अन्याकारज्ञानमन्यालम्बनं वा वस्तुनो वस्त्वन्तरात्मनावभासो वा अन्यथाख्यातिरिति विकल्प्य प्रथमं दूषयति -
नन्वेवं सति वैपरीत्यमिति ।
रजज्ञानेतिरजतज्ञानगतरजताकारस्य शुक्तिका बिम्बभूतेत्यालम्बनशब्दस्यैकोऽर्थः । रजतजात्याकारज्ञानस्य शुक्तिव्यक्तेः पर्यवसानभूमित्वमन्योऽर्थः । तदुभयं यथाज्ञानमर्थमभ्युपगच्छतां वैपरीत्यमापद्यत इति भावः ।
ज्ञानगताकारं प्रति बिम्बत्वं पर्यवसानभूमित्वं वा नालम्बनत्वम्, किन्तु ज्ञानप्रयुक्तव्यवहारविषयत्वं तदालम्बनत्वमिति चोदयति -
ननु शुक्तेः स्वरूपेणापीति ।
अत्र शुक्तिधर्मिणोधर्मिणी इति रजतज्ञानालम्बनं भवितुमर्हति, तज्ज्ञानप्रयुक्तव्यवहारविषयत्वात् , सम्प्रतिपन्नवदित्यनुमानमुक्तं द्रष्टव्यम् ।
द्रव्यज्ञानाद् द्रव्ये आदीयमाने गुणोऽप्यादीयते, तथापि न द्रव्यज्ञानस्य गुणालम्बनत्वं दृष्टमित्यभिप्रायेण चोद्यमानोचोद्यमनादृत्य ? दृश्यवस्तुनो वस्त्वन्तरात्मनावभासोऽन्यथाख्यातिरिति पक्षं विकल्प्य दूषयति -
अथ तथारूपावभासनमिति ।
रूप्याख्यवस्त्वन्तरात्मनावभासनमित्यर्थः । तथारूपावभासनं शुक्तेः पारमार्थिकमुत नेत्यन्वयः ।
असतः ख्यात्ययोगात् सत्संवित्तिविरोधतोऽनाश्वासाच्च द्वितीयविकल्पोऽनुपपन्न इति मत्वा आह -
आहो इति ।
विरोधिशुक्त्यात्मत्वज्ञानाद्बाध इत्याशङ्क्य इदं रजतमिति रजतात्मत्वज्ञाने शुक्त्यात्मत्वस्य यथा न बाधः तद्वदबाध इत्याह -
नेयं शुक्तिरिति ।
यथेति ।
अन्यथा परिणते वस्तुनि ज्ञानमन्यथाख्यातिरिति विकल्पविकल्प्यमनूद्यमनूद्य दूषयति -
अथ शुक्तेरेवेति ।
विरोधिशुक्त्यात्मत्वज्ञाने नेदं रजतमिति बाधः स्यादित्याशङ्क्य क्षीरस्य दधिरूपपरिणामे पुनर्विरोधिक्षीरात्मत्वज्ञानं यथा न भवति तथा विरोधिशुक्त्यात्मत्वज्ञानमपि न भवेदित्याह -
नापि क्षीरमिदमितीति ।
रजतस्य शुक्तिपरिणामत्वं मायावादिना त्वया अङ्गीकृतमित्याशङ्क्य अविद्याविशिष्टशुक्तिपरिणामत्वाभ्युपगमात् अविद्यापाये रूप्यंमत्राक्षेपगच्छति इति मत्पक्षेऽपगच्छति, त्वत्पक्षे तु शुक्तिपरिणामत्वमेवेति नापगच्छेदिति मत्वा आह –
क्षीरमिवेति ।
नाल्पद्वारेण इतिनालद्वारेण पद्मदलं प्रविष्टा जलबिन्दवःपद्मान् इति पद्मानां मुकुलीभावं जनयन्ति, आदित्यकिरणेन पीतत्वात् विरलभूतत्वात् बिन्दुभिर्दलानां गढता इतिगाढतालक्षणविकासो भवति । पुनरपि दले अब्बिन्दूनामनुप्रवेशात् दलानां पीनत्वसत्वेन मुकुलता भवति । अतो विरोधिमुकुलपरिणामाद्विकासविच्छेदः, नत्वादित्यकिरणापायादिति परिहारं हृदिस्थमनुक्त्वा परिणामे दूषणान्तरमाह -
तथा सतीति ।
मुकुलमेव विकसितं भवतीति प्रतीतिवत् शुक्ती रूप्यं भवतीति प्रतीतिः स्यादित्यर्थः ।
रजतस्य शुक्तिपरिणामत्वं मा भूत् बुद्धिपरिणापरिणामित्वमितिमत्वं स्यादित्यन्यथाख्यातिवादिविशेषः आत्मख्यातिवादी वा शङ्कते -
अथ पुनरिति ।
भिन्नकालत्वादिति ।
एककालत्वाभावादित्यर्थः ।
प्रतीत्यन्तरगतोत्पादनव्यापारस्य रजतान्तरोत्पत्तावुपयुक्तत्वेऽपि बोधनव्यापारेण पूर्वरजतं प्रति बोधकमस्त्विति - नेत्याह –
प्रथमप्रत्ययवदिति ।
पक्षान्तरं निराकृत्य अख्यातिवादी स्वपक्षमुपसंहरति -
तदेवमिति ।