पञ्चपादिका
वक्तव्यकाशिका
 
अपर आहननु अन्यसम्प्रयुक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्यइन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियतेसम्प्रयुक्तस्य दोषेण विशेषप्रतिभासहेतुत्वं करणस्य विहन्यतेतेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमःननु अनास्वादिततिक्तरसस्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यतेजन्मान्तरानुभूतत्वात् , अन्यथा अननुभूतत्वाविशेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेततस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे हेतुः ; कार्यगम्यत्वात् हेतुभावस्यएतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृतित्वतत्प्रमोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौउच्यतेकोऽयं स्मरणाभिमानो नाम ? तावत् ज्ञानानुविद्धतया ग्रहणम् हि अतिवृत्तस्य ज्ञानस्य ग्राह्यविशेषणतया विषयभावःतस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, ज्ञानानुविद्धम्तथा पदात् पदार्थस्मृतौ दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दार्थत्वप्रसङ्गात्तथा इष्टभूभागविषयास्मृतिः सेव्यःइति ग्राह्यमात्रस्था, ज्ञानपरामर्शिनीअपि भूयस्यः ज्ञानपरामर्शशून्या एव स्मृतयःनापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यतेअत एवोक्तम्अनाकारामेव बुद्धिं अनुमिमीमहेइतिअनाकाराम् अनिरूपिताकारविशेषाम् ; अनिर्दिष्टस्वलक्षणाम् इत्यर्थःअतो स्वतः स्मरणाभिमानात्मकतानापि ग्राह्यविशेषनिमित्तः स्मरणाभिमानः ; प्रमाणग्राह्यस्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमाणफलविषयमात्रावच्छिन्नफलत्वात्यः पुनः क्वचित् कदाचित् अनुभूतचरेस्मरामिइत्यनुवेधः, सः वाचकशब्दसंयोजनानिमित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानःतस्मात् पूर्वप्रमाणसंस्कारसमुत्थतया तद्विषयावभासित्वमात्रं स्मृतेः, पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत चेह पूर्वप्रमाणविषयावभासित्वमस्ति ; पुरोऽवस्थितार्थप्रतिभासनात् , इत्युक्तम्अतः अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः

अख्यातिवादीत्यर्थःआख्यातिवादी इति ; नत्वन्येतिनन्वन्यसम्प्रयुक्तेति ; प्रमोषस्त्विति ; इन्द्रियादीनामिति ; इन्द्रियदोषेणार्थस्य स्मृतिसमुद्बोधः क्रियत इति ; आदिगतदोषविशेषणार्थविशेषस्य स्मृतिसमुद्बोधःस्मृतिसबोधः इति क्रियत इति ; इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ; कस्यचिदेवेत्यवधारणेन ; ज्ञानकारणानामिति ; सम्प्रयुक्तस्य चेति ; विहन्यत इति ; तेनेति ; करणदोषादेव विवेकानवधारणादिति ; दूरस्थयोरिवेति ; उत्पन्नभ्रम इति ; पित्तदोषादिति ; अन्यथेति ; तस्मात् पित्तमेव हेतुरिति ; मधुराग्रहण इति ; कार्यगम्यत्वादिति ; एतेनेति ; न तावत् ज्ञानानुविद्धतयेति ; न ह्यतिवृत्तस्येति ; शुद्धमेवेति ; न ज्ञानानुविद्धमिति ; तथा च पदादिति ; नापि ग्राह्यविशेषनिमित्त इति ; अविकलानधिकस्येति ; फलनिमित्त इति ; प्रमाणफलेति ; यः पुनरिति ; क्वचिदिति ; कदाचिदिति ; यः पुनरिति ; स वाचकशब्दसंयोजनानिमित्त इति ; यथा सास्नादीति ; अन्यथाख्यातिवादी तस्मादिति ; अवभासः ; अधिकोंऽशः ; न चेहेति ; किं मायेति ; किन्त्वध्यास इति ;

अपर इति

अख्यातिवादीत्यर्थःआख्यातिवादी इति ।

विप्रतिपन्नं रूप्यज्ञानं स्मृतिर्भवितुमर्हति, अन्यसम्प्रयुक्ते चक्षुषि समनन्तरमेव संस्कारजन्यान्यविषयज्ञानत्वात् प्रसिद्धगवादिस्मृतिवदित्यनुमानमाह –

