अथ प्रथमं वर्णकम्
अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने ॥
अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ॥ १ ॥
नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये ।
बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २ ॥
नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विना विनायकमपूर्वशङ्करम् ॥ ३ ॥
यद्वक्त्र - मानससरःप्रतिलब्धजन्म - भाष्यारविन्दमकरन्दरसं पिबन्ति ।
प्रत्याशमुन्मुखविनीतविनेयभृङ्गाः तान् भाष्यवित्तकगुरून् प्रणमामि मूर्ध्ना ॥ ४ ॥
पदादिवृन्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयाऽऽरभे ॥ ५ ॥
उत्तमज्ञयतिविरचिता पञ्चपादिकाव्याख्या वक्तव्यकाशिका
॥ श्रीगणाधिपतये नमः ॥
॥ श्री सरस्वत्यै नमः ॥
॥ श्री गुरुभ्यो नमः ॥
॥ हरिः ओं ॥
यदध्यासाज्जगच्चित्रमस्ति भाति प्रियं भवेत् ।
तस्मै सत्यचिदानन्दपूर्णब्रह्मात्मने नमः ॥ १ ॥
यन्नामश्रवणाद्भीताः वादिनो वनगोचराः ।
तस्मै ज्ञानोत्तमार्याय भक्त्या नित्यं नमो नमः ॥ २ ॥
ज्ञानोत्तमार्यशिष्योऽहमुत्तमज्ञसमाह्वयः ।
वक्तव्यकाशिकां पञ्चपादिकायाः करोमि वः ॥ ३ ॥
प्रारिप्सितस्य ग्रन्थस्याविघ्नेन परिसमाप्तिप्रचयगमनादिदृष्टप्रयोजनाय शिष्टाचारपरिपालनाय निर्मितिनिमित्तादृष्टप्रयोजनाय च मुखतः इष्टदेवतां नमस्करोति, विषयप्रयोजने तु सङ्क्षेपतो दर्शयति -
अनाद्यानन्देति ॥
नमस्कार्यस्य ब्रह्मणः प्रमेयत्वप्रमेयत्वाद्योतनायेतिद्योतनाय पुरुषार्थरूपानन्दत्वेन ब्रह्म विशिनष्टि -
आनन्देति ।
आनन्दस्य क्षणिकत्वादात्यन्तिकपुरुषार्थत्वाभावात् प्रसिद्धत्वादपूर्वत्वाभावाच्च श्रुतितात्पर्यविषयत्वाभावः प्राप्त इत्याशङ्क्य अनाद्यपरिच्छिन्नानन्दस्यालौकिकत्वेनापूर्वत्वात् आत्यन्तिकपुरुषार्थत्वाच्च तात्पर्यविषयत्वमित्याह
अनादीति ।
कथमानन्दस्यानादित्वादिसिद्धिरिति नाशङ्कनीयम् । आनन्दे जन्मपरिच्छेदादिप्रतिभासस्य वर्णेषु दैर्घ्यादिप्रतिभासवदौपाधिकधर्मविषयत्वेनाभासत्वात् । एवम्भूतब्रह्मानन्दो मोक्षोऽवगतोऽनवगतो वा ? अनवगतश्चेत् गृहमध्ये चिरनिहिताज्ञातघटवत् पुरुषार्थो न स्यात् । अवगतत्वेऽपि जन्यज्ञानेनापरोक्षत्वाय जनकेन्द्रियस्य तदाधारभूतदेहस्य तदाधारभूतान्नपानादिजगतोऽवस्थानप्रसङ्गात् मोक्षासम्भवः इत्याशङ्क्य, सुखापरोक्ष्यस्य पुरुषार्थत्वादेव केवलव्यतिरेकशून्यस्य जन्यापरोक्ष्यस्याप्रयोजकत्वात् ज्ञानस्य भावत्वेनापरोक्ष्यमित्याह
ज्ञानमिति ॥
ज्ञानस्य क्षणिकत्वात् परिच्छिन्नत्वादनाद्यपरिच्छिन्नानन्दस्वरूपत्वं न स्यादित्याशङ्क्य क्षणिकत्वादीनामौपाधिकत्वेनाभासत्वात् ज्ञानं कूटस्थमित्याह -
कूटस्थेति ।
