ननु रजते संविदिति ।
भ्रमस्य साधिष्ठानत्वेऽपि न सत्यवस्तुनोऽधिष्ठानत्वमिति भावः ।
अध्यस्यमानव्यतिरेकेणाधिष्ठानस्य सिद्धिरपेक्षिता, साधनसिद्धयेसिद्धये दन्योन्य इति अन्योऽन्याधिष्ठानत्वेनान्योऽन्याधीनसिद्धित्व इति तत्राह –
बीजाङ्कुरादिवदितितत्र इतरेतराधिष्ठानत्वे सति इतरेतरापेक्षसिद्धत्वात् बह्वसमञ्जसं स्यादिति तत्राह - बीजाङ्कुरवदिति विवरणे ।
रजते तद्विषयसंविद्रजतं च पूर्वस्यां संविदि, सा च स्वविषये, स च पूर्वस्यां संविदीति संविद्रजतयोरपि बीजाङ्कुरयोरिव कारणपरम्परा कल्प्येत्याशङ्क्य तत्राप्यन्वितमृत्वकार्यासत्वादेरुपादानत्वम् , बीजादेस्तु निमित्तता । अतः संविद्रजतयोरपि नोपादानकारणकारणत्वपरम्परेतिपरम्परेत्याह -
बीजाङ्कुरादिष्वपीति बीजाङ्कुरादिपीति ।
अभिमतवस्तुसिद्धिरिति ।
अनन्वितस्योपादानत्वेऽतिप्रसङ्गात् नोपादानकारणत्वसिद्धिरित्यर्थः ।
प्रतीतितो वस्तुतश्चेति ।
अनन्वितयोरनयोः कथं कार्यकारणतेत्युक्ते पूर्वबीजाङ्कुरयोरिवेति वक्तव्यम् , तयोर्वा कथमित्युक्ते ततः पूर्वयोरिवेति सत्तानवस्थायाः, अनयोः कार्यकारणता कथं गम्यत इत्युक्ते पूर्वपूर्वयोरिवेति प्रतीत्यनवस्थायाश्च प्रसङ्गादित्यर्थः ।
संविद्रजतयोरप्यधिष्ठानाधिष्ठेयतया निमित्तनैमित्तिकतेत्याशङ्क्यानयोर्बीजाङ्कुरयोः कथं निमित्तनैमित्तिकतेत्युक्ते अस्माद्बीजादस्याङ्कुरस्य जन्मदर्शनात् देशकालान्तरस्थबीजाङ्कुरयोरपि निमित्तनैमित्तिकताकल्पनादृष्टिपरम्परा इह तु क्वाप्यदर्शनादन्धपरम्परैवेति न निमित्तनैमित्तिकतापीत्याह -
तथा च कुत इदमेवमिति ।
इदमिति ।
निमित्त नैमित्तिकत्वमित्यर्थः ।
दृष्टिपरम्परां दर्शयति -
दृष्टत्वादेवमिति
अन्धपरम्परां दर्शयति -
नानवस्थादोषमतिवर्तत इति ।
भ्रान्तिप्रतिपन्ने योंऽशो निषेधाधिकरणत्वेनानिषेध्यो भवति तस्यांशस्याधिष्ठानत्वात् परत्रेति पदमपेक्ष्यमित्याह -
अपि चेत्यादिना ।
निरवधिक इति ।
इदमिति ।
निषेधाधिकरणांशमगृहीत्वेत्यर्थः ।
अनुमानाप्तवचनाभ्यां सर्पाभावविशिष्टमंशान्तरं न गृह्यत इति तत्राह –
यत्रापीति ।
अत्रानुमानमिति पाषाणप्रक्षेपादिनाप्यप्रचलितत्वलिङ्गजन्यज्ञानमुच्यते ।
अवधिर्विद्यत इति ।
अभावविशिष्टवस्तुमात्रं गृह्यते, विशेषाकाङ्क्षादर्शनादित्यर्थः ।
प्रधानं नास्तीत्यादौ न तदभावविशिष्टवस्त्वन्तरं गृह्यते, तेषामन्यत्रानध्यस्तत्वादिति तत्राह –
प्रधानादिष्वपीति ।
जगत्कारणं स्वतन्त्रं त्रिगुणमनेकं परिच्छिन्नं च न भवतीति बाधादवधिरस्तीत्यर्थः ।
सर्वलोकसाक्षिकमेतदिति ।
सर्वलोकस्य दृश्यस्य साक्ष्येव साक्षी यस्य तदेतत् । त्रात्यादि इतिभ्रान्त्यादि, सर्वलोकसाक्षिचैतन्येऽध्यस्तं निषेधावस्थायां चैतन्यावधिकं चेत्यर्थः ।
चैतन्यस्याधिष्ठानत्वे अवधित्वे च स्वीकृते किं प्रयोजनमित्याशङ्क्य निरधिष्ठानत्वेन निरवधिकत्वेन च शङ्कितकेशोण्ड्रकादावप्यधिष्ठानावधिसिद्धिः प्रयोजनमित्याह –
केशोण्ड्रकादावपीति ।
रूप्याध्यक्षस्य रुप्याध्यासस्य ? बाध्यत्वात् तत्साधकसाक्षिचैतन्यस्यापि बाध्यत्वमिति नेत्याह -
तद्बाधे तदनुषङ्ग एवेति ।
अधिष्ठानत्वात् सम्बन्ध एव बाध्य इति भावः ।
तदेव प्रपञ्चयति -
तेन तन्मात्रस्येति ।
चिन्मात्रस्येत्यर्थः ।
रूप्यस्मरणं बाध्यं परिच्छिन्नत्वात् रूप्यवत् इत्याशङ्क्य स्वतो न भेद इत्याह –
स्वतश्चेति ।
बाध्यसम्बन्धसम्बन्धित्वात् रूप्यवत् बाध्यमित्याशङ्क्य सम्बन्धिरूपेण परिणामित्वाभावात् सम्बन्धित्वमसिद्धमित्याह –
कूटस्थेति ।
कूटस्थत्वे हेतुमाह –
अपरोक्षैकरसेति ।
रूप्यस्य शून्यत्वं निरधिष्ठानत्वं च शून्यवादी मन्यते, तत्र साधिष्ठानत्वं प्रसाध्य शून्यत्वं निराचष्टे -
नाप्यध्यस्तमप्यसदेवेत्यादिना ।
प्रतिभासायोगादित्यत्र स्पष्टावभासः प्रतिभासः, रूप्यमिति प्रविविभक्तेतिप्रविभक्तरूपेणावभासः प्रतिभास इति च निर्वचनं द्रष्टव्यम् । रूप्यमिति विभक्तरूपेणापरोक्षत्वेन च प्रतीत्ययोगादित्यर्थः ।