प्राणस्तथाऽनुगमात्॥२८॥
अनेकेति ।
अनेकेषां लिङ्गान्यनेकानि च तानि लिङ्गनि वा प्रतिपदार्थमनेकानीत्यर्थः । तेषामेकत्वेन प्रतिभासमानवाक्ये समावेशे किं बलवत्, किममूनि सर्वाणि समबलानि, उतैकमेव बलवत् यदा चैलमेव बलवत्तदा कस्य लिङ्गनो लिङ्गं बलवत्, किं ब्रह्मणः, उत प्राणादेरित्येतदत्र चिन्त्यते । एतच्च प्राक् अतएव प्राणः(ब्र.अ.१.पा.१.सू.८) इत्यत्र न चिन्तितम् । तत्र हि ब्रह्मलिङ्गात् प्राणश्रुतिर्नीता, नतु ब्रह्माब्रह्मलिङ्गानां बलाबलमित्यर्थः । ज्योतिर्वाक्येऽपि यच्छब्देन समाकृष्टे ब्रह्मणि तल्लिङ्गं तेजोलिङ्गाद्बलवदित्युक्तम् । न तथेह किंचिन्निर्णयकारणमिति तेनाप्यगता चिन्ता, अतएव सङ्गतिः । अथवा — दिवि दिव इत्यत्र प्रधानप्रकृत्यर्थमनुरुध्य प्रत्ययार्थो नीतः, एवमिहापि स्वतन्त्रप्राणादिपदार्थभेदप्रतीतौ तत्सापेक्षत्वेन गुणभूतवाक्यार्थप्रतीतेर्युक्तमन्यथाऽऽनयनमिति भिन्नोपासनविध्युपगमेन पूर्वपक्षोत्थानस्य वक्ष्यमाणत्वात्सङ्गतिः ।
बहूनीति ।
बहुग्रहणमनेकानि च तानि लिङ्गानीति संग्रहे समासप्रदर्शनार्थम् । एवंच प्राणादिषु प्रत्येकमपि बहुलिङ्गदर्शनाद् भूयसां न्यायेनाप्यनिर्णयात्, आकाशस्तल्लिङ्गात् – (ब्र.अ.१.पा.१.सू.२२) इत्यनेनाप्यगतार्थत्वमुक्तम् ।
अनन्यथासिद्धब्रह्मलिङ्गानुसारेणेतरेषामन्यथासिद्धिं वदन्नन्तस्तद्धार्मोपदेशात्(ब्र.अ.१.पा.१.सू.२०) इत्यनेन पुनरुक्तिं शङ्कते —
स्यादेतदित्यादिना ।
देवतालिङ्गस्यान्यथासिद्धिमाह —
तथापीति ।
शास्त्रदृष्ट्या तूपदेशः(ब्र.अ.१.पा.१.सू.३०) इति सूत्रार्थं मनसि निधायाह —
इन्द्रस्य देवताया इति ।
ध्यानजसाक्षात्काराभ्युपगमो वाचस्पतेरेतत्सूत्रार्थाबोधादिति कैश्चिदयुक्तमुक्तम् । यतः — अपि संराधने सूत्राच्छास्त्रार्थध्यानजा प्रमा । शास्त्रदृष्टिर्मता तां तु वेत्ति वाचस्पतिः परं॥
वसतः इति द्विवचनश्रुत्या सहोत्क्रमणादिलिङ्गानुगृहीतयोपास्यभेदप्रतीतेर्न वाक्यस्य ब्रह्ममात्रपरत्वनिर्णय इति वदन् पूर्वपक्षसंभवमाह —
अत्रोच्यत इति ।
तस्य प्राणस्य प्रज्ञात्मना जीवेन सहोपास्यत्वमुक्तमित्यर्थः ।
ब्रह्मणि प्राण इति ।
स एष प्राण आनन्दोऽजर इत्यत्र प्राणशब्दो ब्रह्मवाचीत्यर्थः ।
भवतु पदार्थावगमपूर्वको वाक्यार्थावगमः, तथापि गामानयेत्यादाविवैकवाक्यता किं न स्यादत आह —
पदार्थानां चेति ।
गुणप्रधानयोग्यपदार्थावगमे भवत्वेकवाक्यता, इहतु सहोत्कामत इत्यादिभिः स्वातन्त्र्यावगतेर्वाक्यभेद इत्यर्थः । हेतुः पदार्थावबोधो हि वाक्यार्थबोधे, अतएव स गुणः ।
उद्देश्यस्तु वाक्यार्थप्रत्ययः प्रधानम्, अतो न प्रतीतैकवाक्यत्वभङ्ग इति सिद्धान्तयति —
सत्यमित्यादिना ।
ज्ञानशक्तिमती बुद्धिः, क्रियाशक्तिमांश्च प्राणः ।
यदि प्रत्यगात्मोपाधी भेदेन निर्दिष्टौ, नतु जीवप्राणौ स्वातन्त्र्येण, कथं तर्हि प्राण एव प्रज्ञात्मेत्युपक्रम्योपास्वेति तयोरुपास्यत्वनिर्देशः, भेदेनोक्तयोर्वा कथमभेदेन निर्देशः, अत आह —
अतएवेति ।
ननु जीवप्राणब्रह्मणामुपास्यत्वेन यदि पूर्वः पक्षः, कथं तर्हि जीवमुख्यप्राणलिङ्गसूत्रावतारकपूर्वपक्षभाष्ये ब्रह्मपरत्वनिषेधोऽत आह —
ब्रह्मवाक्यमेवेति ।
ब्रह्मपरत्वनियमो निषिध्यत इत्यर्थः । एतत्सूत्रपूर्वपक्षभाष्य एव प्राणस्य प्रज्ञात्वमुपपादयितुं प्रज्ञेत्यादिभाष्यम् ।
तत्र प्राणान्तरशब्दार्थमाह —
प्राणान्तराणीति ।
मुख्यप्राणस्थितौ स्थितेस्तदुत्क्रान्तावुत्क्रान्तेस्तत्प्रतिष्ठानीन्द्रियाणि ।
एतत्सूत्रपूर्वपक्षोपसंहारभाष्यं — तस्मादिह जीवमुख्यप्राणयोरन्यतर उभौ वा प्रतीयेयातां न ब्रह्मेति, तदप्युपासनात्रयपरतया नयति —
