पञ्चपादिका
वक्तव्यकाशिका
 

युष्मदस्मत्प्रत्ययगोचरयोःइत्यादिअहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तं भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयतिएतच्चतस्मात् ब्रह्म जिज्ञासितव्यम्इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः

ननु भाष्यव्याख्यामारभ इत्युक्तमयुक्तम् ; भाष्यलक्षणस्य सूत्रार्थप्रतिपादकत्वस्याभावादेव भाष्यत्वाभावात् युष्मदस्मदित्यादेरिति तत्राह -

युष्मदस्मदिति ।

युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं कस्माद् भाष्यं भवेदित्यपेक्षायामाह -

शास्त्रस्य विषयं प्रयोजनं च प्रतिपादयतीति ।

सूत्रसन्दर्भलक्षणशास्त्रस्य यद्विषयप्रयोजनंयम् इति यत् तस्य हेतुः बन्धस्याध्यासात्मकत्वं तदभिधानेन विषयप्रयोजने तात्पर्येण प्रतिपादयतीत्यर्थः ।

बन्धस्य अध्यासात्मकत्वं हेतुत्वेनोच्यमानमसिद्धं कथं सिद्ध्यहेतुवाचकं शास्त्रीयविषयप्रयोजनपरंअत्र त्रुटिः दृश्यते भाष्यं भवेदित्याशङ्क्यास्यानर्थहेतोरित्यनेनैकवाक्यत्वात्भवेतीति मध्यवर्तिलक्षणासम्भावनाप्रमाणभाष्यत्रयेण सिद्धमध्यासं हेतुत्वेनानूद्य विषयादिसाधकं भवतीत्यभिप्रेत्याह -

अस्य अनर्थहेतोरिति । हेतोरित्यत्र तो इति न दृश्यते

पर्यवस्यत्अनपर्यवस्यदिति

अनेन एकवाक्यतां गच्छत् इत्यर्थः ।

विषयादिसाधकत्वं भवतु, तथापि भाष्यत्वं न सिद्ध्यति, सूत्रार्थप्रतिपादकत्वाभावात् , इत्याशङ्कायां तन्निरासाय आह -

`प्रयोजनं च सूत्रेण सूत्रिते’ इति ।

`अथातो ब्रह्मजिज्ञासा’ इति सूत्रेण सूत्रिते इत्यर्थः ।

विषयप्रयोजने सूत्रार्थत्वेन न दृश्येते, जिज्ञासाकर्तव्यताया एव प्रतीतेरिति - तत्राह -

अर्थात् सूत्रिते इति ।

किमत्र प्रमाणमिति - तत्राह –

प्रथमसूत्रेणेति ।

प्रथमसूत्रत्वात् सूत्रेस्त्रे इति श्रोतृप्रवृत्त्यङ्गत्वेन विषयप्रयोजने सूत्रिते इत्यर्थः ।

इति शब्दो यस्मादर्थे, यस्मात् प्रथमसूत्रेण सूत्रिते तस्मात् प्रतिपादयतीति । अर्थात् सूत्रिते चेद्विषयप्रयोजने तर्हि भाष्यकारेण साक्षादेव प्रतिपादनीये, नत्वध्यासाभिधानमुखेनार्थात् प्रतिपादनीये इति - तत्राह –

एतच्चेति ।

एतद्विषयप्रयोजनद्वयमित्यर्थः ।

प्रदर्शयिष्यामपञ्चपादिकायामिदं न दृश्यते इति ।

भाष्यकारेणोक्तमिति प्रदर्शयिष्याम इत्यर्थः ।

भाष्यकारेणोक्तं चेत् अस्माभिरेव द्रष्टुं शक्यम् , किमिति भवद्भिः प्रदर्श्यत इत्याशङ्क्याह –

स्पष्टमिति ।

तर्हि भाष्यकारस्य अस्पष्टोक्तिलक्षणदूषणमुद्भावितं स्यादित्याशङ्क्य तैरपितेरपि इति स्पष्टं प्रदर्शितं वयंमयमिति दर्शयिष्याम इत्याह

स्पष्टतरमिति ।