक्रियासाधनसमुच्यते। पक्षिणो हि पुच्छेन प्रतितिष्ठन्तीति लोकतः श्रुतितश्चावगतम्। यथा पुच्छेन प्रतिष्ठितौ तदुपरितनावयवावच्छिन्नं पक्षिणं प्रति पुच्छमाधारस्तथा ब्रह्मणा प्रतिष्ठितौ प्रियादिमध्य भागरूपात्मतावयवयुक्तमानन्दमयं प्रति ब्रह्माधार इति तदाधारत्वँ पुच्छपदेन लक्ष्यत इत्येवं वैवक्षिककरणत्वाधिकरणत्वरूपार्थभेदसत्वात्। तथापि मुख्यमाधारवाचकं हित्वा प्रहीणावयववाचिना पुच्छपदेन तल्लक्षणा केन हेतुनेति चेत्, पूर्व पर्यायेषु पुच्छशब्दानां प्राचुर्यादिहापि पर्याये तत्साम्यार्थपुच्छशब्दे प्रयोक्तव्ये तेनैवाधारत्वप्रतीतिः लभ्यत इति तात्पर्येण। ननु पूर्वपर्यायसाम्यार्थं पुच्छपदप्रयोगमात्रं नापेक्षितं, किं त्ववयविगतपुच्छावयवान्वयबोधनोपयोगितया तेन पुच्छावयवप्रतिपादनम्। नचाधारलक्षकेण तत्प्रतिपादनं संभवति। अतोऽनाधारलक्षणा युक्तेल्यस्यामपि शङ्कायां प्राचुर्यादित्येवोत्तरम्।
इत्थमपि शङ्का नावतरति अर्थान्तरलक्षकतया स्वार्थमनभिदधानस्यापि शब्दस्य स्वार्थाभिधानफलार्थतादृष्टेः। तद्यथा। "उत्तरं बर्हिषः प्रस्तरं सादयति प्रजा वै बर्हिर्यजमानः प्रस्तरो यजमानमेवाऽयजमानादुत्तरं करोति तस्माद्यज जमानोऽयजमानादुत्तर' इति श्रुतौ प्रस्तरसमानाधिकरणस्य यजमानशब्दस्य प्रस्तरे यज्ञनिवर्त्तकत्वादियजमानगुणमुखेन वृत्तिस्तत्सिद्धिपेटिकायामुपपादिता। अथापि प्रस्तरे मुख्ययजमानत्वबोधनस्य यत्फलं यजमानमेवाऽयजमानादित्यादि वाक्यशेषार्थोपपादनं तादर्थ्यमपि दृश्यते। यथा वाग्निर्वै ब्राह्मण' इति श्रुतावग्निशब्दस्य मुख्यप्रभवत्वरूपाग्निगुणमुखेन ब्राह्मणे वृत्तिस्तत्र समर्थिता, तत्तुल्यन्यायतयाऽमि दीक्षित' इत्यत्राग्निशब्दस्य दीक्षिते वृत्तिरपि किंचिदग्निगुणमुखेनेति सिद्ध्यति। अथापि दीक्षितेऽग्नितादात्म्यबोधनस्य यत्फलं “मदन्तीभिर्जियत" इति विधिशेषस्य निर्वाग्निः शीतेन बाधती'त्यर्थवादस्यापपादनं तादर्थ्यमपि दृश्यते। एवं “यजमानो वा आहवनीयो" "यजमानं वा एतद्विकर्षते यदाहवनीयात्पशुश्रपणं हरती"त्यादीनि प्रचुराण्यत्रोदाहरणानि॥ ननु सानन्दमयसकलविकारजातकारणखमानन्दमये नान्वेति चेत्। तत्पुच्छतेन निर्दिष्टे ब्रह्मण्येव 'तस्यैष एव शारीर आत्मेति' पुल्लिान प्रकृते सोऽकामयतेत्यादेरन्वयोऽस्तु; पुच्छमहिमवर्णनेन पुच्छवतः प्रधान स्याधिकस्तुतिलाभात्। न च-किचिद्विकारैकदेशस्य परिच्छिन्नस्य सकलविकारकारणसमनुपपञ्चमिति शलम्; न हि मुख्यवृत्त्याऽयमवयव उपदिश्यते, किं त्वनवयवेऽवयवत्वदृष्टिमात्रमुपदिश्यते। प्राणमयमनोमय-पर्याययोराकाशपृथिवीयजुरादीनां वस्तुतः तत्तदनवयवानामेवावयवलकल्पनादर्शनात्। न च विकार प्रत्यवयवत्वदृष्टिविधानमात्रेण कार णलान्वयानुपपत्तिरायातिः तथा सत्याकाशदृष्टिविशिष्टोद्रीयोपासनायामाकाशे सर्वभूतकारणत्वायन्वयायोगेनाकाशस्य कारणत्वादिब्रह्मलिङ्गेन ब्रह्मलनिर्णयविरोधापत्तेः। न च मुख्यावयवलमेवान विवक्षितमिति वाच्यम्। प्राणमयमनोमयपर्याययोः आकाशपृथिवीयजुरादीनां मुख्यावयवत्वासंभवेन तद्वदिहापि दृष्टिमात्रविधानौचित्यादित्याशङ्याह –
तद्वयवो ब्रह्मापि विकारस्यादिति।
पूर्वपर्यायेष्विदमेव शिर' इत्यादिनोकानां शिरःप्रभृतीनां तत्तन्मुख्यैकदेशत्वान्मुख्यैकदेशेष्वेव च शिरस्त्रादिकल्पनस्योचितत्वात् आकाशपृथिवीशब्दाभ्याम् आकाशपृथिवीसंबन्धवतोः समानोदानयोः यजुरादिशब्दैः तत्तद्विषयमनोवृत्तीनां च ग्रहणम्; तेषां शिरस्त्वादिकल्पनास्वीकारात्। ब्रह्मणि पुच्छत्वकल्पनायां तस्यानन्दमयमुख्यावयवत्वमेवाङ्गीकर्तव्यं स्यादिति विकारावयवस्य तस्य मुख्यविकारत्वापत्त्या कारणत्वश्रवणमुपरुध्येतेति भावः॥