जीवेति ।
अन्यतरत्वं उपक्रममात्रम् — अस्थिरमित्यर्थः ।
ननु त्रयाणामुपासने कथमुभाविति निर्देशोऽत आह —
ब्रह्म त्विति ।
उभयोः प्राप्त्यर्थोऽयं निर्देशो न ब्रह्मव्यावृत्त्यर्थः ।
तर्हि न ब्रह्मेति कथमत आह —
न ब्रह्मैवेति ।
एवमेता भूतमात्रा इति वाक्यस्यार्थत उपादानेन ब्रह्मलिङ्गस्यानन्यथासिद्धिप्रदर्शकं जीवमुख्यप्राणलिङ्गसूत्र(ब्र.अ.१.पा.४.सू.१७) सिद्धान्तभाष्यं दशानामित्यादि, तद्व्याचष्टे पञ्चेति । श्रुतौ भूतमात्राशब्दे द्वन्द्वसमासः, भूतानि च मात्राश्चेति । भूतानि पृथिव्यादीनि पञ्च, मात्राः शब्दादयः सूक्ष्मभूतानि च पञ्चेति दशेत्यर्थः ।
प्रज्ञामात्राणां चेति भाष्ये दशानामित्यनुषञ्जनीयं, चशब्दादित्यभिप्रेत्य व्याचष्टे —
पञ्च बुद्धीन्द्रियाणीति ।
पञ्चबुद्धय इति ।
पञ्चेन्द्रियजनिता बुद्धय इत्यर्थः । अत्रापि द्वन्द्व एव । प्रज्ञाः बुद्धयः । मीयन्ते शब्दादय आभिरिति मात्रा इन्द्रियाणि ।
पूर्वोत्तरव्याख्ययोः सूत्रार्थं विभजते —
पूर्वमिति ।
उपासनात्रैविध्यप्रसङ्गादिति पूर्वत्र व्याख्या, अत्र त्वेकस्या उपासनायास्त्रिविधत्वाद् न वाक्यभेदे इति व्याख्येत्यर्थः । किमुपासनात्रयविशिष्टं ब्रह्म विधीयते, उत ब्रह्मविशिष्टमुपासनात्रयं, किं वा तदनुवादेन तदाश्रितोपासनात्रयमिति ।
नाद्य इत्याह —
युक्तमिति ।
न द्वितीय इत्याह —
वाक्यान्तरेभ्यश्चेति ।
विशेषणब्रह्मणः सन्निधौ प्राप्तत्वाद् न तद्विशिष्टोपास्तिविधिरित्यर्थः ।
ततस्तृतीयपक्षः परिशिष्यत इत्याह —
तदनूद्येति ।
तं दूषयति —
तस्य चेति ।
ब्रह्मानुवादेनोपासनविधावेकविशेष्यावशीकारादुपासनानां च परस्परमसङ्गात्प्रत्युपास्तिविध्यावृत्त्यापात इत्यर्थः । — अत्र केचित् — प्रकरणित्वेऽपि ब्रह्मणोऽवान्तरवाक्यभेदेन श्रवणादिवद्यज्ञादिवच्चोपासनात्रयं विधेयम्, अत एकवाक्यत्वेऽपि नानावाक्यत्वमविरुद्धम् । अपिच नैव वाक्यभेदः; प्राणादित्रितयधर्मविशिष्टैकोपासनविधेः — इत्याहुः । तन्न ; । यतः अगत्याकल्प्योऽपूर्वत्वाद्वाक्यभेदो हि धारणे । इह ब्रह्मातिरेकेण नापूर्वार्थावधारणा॥ उपक्रमोपसंहारैक्यादवगते एकवाक्यत्वे सर्वात्मत्वविवक्षया प्राणजीवधर्मा ब्रह्मणि स्तुत्यर्थं निर्दिष्टा इति शक्यते योजयितुम् । सर्वात्मत्वं च सृष्टिवाक्यसिद्धं शक्यमनुवदितुं नत्वेवमुपरिधारणमन्यतः प्राप्तमित्यशंक्यानुवादत्वाद्वाक्यभेदस्तत्र कल्पितः । श्रवणादिविधिस्त्वनिष्ठः, यज्ञादिविधिरपूर्वत्वाद्विषमः॥ यच्च त्रितयधर्मविशिष्टमेकमुपासनमिति, तदपि न; इह हि किं जीवप्राणौ स्वधर्मैर्विशिष्य पुनस्ताभ्यां विशिष्टं ब्रह्मोपास्यमिष्यते, उतारुणैकहायनीवत्सर्वविशेषणविशिष्टब्रह्मोपासनां विधाय पार्ष्ठिको जीवप्राणयोस्तद्धर्माणां च विशेषणविशेष्यभावो विशिष्टविधिसामर्थ्यात्प्रमीयते इति । नाद्यः; जीवप्राणयोः स्वधर्मान् प्रति विशेष्यत्वं ब्रह्म प्रति विशेषणत्वम् इति वैरूप्यात् । न चरमः; प्राणादीनां विप्रकीर्णत्वादेकविशिष्टप्रतीत्ययोगादिति॥ दिवोदासस्यापत्यं दैवोदासिः । धाम गृहम् ।
अरुन्मुखानिति ।
रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं तत्र मुखं येषां ते रुन्मुखाः तेभ्योऽन्ये अरुन्मुखाः । शालावृकेभ्यः आरण्यश्वभ्यः ।
अस्तित्वे चेति ।
प्राणशब्दवाच्यस्य परमात्मनोऽस्तित्वे, प्राणानां इन्द्रियाणां । निःश्रेयसं जीवनादिपुरुषार्थसिद्धिः ।
एवमेवैता इति ।
पृथिव्यादीनि शब्दादयश्चेन्द्रियेषु तज्जन्यज्ञानेषु च विषयत्वेनार्पिताः । प्रज्ञाः बुद्धयः । मात्राः इन्द्रियाणि । प्राणे परमात्मनि अर्पितानि । नेमिवद्विषयाः । अरवदिन्द्रियबुद्धयः । नाभिवदात्मा ।