ईश्वरानन्दस्यानादित्वे अपरिच्छिन्नत्वे स्वसत्तायां स्फुरणाव्यभिचारित्वेन ज्ञानरूपत्वेऽपि कदाचित्कादाचिदिति ज्ञानबाध्यत्ववत् इहापि बाध्यत्वं स्यादित्याशङ्क्य ईश्वरानन्दस्य मायोपाधौ प्रतिबिम्बितत्वेन तदैक्याध्यासादुपाधिबाधया प्रतिबिम्बितस्यापि बाधोऽस्तु मोक्षानन्दस्य तु बाध्योपाध्येकत्वाध्यासाभावादबाध्यत्वमित्याह -
सदिति ।
तत्त्वस्य प्रतिप्रतिपादार्थमितिपदार्थं भिन्नत्वात् परिच्छिन्नत्वाच्चापरिच्छिन्नाद्वयानन्दं प्रति स्वरूपत्वमयुक्तमित्याशङ्क्य सति भेदादिप्रतिभासस्यौपाधिकभेदाभासविषयत्वेनान्यथासिद्धत्वात् सदनन्तमित्याह
सदनन्तेतिसनन्तेति ।
सच्चिदानन्दानां प्रत्येकमखण्डत्वेऽपि कालाकाशादिवदन्योन्यं भिन्नत्वादनित्यत्वमाअनित्याशङ्क्येति शङ्क्य भेदस्याभासत्वाद्वस्तुत ऐक्यमेवेत्याह -
आत्मन इति ।
एवम्भूतस्य वस्तुनः संसारावस्थायां योग्यत्वे सत्यनुपलम्भात् अनन्तसच्चिदानन्दात्मकवस्तुविपरीत परिच्छिन्नासत्यजडहेयप्रपञ्चस्यावभासमानत्वाच्चैवम्भूतवस्तु न भवतीत्याशङ्क्य द्वैतजालस्याभूतस्यापरमार्थस्यैवम्भूते वस्तुनि कल्पितत्वात् सवितृप्रादेशस्येवावभासमानत्वेअवभासमानत्व इति स्वस्मिन् कल्पितविरुद्धप्रपञ्चेन छन्नत्वादवभासमानस्यापि वस्तुनोऽप्रकाशमानत्वं च न विरुद्ध्यत इत्याह –
अभूतद्वैतजालायेति ।
संसारावस्थायां वस्तुनः प्रपञ्चात्मत्वेऽपि मोक्षकाले साधनेन निवर्ततामिति वाऽशङ्क्य ज्ञाननिवर्त्यत्वात् पूर्वमपि वस्तुनः प्रपञ्चात्मत्वंप्रपञ्चात्मत्व इति नास्तीत्याह –
अभूतद्वैतजालायेति ।
वस्तुनः प्रपञ्चात्मत्वाभावे प्रपञ्चपञ्चसाक्षित्वमितिसाक्षित्वं हेतुमाह -
साक्षिण इति ।
एवम्भूते वस्तुनि किं प्रमाणमित्यपेक्षायां ब्रह्मशब्दप्रयोगानुपपत्तिः प्रमाणमित्याह -
ब्रह्मण इति ।
कथं विषयप्रयोजने प्रदर्श्येते इति - श्रुणु - अनाद्यानन्दकूटस्थज्ञानानन्दं सदिति तत्पदार्थं निर्दिशति । आत्मन इति त्वम्पदार्थं निर्दिशति । अभूतद्वैतजालायेति तत्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिण इति त्वम्पदार्थस्य शोधितरूपं निर्दिशति । साक्षिणे ब्रह्मण इति सामानाधिकरण्येन ब्रह्मात्मैक्यलक्षणविषयं दर्शयति |
नमः श्रुतिशिरःश्रुतिपर इति पद्मेत्यादि - मार्तण्डमूर्तय इत्यन्तेन ।
श्रीवेदव्यासभगवतः श्रवणादिपौष्कल्यं दर्शयति । मार्तण्डस्य मूर्तिरिव मूर्तिर्यस्यासौ मार्तण्डमूर्तिः तस्मै इति निर्वचनम् । उपनिषदां निर्णये तच्छक्तितात्पर्यविषयविशिष्टलक्षणविकसने च गुरुतरा अस्य मूर्तिरित्यर्थः ।
कृच्छ्रचान्द्रायणादितपसां पुष्कलत्वमाह –
बादरायणसंज्ञायेति ।
बदरा यस्मिन् सन्ति स देशो बादरः, तादृशदेशोऽयनं स्थानं भवति यस्य स आचार्यो बादरायणः, सैव संज्ञा अस्येति निर्वचनम् ।
मननपौष्कल्यमाह -
मुनय इति ।
मननान्मुनिस्तन्निपुण इत्यर्थः ।
शमदमादिपूर्वकनिदिध्यासनसम्पन्न इत्याह -
शमवेश्मन इति ।
शम एवास्य वेश्मेति शमवेश्मा, शमस्य असावेव वा वेश्मेति शमवेश्मेतीति वा निर्वचनम् ।
