बन्धस्याध्यासात्मकत्वं विषयप्रयोजनसिद्धिहेतुरिति सूत्रकारोऽप्यङ्गीकृत्य तमध्यासं स्वयमेव वर्णयिष्यति चेदित्याह –
यद्येवमिति ।
एतदेवेति ।
अध्यासविषयतद्गुणसारत्वादित्यादिसूत्रमित्यर्थः ।
अर्थविशेषोपपत्तेरिति ।
अर्थविशेषे तस्मिन् प्रमाणे च प्रतिज्ञाते सत्यविरोधायाध्यासवर्णनस्योपपत्तेरित्यर्थः ।
अत्र अर्थविशेषस्य प्रयोजनविशेषस्योपपत्तेरित्यर्थान्तरप्रतीतिं व्यावर्त्य विवक्षितमर्थं दर्शयति -
अर्थविशेषे हि समन्वय इति ।
अस्य अयमर्थः । प्रथमसूत्रेण ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थविशेषे ब्रह्मणि विचार्यत्वेन प्रतिज्ञाने ब्रह्म किं लक्षणकमित्याकाङ्क्षायां ‘जन्माद्यस्य यत’ब्र०सू० १.१.२ इति सूत्रेण ब्रह्मलक्षणे प्रतिपादिते एवंरूपे ब्रह्मणि किं प्रमाणमित्याकाङ्क्षायां ‘तत्तु समन्वयात्’ब्र०सू० १.१.४. इत्यादिसूत्रैर्वेदान्तवाक्येषु प्रमाणत्वेनोपन्यस्तेषु पश्चाद्वेदान्तानां प्रत्यक्षादिविरोधाशङ्कायां तन्निरासाय सूत्रकारेण विरोधलक्षणे अध्याससूत्रं प्रणेतव्यमिति ।
भाष्यकारवत् अर्थविशेषप्रतिज्ञां तत्र प्रमाणोपन्यासं च विना विरोधशङ्कानिरासार्थं सूत्रकारेणाप्यध्याससाधनमस्त्वित्याशङ्क्य भाष्यकारस्य सूत्रकारोऽर्थविशेषं प्रतिज्ञाय तत्र प्रमाणमवादीत् । ततस्तत्रविरोधशङ्कापरिहाराय भाष्यकारस्य अध्याससाधनं सम्भवति । तद्वत् सूत्रकारस्यान्येन केनचिदर्थविशेषे प्रमाणविशेषोपन्यासाभावात् अर्थविशेषं स्वयमेव प्रतिज्ञाय तस्मिन् प्रमाणमुपन्यस्य पश्चात् प्रमाणान्तरविरोधः परिहर्तव्य इत्याह -
प्रदर्शित इति ।
प्रथमसूत्रव्याख्यानकाले भाष्यकारस्याध्यासोपपादनं निर्मूलं स्यात् । प्रथमसूत्रेणाध्यासस्यानुपात्तत्वात् उत्तरव्याख्यानमिदमिति चायुक्तम् । तस्य पश्चाद्भावित्वमित्याशङ्क्याह -
भाष्यकारस्तु तत्सिद्धमिति ।
उत्तरसूत्रसिद्धमित्यर्थः ।
सूत्रसिद्धत्वात् तद्वर्णनं समूलं भवतु, अत्र वर्णनममूलमित्याशङ्क्य प्रथमसूत्रेणापि सूचितमित्याह -
आदिसूत्रेण सूचितमिति ।
आदिसूत्रस्यार्थत्वेनाध्यासो न दृश्यत इत्याशङ्क्याह -
सामर्थ्य इति ।
सामर्थ्येनापि सूचिते विषयप्रयोजने नाध्यास इत्याशङ्क्याह –
बलेनेति ।
सूत्रकारेणाध्यासस्य सूत्रितत्ववत् तद्व्याख्यात्रा भाष्यकारेणापि सूत्रितत्वमेव भविष्यति किमनेन वर्णनेन इत्याशङ्क्य, भाष्यकारत्वाच्छ्रोतृप्रवृत्त्यर्थं वर्णनीयमेवेत्याह -
भाष्यकारस्तु वर्णयतीतिवर्णति इति ।