पञ्चपादिका
वक्तव्यकाशिका
 

ननु एवं सति वैपरीत्यमापद्यते, रजतमवभासते शुक्तिरालम्बनम् इति, नैतत् संविदनुसारिणाम् अनुरूपम्ननु शुक्तेः स्वरूपेणापि अवभासने संवित्प्रयुक्तव्यवहारयोग्यत्वमेव आलम्बनार्थः, सैव इदानीं रजतव्यवहारयोग्या प्रतिभासते, तत्र किमिति आलम्बनं स्यात् ? अथ तथारूपावभासनं शुक्तेः पारमार्थिकं ? उताहो ? यदि पारमार्थिकं, नेदं रजतमिति बाधो स्यात् नेयं शुक्तिः इति यथाभवति बाधःतस्मात् एष पक्षः प्रमाणवान्अथ शुक्तेरेव दोषनिमित्तो रजतरूपः परिणाम उच्यते, एतदप्यसारम् ; हि क्षीरपरिणामे दधनिनेदं दधिइति बाधो दृष्टः ; नापि क्षीरमिदम् इति प्रतीतिः, इह तु तदुभयं दृश्यतेकिञ्च रजतरूपेण चेत् परिणता शुक्तिः, क्षीरमिव दधिरूपेण, तदा दोषापगमेऽपि तथैव अवतिष्ठेतननु कमलमुकुलविकासपरिणामहेतोः सावित्रस्य तेजसः स्थितिहेतुत्वमपि दृष्टं, तदपगमे पुनः मुकुलीभावदर्शनात् , तथा इहापि स्यात् , ; तथा सति तद्वदेव पूर्वावस्थापरिणामबुद्धिः स्यात् , बाधप्रतीतिः स्यात्अथ पुनः दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पादः इति मन्येत, एतदपि सम्यगिव ; कथम् ? यस्याः प्रतीतेः तदुत्पादः तस्यास्तावत् तत् आलम्बनम् ; पूर्वोत्तरभावेन भिन्नकालत्वात् , प्रतीत्यन्तरस्य ; पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गात्ननु किमिति पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गः ? दुष्टसामग्रीजन्मनो हि प्रतीतेः तत् आलम्बनम् , मैवम् ; प्रतीत्यन्तरस्यापि तद्विधस्य रजतान्तरोत्पादनेनैव उपयुक्तत्वात् प्रथमप्रत्ययवत्अतः अनुत्पन्नसममेव स्यात्तदेवं पारिशेष्यात् स्मृतिप्रमोष एव अवतिष्ठेत

अन्याकारज्ञानमन्यालम्बनं वा वस्तुनो वस्त्वन्तरात्मनावभासो वा अन्यथाख्यातिरिति विकल्प्य प्रथमं दूषयति -

नन्वेवं सति वैपरीत्यमिति ।

रजज्ञानेतिरजतज्ञानगतरजताकारस्य शुक्तिका बिम्बभूतेत्यालम्बनशब्दस्यैकोऽर्थः । रजतजात्याकारज्ञानस्य शुक्तिव्यक्तेः पर्यवसानभूमित्वमन्योऽर्थः । तदुभयं यथाज्ञानमर्थमभ्युपगच्छतां वैपरीत्यमापद्यत इति भावः ।

ज्ञानगताकारं प्रति बिम्बत्वं पर्यवसानभूमित्वं वा नालम्बनत्वम्, किन्तु ज्ञानप्रयुक्तव्यवहारविषयत्वं तदालम्बनत्वमिति चोदयति -

ननु शुक्तेः स्वरूपेणापीति ।

अत्र शुक्तिधर्मिणोधर्मिणी इति रजतज्ञानालम्बनं भवितुमर्हति, तज्ज्ञानप्रयुक्तव्यवहारविषयत्वात् , सम्प्रतिपन्नवदित्यनुमानमुक्तं द्रष्टव्यम् ।