तान्वरिष्ठ इति ।
प्राणाः किलास्मासु कः श्रेष्ठ इति निर्दिधारयिषव प्रजापतिं जग्मुः, स आह यस्मिन् उत्क्रान्ते इदं शरीरं पापिष्ठमिव भवति स श्रेष्ठ इति । तथेति वागादय उच्चक्रमुः । तथापि शरीरमव्यग्रमवर्तत प्राणोच्चिक्रमिषायां शरीरकरणेष्वनवस्थामाप्नुवत्सु तान् श्रेष्ठंमन्यान् चक्षुरादीन् श्रेष्ठः प्राण उवाच । प्राणापानादिभिः पञ्चधात्मानं स्वं विभज्यैतदिति क्रियाविशेषणमित्थत्यर्थः । वाति गच्छतीति वानं वानमेव वाणम् । वा गतिगन्धनयोः । अस्थिरं शरीरमित्यर्थः ।
तस्मादेतदेवेति ।
उत्थापयति शरीरादिकमित्युक्थम् ।
अथ यथेति ।
अस्या जीवलक्षणायाः प्रज्ञायाः संबन्धीनि भूत्वा सर्वा सर्वाणि भूतानि तादृशत्वेन कल्पितानि, वस्तुत एकं भवन्ति । अस्या एकमङ्गं फलरूपं चैतन्यं स्वविषयोपाधिनाऽदूदुहद्रेचितवती । तस्या दुग्धायाः प्रज्ञाया उपरि विषयत्वेन नामलक्षणं भूतमात्रा भूतसूक्ष्मं प्रतिविहितम् ।
उपहितचैतन्यद्वारा स्वरूपे द्रष्टृत्वाध्यासमाह —
प्रज्ञया द्वारा वाचं समारुह्य वाचं करणं प्रति कर्तेत्यध्यासमनुभूय तया करणेन सर्वाणि नामान्याप्नोतीति । वक्तृत्वेन कर्मेन्द्रियप्रवृत्तिरपि चैतन्याधीनेति प्रज्ञादोह उक्तः ।
ता वा इति ।
भूतानि शब्दादयश्चाधिप्रज्ञम् । प्रज्ञाशब्द इन्द्रियाण्यप्युपलक्षयति॥ इन्द्रियेषु तज्जज्ञानेषु च दश प्रज्ञामात्राः, इन्द्रियतज्जप्रज्ञाः अधिभूतम्, भूतेषु ग्राह्यग्राहकयोरन्योन्यापेक्षत्वात् कल्पितत्वमतोऽद्वैतं तत्त्वमित्यर्थः॥ इति एकादशं प्रतर्दनाधिकरणम् । इति श्रीमदनुभवानन्दपूज्यपादशिष्यपरमहंसपरिव्राजकाचार्यभगवदमलानन्दविरचिते वेदान्तकल्पतरौ प्रथमाध्यायस्य प्रथमः पादः॥
प्राणस्तथाऽनुगमात्॥२८॥
उतैकमेव बलवदिति।
ननु किममूनि सर्वाणि समबलानि, उतैतेषु ब्रह्मलिङ्गं बलवदित्येक एव संशयः प्रदर्शयितुं युक्तः; तथैव टीकायां पूर्वोत्तरपक्षप्रवृत्तेः। न तु प्रथमसंशयस्यैकमेव बलवदिति कोट्यन्तरं प्रदर्श्य यदैकमेव बलवत् तदा किं प्राणस्य जीवस्य वा लिङ्गं बलवद्, उत ब्रह्मण इति संशयान्तरमपि प्रदर्शयितुं युक्तम्। टीकायामेकवाक्यत्वनिर्वाहार्थम् एकस्यैव लिङ्गं बलवदित्यनिर्धारणेन सिद्धान्तं प्रदर्श्य तदनन्तरं विशिष्य ब्रह्मलिङ्गबलवत्वनिर्धारणार्थं विचारान्तरप्रवर्तनस्याभावात्। तत्सत्वे हि संशयान्तरं प्रदर्शनीयम्। यथा पूर्वतन्त्रे भावार्थाः कर्मशब्दाः (जै. अ. २ पा. १ सू. १) इति सूत्रार्थकथने सोमेन यजेतेत्यादिषु किं द्रव्यगुणभावशब्दाः सर्वेऽपि भावनाकरणसमर्पकाः, उतैक एवेति संशयप्रदर्शनपूर्वकमेक एवेति सिद्धान्तमुपपाद्य तदनन्तरं यदैक एव तदा किं द्रव्यगुणशब्दः, उत भावशब्द इति सन्देहान्तरप्रदर्शनपूर्वकं भावशब्द एव फलभावनाकरणसमर्पक इति निर्णीतं, न तथेह विचारद्वयं कृतमग्रे दृश्यते। तस्मात्प्रागुक्तरीत्यैक एव संशयः प्रदर्शयितुं युक्त इति चेत्, उच्यते। इह यद्येक एव बलवल्लिङ्गः प्रतिपाद्यः, तर्हि प्राणो जीवो वा बलवल्लिङ्ग इति तयोरन्यतरः प्रतिपाद्योस्तु, एवमप्येकवाक्यतासंरक्षणसिद्धेरित्याशङ्कान्तरं तन्निराकरणं चेत्युभयमप्यत्र विवक्षितम्। तदित्थम्। प्राणोस्मि प्रज्ञात्मेत्युपक्रमात् प्राण एव प्रज्ञात्मेत्युपसंहाराच्च वायुः जीवो वाऽत्रोपास्यत्वेन प्रतिपाद्यः। मामेव विजानीहीति प्रथममिन्द्रवचनसत्वेऽपि नेन्द्रस्योपास्यत्वशङ्का; तेन वाक्येन स्वस्यैवोपास्यत्वमुक्तमिति शङ्कावारणाय प्राणोऽस्मि प्रज्ञात्मेति पुनस्तद्विवरणात्। तथा च शास्त्रदृष्ट्या वामदेवस्य मन्वादिभावोक्तिवदिन्द्रस्य स्वोपास्यप्राणजीवसामान्यभावोक्तिः। तत्र