नत्वन्येतिनन्वन्यसम्प्रयुक्तेति ।

रूप्यज्ञानं स्मृतिर्न भवति, स्मरणाभिमानशून्यत्वात् ग्रहणवदित्यनुमिते हेत्वसिद्धिपरिहाराय रजतज्ञानं स्मरणाभिमानशून्यं स्मरणाभिमानस्मरणभिमानवत्वे गृह्यमाण स्वार्थविवेचकत्वप्रसङ्गात् इतिवत्वे गृह्यमाणात् , स्वार्थविवेचकत्वप्रसङ्गात् , सम्प्रतिपन्नस्मृतिवदिति चानुमिते अप्रमुषितस्मरणाभिमानत्वंस्मरणाभिमात्वमिति विवेचकत्वे प्रयोजकं न तु स्मरणाभिमानवत्वम् । इह तु प्रमोषादविवेचकत्वमित्याह –

प्रमोषस्त्विति ।

संस्कारात् भ्रमोत्पत्तिश्चेत् सदा सर्वसंस्कारसद्भावात् सदा सर्वभ्रमः स्यादित्याशङ्क्य उद्बुद्धसंस्कारः कारणम्, उद्बोधश्च संस्कारविशेषस्यैवेत्याह –

इन्द्रियादीनामिति ।

स्मर्यत अनेनेति व्युत्पत्त्या स्मृतिरिति संस्कार उच्यते । शुक्तीदमंशरूप्ययोः अविनाभावादिसम्बन्धाभावात् इदमंशदर्शनेन संस्कारोद्बोधो न सम्भवतीत्याशङ्क्य दोषः संस्कारोद्बोधक इत्याह -

इन्द्रियदोषेणार्थस्य स्मृतिसमुद्बोधः क्रियत इति ।

इन्द्रियत्वगतदोषस्य अन्तःकरणगतसंस्कारेण सम्बन्धाभावान्नोद्बोधकत्वमित्याशङ्क्य इन्द्रियादीनामित्यत्र आदिशब्दोपात्तविषयगतसादृश्यदोषविशेषेण रूप्यप्रतियोगिकत्वेन रूप्यसंस्कारसम्बन्धिना सहितेन्द्रियदोष उद्बोधक इत्याह -

आदिगतदोषविशेषणार्थविशेषस्य स्मृतिसमुद्बोधःस्मृतिसबोधः इति क्रियत इति ।

सादृश्यदोषसहितेन्द्रियदोषः संस्कारोद्बोधकश्चेत् शुक्तिसदृशशुक्त्यन्तरसंस्कारोद्बोधकः स्यात् , इत्याशङ्क्य इन्द्रियादीनामित्यत्रदीनमित्यत्र बहुवचनेन निर्दिष्टप्रमातृगतरागदोषोऽपि नियामक इत्याह -

इन्द्रियादीनां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषणस्य स्मृतिसमुद्बोधः क्रियत इति ।

रागदोषस्य सुवर्णसंस्कारोद्बोधकत्वं स्यादित्याशङ्क्य सादृश्यदोषसाहित्यात् रजतसंस्कारमेवोद्बोधयतीत्याह –

कस्यचिदेवेत्यवधारणेन ।

ज्ञानकारणगतदोषवत् ज्ञानं संस्कारस्यापि उद्बोधकं भवति इति मत्वाह –

ज्ञानकारणानामिति ।

इदमंशविषयग्रहणस्य स्वार्थविवेचकत्वे कारणमाह -

सम्प्रयुक्तस्य चेति ।

विहन्यत इति ।

चक्षुषो विशेषबोधनशक्तिःविशेषबोधो न शक्तिरिति प्रतिबध्यत इत्यर्थः ।

संसर्गव्यवहारहेतुत्वेन संसर्गज्ञानापेक्षेत्याशङ्क्य निरन्तरोत्पत्तिरेव हेतुरित्याह –

तेनेति ।

घटपटज्ञानयोर्निरन्तरोत्पन्नयोर्घटे एव पट इति सामानाधिकरण्यव्यवहारहेतुत्वाभाववदिहापि न स्यादित्याशङ्क्य विशेषमाह -

करणदोषादेव विवेकानवधारणादिति ।

इदं रजतमित्यभाइदं रजतमित्यभावात् इतिदिति संसर्गप्रत्ययः प्रत्यभिज्ञायत इति, नेत्याह –

दूरस्थयोरिवेति ।

उत्पन्नभ्रम इति ।

व्यवहारमात्रमित्यर्थः ।

बालकस्य तिक्तावभासो नास्तीत्याशङ्क्य थूत्कारादिप्रवृत्तिभिर्निश्चितपित्तदोषादवभासः कल्प्यत इत्याह –

पित्तदोषादिति ।

जन्ममरणवेदनया संस्कारस्य नष्टत्वात् जन्मान्तरीयसंस्कारात् स्मृतिर्न सम्भवतीत्यत्राह –