नमामीति श्लोकः भाष्यकारस्य परमेश्वरेण विरुद्धविशेषाभिधायित्वेन योज्यः ।
अभोगिपरिवारसम्पदमिति ।
देवस्येव सम्भोगरताः सर्पा वा अस्य न परिवारसम्पदित्यर्थः ।
निरस्तभूतिमिति ।
देवस्येव भसितमणिमाद्यैश्वर्यं वा अस्य नास्तीत्यर्थः ।
अनुमार्धविग्रहमिति ।
देवस्येवास्योमार्धविग्रहत्वं न भवति । अनुमानमस्य विग्रहेऽर्धं भवति श्रुतिश्चार्धभागेश्रुतिश्चापबाधे इति भवतीति चार्थः ।
अनुग्रमिति -
नामतोऽर्थतश्च देववदुग्रो न भवतीत्यर्थः ।
उन्मृदितकाललाञ्छनमिति -
देववदस्य कण्ठे कालं (लाञ्छनं) कार्ष्ण्यं नास्ति । अनुक्तिदुरुक्त्यादिकालमस्य कण्ठे नास्तीति वार्थः ।
विना विनायकंविनायकामादेव इति
देववदसौ विनायकसहितो न भवति । विनाकृताः निराकृताः विनायकाः बौद्धा येनासौ विना विनायक इति वा निर्वाहो द्रष्टव्यः ।
यद्वक्त्रेति श्लोकोऽपि पञ्चपादिकाकारस्य भाष्यकारशिष्यत्वं प्रशिष्यत्वं वाङ्गीकृत्य, शिष्यत्वपक्षेष्यत्वपक्षे इति भाष्यकारनमस्कारपरत्वेन, प्रशिष्यत्वपक्षे स्वगुरुनमस्कारपरत्वेन च योज्यः । भाष्यवित्तकवित्तव इतिगुरूनिति पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषां ते भाष्यवित्तकाः तेषां भाष्यवित्तकानां गुरुः भाष्यकारो भाष्यवित्तकगुरुः तान् भाष्यवित्तकगुरूनिति शिष्यत्वपक्षे निर्वाहः । प्रशिष्यत्वपक्षे अस्य पदस्य वित्तमेव वित्तकम्, भाष्यमेव वित्तकं येषामस्मद्गुरूणां तेअस्य - वित्तकगुरवे इति अस्माकं भाष्यवित्तकगुरवः, तान् भाष्यवित्तकगुरूनिति निर्वाहः । यच्छब्दोऽपि भाष्यकारपरत्वेन स्वगुरुपरत्वेन च योजयितव्यः । स्वगुरुपरत्वपक्षे भाष्यकारेण भाष्यस्योत्पत्तिरेव केवलम् , अस्मद्गुरुभ्यो जन्म भवति पुनर्जातमिव प्रवृद्धं भवतीति प्रतिलब्धजन्मेति शब्दो योजयितव्यः ।
प्रत्याशमिति ।
प्रतिदिक्षु स्थित्वेत्यर्थः । उन्मुखत्वं नाम श्रद्धाकरणम्, विनीतत्वं नाम, शास्त्रेणाप्रतिषिद्धअप्रतिष - - - - यत्नवामेतियत्नवान् अव्याजेन श्रवणं त्वविहायोपासनादिपूर्वकं शुश्रूषां कृत्वैव कृत्वै नै व इति श्रवणं द्रष्टव्यम् ।
पदादिवृन्तेतिवृक्षेति श्लोकेन चिकीर्षितं निर्दिशति । तत्र पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्य समाधानंइदं न दृश्यते व्याख्यानं पञ्चलक्षणम् ॥ इति व्याख्यानलक्षणमाहुः । तत्र भाष्यस्यापि पदच्छेदादि विषयत्वेन पञ्चलक्षणं व्याख्यानं कर्तुं शक्यते । अतो व्याख्येयं भाष्यमिति द्योतनाय भाष्यं विशिनष्टि -
पदादीति ।
पादत्रयेण तत्र पदच्छेदः पदार्थोक्तिः विग्रह इति त्रितयविषयत्वं भाष्यस्य दर्शयति
पदेत्यारभ्य बिभर्तीत्यन्तेन ।
अत्रादिपदेन पदार्थवृन्दसमासवृन्दे च भाष्ये विद्येते इति दर्शयति इति ? `इति’ इत्याधिकं दृश्यते
वाक्ययोजना विषयत्वमाह -
प्रसन्नमिति ।
आक्षेपसमाधानविषयत्वमस्तीत्याह -
गम्भीरमिति ।