प्राणपूर्वपक्षे यावद्ध्यस्मिन् शरीर इत्यादिकं प्राणश्रुत्युपोद्बलकं लिङ्गम्। तस्मिन् जीवधर्मोक्तिस्तु यो वै प्राणः सा प्रज्ञेति तस्य जीवभेदोपचरणाद्, औपसंहारिकाजरामृतत्वोक्तिरपि तत एव जीवस्याजरत्वादमृतत्वाच्चेति। जीवपूर्वपक्षस्त्वतद्वैपरीत्येनोपक्रमोपसंहारगतजीवपरप्रज्ञात्मशब्दादिसत्वात्। हिततममित्युपक्रमगतातिशायनिकप्रत्ययमात्रं तु प्राणजीवान्यतरोपासनाफलं सकलपापक्षयादिकमिति तन्मात्रविषयत्वेन योजनीयम्। एतच्छङ्कानिराकरणं त्वन्यथासिद्ध्यनन्यथासिद्धिभ्याम् एकवाक्यतानिर्वाहार्थमेकस्मिन्नेव प्राणजीवब्रह्मलिङ्गेषु योजनीयेषु कार्ययोः लिङ्गकारणे ब्रह्मणि योजयितुं शक्यम्। कारणस्य सर्वेषु कार्येष्वनुगमादित्यन्यथासिद्धानि तयोः लिङ्गानि। कार्यान्तरेष्वप्यनुवृत्तस्य ब्रह्मणो लिङ्गानि तु न तयोः व्यावृत्तयोर्योजयितुं शक्यन्त इत्यन्यथासिद्धानीति। एवमनन्यथासिद्धैतच्छङ्कानिराकरणम्। न च ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यसिति भाष्ये, तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारत इति टीकायां च सूचितम्। सूत्रेऽप्यनुगमादित्यस्योपक्रमोपसंहारानुगमवत् कारणस्य कार्येष्वनुगमरूपमर्थान्तरमपि विवक्षितमिति तेनैव सूचितम्। एवं सूत्रभाष्यटीकापर्यालोचनया स्पष्टोऽयमर्थं इत्याचार्यैः इह कण्ठतो न प्रदर्शितः। दर्पणे त्वाचार्यैरेव शङ्कामनुद्भाव्य ब्रह्माऽब्रह्मलिङ्गानां तयोरनुगमव्यावृत्तिभ्यां विशेषो वर्णितः।
अनन्यथासिद्धेति।
ननु यद्यनन्यथासिद्धब्रह्मलिङ्गानुसारेणान्यथासिद्धनयनं गतार्थ, तर्हि-तस्मादनन्यथासिद्धब्रह्मलिङ्गानुसारत इत्येतदपि गतार्थ स्यादिति चेत्, अस्तु। अत एव त्रीण्युपासनानीति प्रथमविचार एवागतार्थ इति टीकायां कण्ठतः कृतः। द्वितीय विचारस्तु प्राचीनन्यायसिद्ध इति तत्संचारणार्थमनन्यथासिद्धपदमात्रेण सूचितः। अथवा अनुगमव्यावृत्ति रूपानन्यथासिघ्यन्यथासिद्धिप्रकारभेदव्युत्पादनेनागतार्थता द्रष्टव्या॥
वसत इति
द्विवचनश्रुत्येति।
ननु सहवासादिलिङ्गानुगृहीतद्विवचनश्रुत्या प्राणप्रज्ञाशब्दोक्तयोः भेदावगमाद् ब्रह्मवद्यथा तयोरुपास्यत्वमेवमिन्द्रस्यापि बहुलिङ्गप्राप्तस्योपास्यत्वमङ्गीकृत्य चत्वार्युपासनानीति पूर्वपक्षयितुं शक्यम्; अध्यात्मसंबन्धिलिङ्गानां यथार्हं जीवाद्यन्वयोपपत्तेः, मध्ये प्राणप्रज्ञाशब्दयोः मुख्यप्राणजीवपरत्वेऽपि प्राण एव प्रज्ञात्मेत्युपसंहारे ब्रह्मपरत्ववत्प्राणोऽस्मि प्रज्ञात्मेत्युपक्रमे शक्रपरत्वस्यापि संभवात्। तं मामायुरमृतमुपास्वेत्युपक्रमे शक्रस्य, स म आत्मेति विद्यादित्युपसंहारे ब्रह्मणः, तस्मादेतदेवोक्थमुपासीतेति वक्तारं विद्यादिति च मध्ये प्राणस्य जीवस्य चोपासना विधीयत इति स्पष्टमेवोपासनाचतुष्टयप्रतीतेश्चेति चेत्, उच्यते; "प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्वे"त्येतदनन्तरम् “आयुः प्राणः प्राणो वा आयुः यावद्ध्यस्मिञ्छरीरे प्राणो वसति तावदायुरित्युपास्यत्वेन निर्दिष्टस्य प्राणस्यायुःप्रदानस्वातन्त्र्यं श्रुतम्, समनन्तरखण्डे चास्तित्वे च प्राणानां निःश्नयसमिति प्रस्तुतस्य प्राणस्य सत्व एवेन्द्रियाणां निःश्रेयसमुक्त्वा जीवति वागपेतो मूका हि पश्यामो जीवति चक्षुरपेतो अन्धा हि पश्याम इत्यादिना प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतीत्यन्तेन संदर्भेण तस्यैव पूर्वोक्तमायु:प्रदानस्वातन्त्र्यमन्वयव्यतिरेकाभ्यां विवृतम्। एवं प्राणधर्मकीर्तनानन्तरं "अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्यामो” इति यथा प्रज्ञाया जीवस्य सर्वाणि भूतानि