अध्यस्तमिदं सर्वमसदेवेति तेऽपि मतम् इति चोदयति -
नन्विति ।
सद्विलक्षणमित्युक्तत्वादर्थासत्वमुक्तमित्याशङ्क्यासद्विलक्षणत्वमप्युक्तमित्याह -
अनिर्वचनीयाविद्यात्मकमिति इति ।
प्राक् अनिर्वचनीयत्वेऽपि बाधादूर्ध्वं रूप्यादेः शून्यत्वमाशङ्क्य तदिष्टमेव घटादीनामपि समानत्वादित्याह -
अथ पुनरिति ।
सर्वस्य नाशादूर्ध्वं शून्यत्वेऽपि भ्रमगृहीतस्य बाधादूर्ध्वं शून्यताभ्युपगमो न युक्तोऽन्यत्र सत्वादित्याशङ्क्य न तावद्बाधकज्ञानादन्यत्र सत्वसिद्धिरित्याह -
तथा चेति ।
तथानवगमादिति ।
मुखं दर्पणस्थं न भवति, किन्तु ग्रीवास्थमितिवत् रजतमिदं न भवति किन्तु देशान्तरे बुद्धौवेत्यनवगमादित्यर्थः ।
प्रत्यक्षबाधस्य देशान्तरे रूप्यादिसत्वबोधकत्वशङ्कायामपि वाक्यजन्यबाधकज्ञानस्य बोधकत्वशङ्कापि नास्ति, देशान्तरीयसत्ववाचिशब्दाभावादित्याह -
तथा च दूरवर्तिनीमिति ।
मा भूद्बाधकज्ञानादन्यत्र सत्वावगमः, किन्त्विह निषेधान्यथानुपपत्त्या अन्यत्र सत्वसिद्धिरित्याशङ्क्य व्यभिचारमाह –
नार्थापत्त्येति ।
प्रतीतिसिद्ध्यर्थं पुरोदेशे अन्यत्र वा रूप्यस्य न सत्तापेक्षा, अत्रैवाविद्याविलाससद्भावमात्रेण प्रतीतिसिद्धेरित्याह -
तन्मात्रेणेतितावन्मात्रेणापि तत्सिद्धेरिति ।
यदा नायं सर्प इत्यभावमात्रप्रतिपत्तिरपि न देशान्तरे सर्पत्वं गमयति तदा रज्जुरियमित्यधिष्ठाने पर्यवसिता प्रतिपत्तिः देशान्तरे सत्वं न बोधयतीति किमु वक्तव्यम् इत्याह –
यत्रापीति ।
पूर्वदृष्टावभास इति भाष्येण पूर्वदर्शनसम्भेदं विना पूर्वदृष्टस्य संस्कारनिर्मिततया पूर्वदृष्टसजातीयस्य रूप्यादेरवभास इत्युक्ते तस्य स्मृतिरूपत्वमुक्तं भवत्यतः स्मृतिरूप इति पृथङ् न वक्तव्यमित्याह –
तथाविधस्येति ।
अर्थलभ्यस्य स्मृतित्वमेव स्यात् इत्यर्थलभ्यस्य स्मृतिरूपस्य विकलस्मृतित्वशङ्का स्यात् । पूर्वानुभवसम्भिन्नविषयत्वाभावादित्यर्थः ।
स्मृतित्वमस्त्विति, नेत्याह -
न च स्मृतिविषयस्येति ।
परत्रेति ।
सम्प्रयुक्तस्याभिधानादर्थादागतं परस्येति पदमसम्प्रयुक्तमभिधत्त इत्याह –
असम्प्रयुक्तस्येति ।
पूर्वदृष्टत्वाभाव इति ।
पूर्वदृष्टार्थसंस्कारजन्यतया पूर्वदृष्टसजातीयार्थत्वाभाव इत्यर्थः ।
विस्पष्टार्थ इति ।
संस्कारजन्यत्वमेव स्मृतिरूपशब्दोक्तस्मृत्या सादृश्यं न पूर्वानुभवसम्भेद इति स्पष्टीकरणार्थमित्यर्थः ।
लोकसिद्धमेवेदमिति ।
यल्लक्षितं सत्यमिथ्यावस्तुसम्भेदात्मकमिदमध्यासरूपं तल्लोकसिद्धमेव सत्यमिथ्यावस्तु सम्भेदरूपमित्यत्र न युक्त्यपेक्षेत्यर्थः ।
युक्तिरिति ।
सत्यस्य वस्तुनो मिथ्यावस्तु सम्भेदावभासोऽध्यासः, अन्यथा शुक्लो घट इत्यादिज्ञानेष्वपि भ्रमत्वप्रसङ्गादित्येषोइत्येवोच्यते ? च्यते ।
तथा च लोकेत्यादिलोकेनुभव इत्यादि भाष्यस्य - भाष्यस्य तात्पर्यमुक्त्वा तदेकदेशमाक्षेपसमाधानायोपादत्ते -
शुक्तिका रजतवदवभासत इति ।