अन्यथेति ।

जन्मान्तरानुभूतं सर्वं किमिति न स्मर्यत इति, दोषबलादित्याह -

तस्मात् पित्तमेव हेतुरिति ।

इतरस्मृतिं विहाय तिक्तस्यैव स्मरणहेतुरित्यर्थः

पित्तसद्भावे गमकमाह -

मधुराग्रहण इति ।

मधुराग्रहणेऽपि प्रमाणं थूत्कार एवेति बहिरेव द्रष्टव्यम् ।

दोषस्य किमिति सर्वास्मारकत्वमिति तत्राह –

कार्यगम्यत्वादिति ।

अतत्वे तत्त्वज्ञानमित्यख्यातिवादिनापि संसर्गज्ञानं भ्रमत्वेनोक्तमिति, नेत्याह –

एतेनेति ।

कोऽयं स्मरणाभिमानो नाम, स्मृतेरन्योऽरन्यो न न्योन्यानन्योवेतिनन्यो वेति विकल्प्य केनापि प्रकारेण न सम्भवतीति आक्षिपति, अथवा किं स्मरणेनाभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मार्यगतः कश्चित् स्मरणाभिमान इत्युच्यते । किं वा स्मरणेऽभिमन्यत इति स्मरणाभिमान इति व्युत्पत्त्या स्मृतिगतविशेषः कश्चित् , उत स्मरामीत्यभिमननं स्मरणाभिमान इति स्मृतेर्ज्ञानान्तरसम्भेद इति पृच्छति । स्मार्यगतविशेषः स्मरणाभिमान इति पक्षमनूद्य निषेधति -

न तावत् ज्ञानानुविद्धतयेति ।

अयमर्थः, ज्ञानानुविद्धतया ग्रहणमित्यनेन स्मार्यगतविशेषं वदता ज्ञाप्तिर्ज्ञा(प ? )नमिति व्युत्पत्त्या स्मर्यमाणे पूर्वानुभवसम्भेद उच्यते, किं वा ज्ञायत इति व्युत्पत्त्या पूर्वानुभूतव्यक्तिसम्भेद उच्यते, अथवा ज्ञायते अस्मिन्निति व्युत्पत्त्या पूर्वानुभवविषयावच्छेदकदेशकालान्तरसम्भेद इति विकल्प्य न तावत् देशकालव्यक्तिसम्भेदः स्मरणाभिमानतया विवेचकः, सोऽयमिति भ्रमविवेचकत्वाभावात् । पूर्वानुभवसम्भेदस्तु स्वयमेव स्मार्ये नास्तीति ।

न ह्यतिवृत्तस्येति ।

स्मृतिहेतुसंस्काराधायकपूर्वज्ञानस्य स्वविषयेण सह स्वात्मानं प्रति विषयत्वं नास्ति, अतो न स्मृतिविषयत्वमित्यर्थः ।

शुद्धमेवेति ।

स्वहेतुपूर्वानुभवसम्भेदरहितमेवेत्यर्थः ।

पूर्वानुभवनिमित्तव्यवहृतत्वं स्मृतिविषयत्वे प्रयोजकं न तु पूर्वज्ञानकर्मत्वम् । अतः पूर्वज्ञानज्ञेययोः सह पूर्वज्ञानेनैव व्यवहृतत्वात् पूर्वज्ञानस्यापि अर्थात् स्मृतिविषयत्वं स्यादित्याशङ्क्य, पूर्वज्ञाननिमित्तव्यवहृतत्वं न स्मृतिविषयत्वे प्रयोजकम् , आत्मनि व्यभिचारात् । आत्मा हि स्मृत्याश्रयतया अपरोक्षोऽवभासते, अतः पूर्वानुभवकर्मत्वमेव स्मृतिविषयत्वे प्रयोजकमिति मत्वा आह -

न ज्ञानानुविद्धमिति ।

अर्थज्ञानसमनन्तरम् अर्थनिष्ठप्राकट्यलिङ्गेन ज्ञातोऽर्थ इति अनुमानज्ञानं ज्ञानसम्भिन्नार्थविषयं जायते । तज्जन्या स्मृतिरपि ज्ञानसम्भिन्नार्थविषया जायते, नार्थमात्रविषयेत्याशङ्क्य स्मृतिः न ज्ञानसम्भिन्नार्थविषया, किन्तु केवलार्थविषयेति निर्णयसिद्ध्यर्थं केवलार्थविषयस्मृतिमुदाहरति -

तथा च पदादिति ।

उत्तमवृद्धेन क्रमेण उच्चार्यमाणपदादित्यर्थः ।

गवा यजेतेत्युक्ते पूर्वानुभवविशिष्टगोरेव शब्दशक्तिविषयतया सम्बन्धित्वेन प्रतिसम्बन्धिप्रतिबन्धि इतिगोपदोपलब्धिजन्यस्मृतिविषयत्वमस्ति, अन्विताभिधानवादिनामित्यर्थः । स्मृतिर्नित्यानुमेयत्वात् प्रत्यक्षसिद्धविशेषाभावेऽपि स्मृत्यनुमापकलिङ्गगतविशेषात् स्मृतिगतविशेषोऽनुमेयः स्यात् इत्याशङ्क्य लिङ्गगतविशेषासम्भवमाह -