संबन्धीनि भूत्वा तद्दृश्यत्वेन कल्पितानि वस्तुत एकं भवन्ति तथा व्याख्यानमुपक्रम्य वक्तृत्वघ्रातृत्वादिप्रज्ञाधर्मकीर्तनं प्रस्तुतप्रज्ञात्मविषयमवतिष्ठते। एवमिहोपास्यत्वेन निर्दिष्टयोः प्राणप्रज्ञात्मनोः क्रमेण व्यवस्थितं धर्मकीर्तनमिव तदुपासनयोः फलकीर्तनमपि दृश्यते "प्राणेन ह्येवामुष्मिन् लोकेऽमृतत्वमाप्नोती"ति "प्रज्ञया सत्यसंकल्पमिति च। एवं प्राणप्रज्ञात्मसंबन्धिलिङ्गानां प्राणोऽस्मि प्रज्ञात्मेत्यतोऽन्यत्र नेतुमशक्यत्वादयमुपदेशो वामदेवस्य मनुसूर्यादिभाववत् ब्रह्मभूतस्येन्द्रस्य प्राणादिभावोऽप्यस्तीति मुख्यप्राणजीवविषयः। एव मुपास्वेति च पृथक् पृथक् तदुभयोपासनाविधानम्। एतदेवोक्थमुपासीतेत्यत्र वक्तारं विद्यादित्यादिषु च प्राणोपासनां प्रज्ञोपासनां चानूद्य शरीरोत्थापकतवक्तृत्वादिगुणविधानमिति न तेषामपि वैयर्थ्यमतः “प्राणोऽस्मि प्रज्ञात्मे"त्यादिवाक्ये तावन्नेन्द्रोपासनाविधिः। नापि "मामेव विजानीहीत्यत्र;" तस्य हिततमत्वसर्वपापासंस्पर्शहेतुत्वलिङ्गेन प्रकरणावसाननिरूपणीयब्रह्मोपासनाविध्यर्थत्वात्। तस्मात् त्रीण्युपास्यानीत्येव युक्तं पूर्वपक्षयितुम्॥
हेतुः पदार्थावबोध इत्यादि।
ननु द्विवचनश्रुतिसहवासादिलिङ्गप्राप्तस्य प्राणप्रज्ञात्मभेदस्य विधिश्रुतिप्राप्तानां तत्तदुपासनाविधीनां च वाक्यार्थविरोधेन त्यागे श्रुतिलिङ्गवाक्यादिबलाबलवैपरीत्यप्रसङ्गात् 'स्योनं ते' इति मन्त्रे पूर्वोत्तरभागव्यवस्थितसदनकरणप्रतिष्ठापनप्रकाशनसामध्येलक्षणवाक्यभेदावहलिङ्गविरोधेन तस्मिन्सीदेति पूर्वोक्तसापेक्षत्वेनावगम्यमानस्य वाक्यैक्यस्य बाधव्यवस्थापनं प्रत्युद्धृतं स्यात्, यदि कामयेत वर्षुकः पर्जन्यः स्यादिति सामानाधिकरण्यरूपस्य वाक्यस्य यदि कामयेत यजमान इत्यध्याहारेण बाधव्यवस्थापनं च प्रत्युद्धृतं स्यात्, न च समभिव्याहारावगतात् वाक्यादुपक्रमोपसंहारावगते वाक्ये कश्चिदस्ति विशेषः; उपांशुयाजवाक्ये जामितादोषपरिहारार्थमन्तरावाक्ये विधाववश्यमभ्युपगन्तव्ये तत्रैव शाखाभेदेनाग्नेयाग्नीषोमीययाज्यानुवाक्यायुगलमध्ये पठितानां वैष्णवप्राजापत्यानीषोमीययाज्यानुवाक्यायुगलानां क्रमप्रमाणेनान्वये सति तत्तन्मन्त्रोदितानां विष्ण्वादीनां तत्र यागे देवतात्वस्य प्राप्तत्वात् विष्ण्वादिवाक्येषु विधेयालाभाद्विधित्यागो न तूपक्रमोपसंहारावगतवाक्यविरोधात्। पुत्रेष्टिवाक्ये त्वष्टाकपालादिषु विध्यश्रवणाद्। विधियोग्यपुरुषव्यापारमात्रस्याप्यश्रवणाद् यच्छब्दोपबन्धेन अनुवादत्वप्रतीतेः। यस्मिन् जात इति वाक्ये पूतत्वादीनां समुच्चयावगमाच्च अष्टाकपालादिषु विध्यनङ्गीकारोन्नोपक्रमोपसंहारावगतैकवाक्यत्वविरोधादिति चेत्, उच्यते; श्रुत्यादिषु परमपि तात्पर्यलिङ्गवत्प्रबलं पूर्वमपि तात्पर्यलिङ्गरहितं दुर्बलमिति हि स्थितिः। तदिहोपक्रमोपसंहारावगमिततात्पर्येण ब्रह्मवाक्येनातथाभूतद्विवचनश्रुत्यादि बाध्यते यथाऽन्तवत्वादिलिङ्गेन आकाशश्रुत्यादिकमिति न किंचिदवद्यम्॥
यज्ञादिविधिरपूर्वत्वाद्विषम इति।
ननु यथा सर्वोत्मत्वविवक्षया प्राणजीवधर्माः स्तुत्यर्थं निर्दिष्टा इति यथा शक्यते योजयितुं, यथा च सर्वात्मत्वं सृष्टिवाक्यसिद्धं शक्यमनुवदितुं, तथा यज्ञादिभिरपि सिषाधयिषितत्वेन ब्रह्मवेदनस्तुत्यर्थं यज्ञादयो निर्दिष्टा इति शक्यं योजयितुं, कर्मकाण्डगतवाक्यजातसिद्धं च यज्ञादिकं शक्यमनुवदितुम्। अथापि तत्र फलविशेषसाधनत्वस्यापूर्वत्वाद्विधिश्चेत्, इहापि स्यादविशेषात्। तस्माद्यज्ञादि विधिवदुपकोसलविद्यायां "प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म' "एतदमृतमभयमेतद् ब्रह्मे"त्युपकमोपसंहारावगतब्रह्मवाक्यमध्ये