द्रव्यज्ञानाद् द्रव्ये आदीयमाने गुणोऽप्यादीयते, तथापि न द्रव्यज्ञानस्य गुणालम्बनत्वं दृष्टमित्यभिप्रायेण चोद्यमानोचोद्यमनादृत्य ? दृश्यवस्तुनो वस्त्वन्तरात्मनावभासोऽन्यथाख्यातिरिति पक्षं विकल्प्य दूषयति -

अथ तथारूपावभासनमिति ।

रूप्याख्यवस्त्वन्तरात्मनावभासनमित्यर्थः । तथारूपावभासनं शुक्तेः पारमार्थिकमुत नेत्यन्वयः ।

असतः ख्यात्ययोगात् सत्संवित्तिविरोधतोऽनाश्वासाच्च द्वितीयविकल्पोऽनुपपन्न इति मत्वा आह -

आहो इति ।

विरोधिशुक्त्यात्मत्वज्ञानाद्बाध इत्याशङ्क्य इदं रजतमिति रजतात्मत्वज्ञाने शुक्त्यात्मत्वस्य यथा न बाधः तद्वदबाध इत्याह -

नेयं शुक्तिरिति ।

यथेति ।

अन्यथा परिणते वस्तुनि ज्ञानमन्यथाख्यातिरिति विकल्पविकल्प्यमनूद्यमनूद्य दूषयति -

अथ शुक्तेरेवेति ।

विरोधिशुक्त्यात्मत्वज्ञाने नेदं रजतमिति बाधः स्यादित्याशङ्क्य क्षीरस्य दधिरूपपरिणामे पुनर्विरोधिक्षीरात्मत्वज्ञानं यथा न भवति तथा विरोधिशुक्त्यात्मत्वज्ञानमपि न भवेदित्याह -

नापि क्षीरमिदमितीति ।

रजतस्य शुक्तिपरिणामत्वं मायावादिना त्वया अङ्गीकृतमित्याशङ्क्य अविद्याविशिष्टशुक्तिपरिणामत्वाभ्युपगमात् अविद्यापाये रूप्यंमत्राक्षेपगच्छति इति मत्पक्षेऽपगच्छति, त्वत्पक्षे तु शुक्तिपरिणामत्वमेवेति नापगच्छेदिति मत्वा आह –

क्षीरमिवेति ।

नाल्पद्वारेण इतिनालद्वारेण पद्मदलं प्रविष्टा जलबिन्दवःपद्मान् इति पद्मानां मुकुलीभावं जनयन्ति, आदित्यकिरणेन पीतत्वात् विरलभूतत्वात् बिन्दुभिर्दलानां गढता इतिगाढतालक्षणविकासो भवति । पुनरपि दले अब्बिन्दूनामनुप्रवेशात् दलानां पीनत्वसत्वेन मुकुलता भवति । अतो विरोधिमुकुलपरिणामाद्विकासविच्छेदः, नत्वादित्यकिरणापायादिति परिहारं हृदिस्थमनुक्त्वा परिणामे दूषणान्तरमाह -

तथा सतीति ।

मुकुलमेव विकसितं भवतीति प्रतीतिवत् शुक्ती रूप्यं भवतीति प्रतीतिः स्यादित्यर्थः ।

रजतस्य शुक्तिपरिणामत्वं मा भूत् बुद्धिपरिणापरिणामित्वमितिमत्वं स्यादित्यन्यथाख्यातिवादिविशेषः आत्मख्यातिवादी वा शङ्कते -

अथ पुनरिति ।

भिन्नकालत्वादिति ।

एककालत्वाभावादित्यर्थः ।

प्रतीत्यन्तरगतोत्पादनव्यापारस्य रजतान्तरोत्पत्तावुपयुक्तत्वेऽपि बोधनव्यापारेण पूर्वरजतं प्रति बोधकमस्त्विति - नेत्याह –

प्रथमप्रत्ययवदिति ।

पक्षान्तरं निराकृत्य अख्यातिवादी स्वपक्षमुपसंहरति -

तदेवमिति ।