नापि ग्राह्यविशेषनिमित्त इति ।

प्रमाणग्राह्यात् स्मृतिग्राह्यगतो यो विशेषः न तन्निमित्तस्मरणाभिमानानुमेय इत्यर्थः ।

प्रमाणग्राह्यस्यैव गृह्यमाणत्वादित्युक्ते ‘स घट’ इति स्मृतौ, ‘अयं घट’ इति प्रत्यक्षे प्रतीतायंशब्दार्थो विकलःविकल्प इति, स इति शब्दार्थोऽधिक इति न प्रमाणग्राह्यस्यैव स्मृतिविषयत्वमित्याशङ्क्य अयंशब्दार्थो नाम देशकालौ, प्राकट्य स्वदेशकालयोरुपरि स्थितेरयंशब्दप्रयोगतच्छब्दार्थावपि तावेव प्राकट्योपरि देशकालयोः स्थितेः परोक्षत्वेन तच्छब्दप्रयोग इत्यर्थैक्यमेवेति मत्वाह -

अविकलानधिकस्येति ।

फलनिमित्त इति ।

ग्रहणफलात् स्मृतिफले विशेषभावात् तन्निमित्तस्मरणाभिमानोऽनुमेय इति च वक्तुं न शक्यमित्यर्थः ।

विषयभेदाद्धि फलभेदः । अत्र स्मृतिप्रमाणयोर्विषयघटाद्यर्थस्यैकत्वात् तदवच्छिन्नफलस्याप्येकत्वमित्याह –

प्रमाणफलेति ।

फलविषयेति फलावच्छेदकेत्यर्थः ।

’स्मृतेः तत् स्मरामि’ इति ज्ञानान्तरसम्भेदः स्मरणाभिमान इति पक्षे तस्य क्वचित् कदाचित् भावादेव सर्वस्मृतिष्वनन्वयात् न स्मरणाभिमानतया विवेचकत्वमित्याह -

यः पुनरिति ।

क्वचिदिति

अत्यन्तप्रिये अत्यन्तविस्मापके अत्यन्तद्वेष्ये चेत्यर्थः । ।

कदाचिदिति ।

विस्मापकत्वाद्युद्बोधकसद्भावे इत्यर्थः ।

अन्योन्यं गृहीतग्रहणग्राह्याच्च व्यावृत्ततया प्रतिपन्नस्मृतिस्मार्यस्मर्तृभिः स्ववाचकतत्स्मरामीति शब्दत्रयस्मृतौ स्मृतशब्दोल्लिखिततया ‘तत् स्मरामि’ इति ज्ञानस्य पश्चादुत्पत्तेः न तस्य स्मरणाभिमानतया विवेचकत्वमित्याह -

यः पुनरिति ।

क्वचिदिति अतिदूषणान्तरमाह -

स वाचकशब्दसंयोजनानिमित्त इति ।

उपलब्धवाच्यस्वरूपस्यैव स्वशब्दस्मारकत्वम्, न तु व्यावृत्ततयोपलब्धस्येत्याशङ्क्य विशेषशब्दस्मारकत्वाय भेदोपलब्धिरपि अपेक्षितेत्याह -

यथा सास्नादीति ।

आकृतौ प्रतीतायामिति भावः ।

ग्रहणात् स्मरणस्य भेदको विशेषः संस्कारजन्यत्वं परोक्षतयावभासित्वं चेति त्वया वक्तुं न शक्यते, तस्य संस्कारजन्यत्वस्य स्मृतिप्रतिपत्तिसमकालं प्रतिपन्नतया विवेचकत्वायोगात् न स्मरणाभिमानत्वम्, परोक्षतयावभासित्वस्याप्यनुमानेऽपि भावान्न स्मरणाभिमानत्वमित्यभिप्रेत्याह -

अन्यथाख्यातिवादी तस्मादिति ।

अवभासः ।

अवमतभासः परोक्षावभास इत्यर्थः ।

अधिकोंऽशः ।

ग्रहणाधिकोंऽश इत्यर्थः ।

यदुक्तं - विशेषवत्तया रूप्यज्ञानस्य स्मृतित्वमस्त्वित्यख्याति शङ्कायामाह -

न चेहेति ।

किं मायेति ।

अन्यथाख्यातिरित्याहमायेति न्यथा -

किन्त्वध्यास इति ।