अग्निविद्याविधिवद्, भूमविद्यायां तरति शोकमात्मवित्" "आत्मैवेदं सर्व"मित्युपक्रमोपसंहारावगतब्रह्मवाक्यमध्ये नामाधुपासनाविधिवच्च प्राणजीवोपासनविधिरप्यजीकर्तुं युक्त एव। उच्यते। त्रिविधोपासनविधिमभ्युपगच्छता मामेव विजानीहीत्यत्र तावद् ब्रह्मोपासनविधिर्वक्तुं न शक्यते; "त्वमेव वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे' "एतदेव मनुष्याय हिततमं मन्ये यन्मां विजानीयादिति प्रश्नोत्तरावगततात्पर्यहिततमबलिङ्गाविरोधात्। हिततमत्वं हि विज्ञानस्योच्यमानं निरतिशयपुरुषार्थत्वं निरतिशयपुरुषार्थसाधनत्वं वा स्यात्, उभयथापि तदखण्डानन्दविषयस्य निखिलानर्थनिवृत्तिपूर्वकब्रह्मावाप्तिसाधनस्य च विशुद्धब्रह्मसाक्षात्कारस्यैव युज्यते। अतस्तल्लिङ्गं विजानीहीत्युक्तस्य विज्ञानस्याविधेयब्रह्मसाक्षात्कारतां तत्राख्यातस्य गोसदृशं गवयं विद्धि, आत्मानं रथिनं विद्धीत्यादिलौकिकवैदिकवाक्यरीत्या प्रतिपाद्यपुरुषाभिमुखीकरणार्थविधिसरूपतां च व्यवस्थापयति। अतो विजानीहीयत्र तावन्न ब्रह्मोपासना विधिशङ्कावकाशः। नापि प्राणोऽस्मीत्यादौ तत्रापि मामिति प्रयोगस्य पूर्वप्रयोगसाम्येन निर्विशेषब्रह्मपरत्वावसायात्। तत्रत्यप्राणशब्दस्य चेन्द्रविश्वामित्रसंवादगतप्राणशब्दसाम्येन तत्परत्वावसायाच्च। ऐतरेयकोपनिषदि हीन्द्रविश्वामित्रसंवादः अस्यामुपनिषदि इन्द्रप्रतर्दनसंवादवत् प्रवृत्तः। तत्र हि विश्वामित्रं प्रकृत्य "इन्द्रस्य प्रियं धामोपेयाय तमिन्द्र उवाच ऋषे प्रियं वै मे धामोपागाः वरं ते ददामी" त्युप्रक्रमः। इन्द्रगततेजोविशेषेणेन्द्रं ब्रह्मसाक्षात्कारेण ब्रह्मभूयं गतमालक्ष्य "त्वामेव विजानीया"मिति ऋषेः प्रश्नः। "प्राणो वा अहमस्मि ऋषे" इतीन्द्रस्योत्तरम्। तत्र प्राणशब्दः परब्रह्मपरः, "प्राणस्त्वं प्राणः सर्वाणि भूतानि प्राणो ह्येष य एष तपति स एतेन रूपेण सर्वा दिशो विष्टोऽस्मी"ति वाक्यशेषप्रतिपादितसार्वात्म्यलिङ्गात्। एवं च साक्षात्काररूपे प्रकृतविज्ञाने प्रयुक्तस्योपास्वेत्यस्यापि तत्र साक्षात्कारे फलरूपतया स्वतःप्राप्तावृत्त्यनुवादकत्वमेव कल्पनीयम्। एवं च "स म आत्मेति विद्यादि"त्युपसंहारेऽपि प्रक्रान्तब्रह्मविज्ञानपरे विधिसारूप्यमात्रमिति तत्रापि न ब्रह्मोपासनाविधिशङ्कावकाशः। निर्विशेषप्रकरणमध्ये प्राणजीवोपासनाविधिरिति शङ्काऽवशिष्यते, सापि न प्राणोऽस्मि प्रज्ञात्मेत्यत्र कर्तुं युक्ता; तस्य वाक्यस्य निर्विशेषब्रह्मसाक्षात्कारपरतायाः प्रतिपादितत्वात्, वाक्यशेषे तद्गुणतत्फलकीर्तनानां च सार्वात्म्यादिना तत्स्तावकत्वस्यैवोचितत्वाच्च। “एतदेवोक्थं" "वक्तारं विद्यादिति" वाक्ययोश्च न तद्द्वयविधिशङ्का कर्तुं युक्ता; तयोः फलाश्रवणेन नामाद्युपासनाविधिवत्फलार्थत्वायोगात्, निर्विशेषब्रह्मविद्यायामनिविद्यावदलाभावाच्च। तस्मात्तयोरपि वाक्ययोः विधिसहापार्थवादतैव युक्ता। अथापि प्राणाद्यात्मत्वं स्वरूपतोऽप्राप्तं चेदुपरिधारणवत्स्यात्तदा कथंचिद्विधीयेतापि, तदपि नास्ति; सार्वात्म्यवाक्यैः प्राप्तत्वादतोऽपूर्वत्वाभावात् स्तुत्यर्थमनुवाद्यं सार्वात्म्यमित्याशयः॥
ब्रह्म प्रति विशेषणत्वमिति वैरूप्यादिति।
यद्यपि वैरूप्यं नासंभवित्वरूपोऽर्थदोषः, नापि तद्वोधनाशक्तिरूपः शब्ददोषः, अर्थानां किंचिद्विशेष्यत्वेऽप्यन्यविशेषणतायाः शब्दानां विशिष्टोपस्थापनपूर्वकमन्यत्र तदन्वयबोधकतायाश्च 'विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः। सत्यकामः सत्यसङ्कल्पः" "अग्नये दात्रे पुरोडाश"मित्यादिषु लौकिकवैदिकव्यवहारेषु दृष्टत्वात्, एतस्यैव रेवतीषु वारवन्तीयमिति वाक्ये अत्यन्ताप्रसिद्धविशिष्टोपस्थापनपूर्वकं वाक्यस्य तदन्वितवाक्यार्थबोधकतायाः स्वयमेवाचार्यैः प्रदर्शयिष्यमाणत्वाच्च; तथापि तत्र तत्र विप्रकीर्णतया वर्णितानां प्राणजीवब्रह्मगुणानामेकत्र समाहृत्य विधानं न संभवतीत्यत्र वक्ष्यमाणयुक्तौ तात्पर्यम्। ननु नानास्थलविप्रकीर्णसर्वगुणविशिष्टविधानासंभवेऽपि प्राणोऽस्मि प्रज्ञात्मेति वाक्ये प्राणजीवत्वधर्मविशेषितब्रह्मोपासनाविधानमुपपद्यते; अमृतत्वस्य ब्रह्मधर्मत्वादिति चेन्न। प्राणो वा आयुः प्राण उत वा अमृतमिति वाक्यशेषाभ्यामायुष्यामृतत्वयोः प्राणधर्मत्वेन कीर्तनात्, प्राणोऽस्मीत्यादेः उपक्रमानुसारेण निर्विशेषब्रह्मसाक्षात्कारार्थत्वाच्चेति भावः।।
नेमिवद्विषया इति।
'स्त्री नेमिः प्रधिश्चक्रप्रान्ते तुम्बा तु नाभिका। अरास्तयोः स्थिता मध्ये इति नैघण्टुकवचनाद् नेमिश्चक्रपरितः स्थितस्तत्प्रान्तभागः। नाभिर्मध्यावयवः। अरा नाभिनेमिमध्यगतावयवाः।
श्रेष्ठं मन्यानिति।
स्वस्वात्मानं श्रेष्ठं मन्यमानानित्यर्थः।
क्रियाविशेषणमिति।
एतदिति पदमित्यर्थकं सदनेन परिदृश्यमानेन प्राणादिप्रकारेणात्मानं पञ्चधा विभज्येत्येवं विभाग क्रियाविशेषणमित्यर्थः॥
अस्या जीवलक्षणायाः प्रज्ञाया इति।
ननु अत्र प्रज्ञाशब्दो बुद्धिपर इति युक्तः; यो वै प्राणः सा प्रज्ञेत्युपकान्तप्राणबुद्धिसहवाससहोत्क्रमणप्रतिपादकान्यवहितपूर्ववाक्यसन्निधापितबुद्धिपरामर्शिसर्वनामसमभिव्याहृतत्वात्, न हि प्रज्ञापेता वाग् नाम किञ्चन प्रज्ञायते, अन्यत्र मे मनोऽभूदित्यादिषु। अथ यथाऽस्यै प्रज्ञाया इति प्रतिज्ञावाक्यानुबन्धिष्वग्रिमवाक्येषु प्रज्ञापेतशब्दस्य मनोव्यासङ्गार्थतया विवरणाच्च; एवमिह प्रज्ञाशब्दस्य बुद्धिपरत्वे प्रज्ञादोहवाक्यानि वागादीनां स्वस्वव्यापारोत्पादनापेक्षितबुद्ध्येकदेशपराणि सङ्गच्छन्ते; युगपज्ज्ञानकर्मेन्द्रियव्यापारेषु वागादीनां कृत्वान्तःकरणसंबन्धायोगात्। प्रज्ञया वाचं समारुह्येत्यादिवाक्यान्यपि जीवस्य बुद्धिद्वारकवागादिकरण संबन्धपूर्वकवक्तृत्वादिप्रतिपादकतया सङ्गच्छन्ते; न वाचं विजिज्ञासीत वक्तारं विद्यादित्याद्यग्रिमवाक्येषु जीवस्यैव वक्तृत्वादिप्रतिपादनात्, तस्मादिह संदर्भे प्रज्ञाशब्दस्य जीवपरतया व्याख्यानं न युक्तमिति चेत्, उच्यते। वागेवास्या एकमङ्गमदूदुहदित्यादिपर्यायेषु वाक्प्राणचक्षुःश्रोत्रादिकर्तृक इव मन एवास्या एकमङ्गमदूदुहृदिति पर्याये मनःकर्तृकोऽपि प्रज्ञादोह उक्तः, स तु मनःप्रज्ञयोः भेदं गमयतीति तदनुसारेणैवं व्याख्यातम्। एवं चान्यत्रमना इत्यादिवाक्येषु मनःशब्दः प्राणबन्धनं हि सौम्य मन इत्यनेव मनउपाधिकजीवपर इति तात्पर्यम्।।
रेचितवतीति।
दुह प्रपूरणे इति धात्वर्थनिर्देशकं प्रपूरणपदं रिक्तीकरणार्थकं, रिक्तीकरणं चात्र फलचैतन्यरूपेण स्वल्पतया विभाजनमेव।
तस्या दुग्धाया इति।
गोस्थानीयं जीवचैतन्यं पयःस्थाने फलचैतन्यं च। ननु तस्या वाच इति व्याख्यातुं युक्तम्; "प्राण एवास्या एकमङ्गमदूदुहृत् तस्य गन्धः परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या एकमङ्गमदूदुहत् तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रे"त्यादिपर्यायेष्वस्त्रीलिङ्गतच्छब्देन घ्राणादीनां "हस्तावेवास्या एकमङ्गमदूदुहतां तयोः कर्म परस्तात् प्रतिहिता भूतमात्रा पादावेवास्या एकमङ्गमदूदुहतां तयोरित्या परस्तात्प्रतिविहिता भूतमात्रेति" पर्याययोः द्विवचनान्ततच्छब्देन हस्तपादद्वययोश्च परामर्शदर्शनेनात्र तच्छब्दानां तत्तदिन्द्रियपरत्वावसायादिति चेत्, सत्यम्। वाक्-पर्याये तस्या इत्यस्य प्रज्ञापरत्वमपि वक्तुं शक्यम्। लिङ्गाविरोधाभावात्। वागादिषु क्रियाकरणभावेनेव प्रज्ञायामपि विषयविषयिभावसंबन्धेन वागादिप्रतिविधानसद्भावाच्चेति तथा व्याख्यातम्॥
नन्विह संदर्भे प्रज्ञाशब्दो जीवपरश्चेत् प्रज्ञया वाचं समारुह्येत्यादिवाक्येषु जीवद्वारकवागादिसंबन्धो वागादिकरणैः नामाद्याप्तिश्च कस्योच्यत इत्याकाङ्क्षायामनुपहितस्य शुद्धचैतन्यस्येत्यवतारयति –
उपहितचैतन्यद्वारेति।
द्रष्टुत्वाध्यासमाहेति।
कर्मेन्द्रियव्यापारेषु यत्कर्तृत्वं ज्ञानेन्द्रियव्यापारेषु यद् घ्रातृत्वद्रष्टुत्वश्रोतृवादि तत्सर्वं छत्रिन्यायाद् द्रष्टृत्वशब्देन संगृहीतम्। ननु फलचैतन्यरूपेण प्रज्ञादोग्धृत्वं ज्ञानेन्द्रियाणामेव, न कर्मेन्द्रियाणाम्, अतो वाचि तदुक्तिर्न युक्तत्याशमाह –
कर्मेन्द्रियप्रवृत्तिरपीति।
कर्मेन्द्रियाणामपि व्यापारः चैतन्यसंबन्धाधीनः। अतश्चैतन्यावच्छेदमात्रं प्राक्फलरूपं चैतन्यमदूदुहदित्यनेनोक्तमिति भावः।
भूतानि शब्दादयश्चेति।
ननु वागादिपर्यायेषु नामादयो दश भूतमात्राशब्दनिर्दिष्टाः; तादर्थ्यमेवात्रापि भूतमात्राशब्दस्य युक्तम्, ता वा एता इति सन्निहितपरामर्शिसर्वनामसमभिव्याहाराद् दशसंख्याश्रवणाच्चेति-चेत्, उच्यते। अथ यथाऽस्यै प्रज्ञाया इति प्रतिज्ञावाक्ये सर्वभूतैक्योपक्रमादित्थं व्याख्या। दशसंख्याश्रवणं तु भूतमात्राशब्दयोरर्थभेदेन टीकायामुपपादितम्॥
ननु प्रतिज्ञातं सर्वभूतैक्यं कुत्रोक्तमित्याकाङ्क्षायामाह –
भूतेष्विति।
दशैव भूतमात्रा अधिप्रज्ञमित्यादिना ग्राह्यग्राहकाणामन्योन्यसापेक्षसिदित्वोक्त्यनन्तरं नो एतनानेति तदैक्योपसंहारादद्वैतं तत्त्वं दर्शितमिति भावः ॥ न चैवं सति "ता वा एता" इत्यादिवाक्यमेव सर्वभूतैक्योपपादने पर्याप्तं किं प्रज्ञादोहप्रतिविधानवाक्यैरिति शङ्कनीयम्; विषयाणां सिद्धिरिन्द्रियाधीनां तेषामपि करणतया तत्तद्विषयित्वेन सिद्धिर्विषयाधीनेत्यन्योन्यसापेक्षत्वप्रदर्शनस्य तथाभूतानां जीवे कल्पितत्वप्रदर्शनस्य च तदधीनत्वात् प्रतिविधानवाक्याद् वागादिपरतच्छब्दानां प्रज्ञादोहवाक्यलब्धजीवविशिष्टवागादिपरतया जीवेऽपि प्रतिविधानसिद्धेः। ततः प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति, प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान् गन्धानानोतीत्यादयो वागादिसमारोहणनामाद्याप्तिपर्यायास्तु प्रतिज्ञातप्रज्ञादोहादिवाक्यसिद्धस्य ग्राह्यग्राहकाणां जीवे कल्पितत्वस्य प्रकरणिनि शुद्धे पर्यवसानलाभार्थाः, न तु प्रज्ञयेत्यादिपर्यायाव्यतिरेकमुद्रया वागादीनां स्वव्यापारेषु जीवसंबन्धावश्यंभावप्रतिपादनेन जीवविशिष्टेषु वागादिषु नामादिप्रतिविधानोक्तेः नामादीनां जीवे कल्पितत्वपर्यवसानदृढीकरणार्थाः। 'न वाचं विजिज्ञासीत वक्तारं विद्याद् न प्राणं विजिज्ञासीत घ्रातारं विद्याद्' इत्यादयो नामादीनां विज्ञेयत्वप्रत्याख्यानपर्याया अपि तेषां कल्पितत्वदृढीकरणाकर्था इति ‘ता वा एता' इत्यतः प्राक् सर्वेपि पर्यायाः प्रतिज्ञातसर्वभूतैक्योपपादनार्थत्वेन सफलाः॥
कणभक्षपदक्षकपक्षपरिष्करणक्षणतक्षणदक्षगिरम्।
अतिकर्क्कशतर्कशतक्षुभितक्षपितक्षपणक्षणभङ्गपदम्॥१॥
कपिलोक्तिनिराकरणप्रवणं कृतपन्नगसूक्तिपरिष्करणम्।
नयमौक्तिकभूषितभट्टमतं विमलाद्वयचित्सुखमनधियम्॥२॥
महतामपि मान्यतमं विदुषां विनिवेश्य गुरुं हृदि वैश्वजितम्।
नयसंहतिशालिनि कल्पतरौ विवृतश्चरणः प्रथमः प्रथितः॥३॥
श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीरङ्गराजाख्यमखितनयनिर्मिते।
वेदान्तकल्पद्रुवरपरिमलेऽनघे पूर्णोऽजनिष्टाद्यचरण इह सत्प्रिये॥४॥