पञ्चपादिका
वक्तव्यकाशिका
 
ननु न शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यते — शुक्तिकाग्रहणमुपरितनसम्यग्ज्ञानसिद्धं परमार्थतः शुक्तिकात्वमपेक्ष्य, वतिग्रहणं तु सम्प्रयुक्तस्यारजतस्वरूपस्य मिथ्यारजतसम्भेद इवावभासनमङ्गीकृत्य । मिथ्यात्वमपि रजतस्य आगन्तुकदोषनिमित्तत्वादनन्तरबाधदर्शनाच्च कथ्यते, न पुनः परमार्थाभिमतात् रजतादन्यत्वमाश्रित्य । तत्र असम्प्रयुक्तत्वाद्रजतस्य नेदन्तावभासस्तद्गतः, किन्तु सम्प्रयुक्तगत एव । अपरोक्षावभासस्तु संस्कारजन्मनोऽपि रजतोल्लेखस्य दोषबलादिन्द्रियजज्ञानान्तर्भावाच्चेतिद्रष्टव्यम् । तत्र शुक्तिकोदाहरणेन सम्प्रयुक्तस्यानात्मा रजतमिति दर्शितम् । निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्मदर्थलक्षणापन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विचन्द्रोदाहरणेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम् । ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमिरादिरुपलभ्यते, तन्निमित्तश्चार्थस्य सांशत्वादंशान्तरावग्रहेऽपि अंशान्तरप्रतिबन्धो युज्येत, न त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दोषादनवभासोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वयञ्ज्योतिषस्तदयोगात् । ननु ब्रह्मस्वरूपमनवभासमानमस्त्येव, न तदनवभासनाज्जीवेऽनवभासविपर्यासौ भवतः । न हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वा । ननु न ब्रह्मणोऽन्यो जीवः, ‘अनेन जीवेनात्मना’ (छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुतरामविद्यायास्तत्रासम्भवः ; तस्य विद्यात्मकत्वात् , ‘तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यते — विद्यत एव अत्राप्यग्रहणाविद्यात्मको दोषः प्रकाशस्याच्छादकः । कथं गम्यते ? श्रुतेः तदर्थापत्तेश्च । श्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानः’ इत्येवमाद्या । तदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेनार्थादिदमवगम्यते जीवस्य ब्रह्मस्वरूपतानवगमोऽविद्यात्मको बन्धो निसर्गत एवास्तीति ॥
ननु न शुक्तिः प्रतिभासते इति ; उच्यते, शुक्तिकाग्रहणमिति ; मिथ्यात्वमपि रजतस्येति ; तत्रासम्प्रयुक्तत्वादिति ; सम्प्रयुक्तगत एवेति ; अपरोक्षावभासस्त्विति ; रजतल्लोख इतिरजतोल्लेखस्येति ; इन्द्रियजज्ञानान्तर्भावाच्चेति ; अनात्मा रजतमिति दर्शितमिति ; अस्मदर्थे अनिदमंशस्येति ; चैतन्यस्येति ; निरञ्जनस्येति ; तदवभास्यत्वेनेति ; अध्यस्त इति ; भेदावभास इति ; ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ; उपलभ्यत इत्यन्तेन ; तन्निमित्तश्चेति ; न त्विह कारणान्तरायत्तेत्यादिना ; स्वयञ्ज्योतिष इति ; निरंशस्येति ; अनवभासविपर्यासौ न भवत इति ; न हि शुक्तेरिति ; एवं तर्हि सुतरामिति ; तच्चैतन्येनैवेति ; उच्यत इत्यादिना ; अग्रहणेति ; अविद्यात्मक इति ; प्रकाशस्याच्छादक इति ; ’अनृतेन हि प्रत्यूढाछां०उ० ८ - ३ - २’ इति ; तदर्थापत्तिरपीति ;

यः शुक्तौ रजतं भ्रमति तस्य रजतमेवेत्यवभासनात् रजतवदित्यनवभासाच्छुक्तिकानवभासनाच्च भ्रान्त्यः इतिभ्रान्त्याः - शुक्तिका रजतवदत्र भासत इति नानुभवन्ति, तत्र कथं लोकानुभव इति चोदयति -

ननु न शुक्तिः प्रतिभासते इति ।

भ्रान्तस्येति भावः ।

यद्यपि भ्रान्तिसमये नानुभवति शुक्तिकाज्ञानोदये तत्सिद्धिः । शुक्तिकामुपादाय शुक्तिकारजतमवभासत इति लक्षणमनुभवति । शुक्तिज्ञानसामर्थ्येन नेदं रजतमिति ज्ञानविषयतया वा सिद्धमिथ्यारजतेन सत्यशुक्तिसम्भेदावभासाख्यलक्ष्यरजतवदित्यनुभवति । एवं लक्ष्यलक्षणसङ्गतिमनुभूतां शुक्तिका रजतवदवभासत इति वाक्येन प्रदर्शयति लोक इत्याह -

उच्यते, शुक्तिकाग्रहणमिति ।

इवशब्दश्चाभासतामभिधाय सम्भेदशब्देनावभासशब्देन च सम्बध्यते ।

मिथ्यारजतमिति विशेषणात् अन्यत्र सद्रूपरजतं वक्तव्यमित्याशङ्क्य मिथ्यात्वं प्रति जनकस्याभावात् मिथ्यात्वमुच्यते न सद्रूपरजताद्व्यावृत्त्यर्थमित्याह -

मिथ्यात्वमपि रजतस्येति ।

मिथ्यारजतधर्मत्वादिदन्ताया अपि मिथ्यात्वान्निरधिष्ठानताप्रसङ्ग इत्याशङ्क्य सम्प्रयुक्तस्य सम्प्रयुक्तधर्मत्वमयुक्तमित्याह –

तत्रासम्प्रयुक्तत्वादिति ।

सम्प्रयुक्तगत एवेति ।

शुक्तिगत एवेत्यर्थः ।

कथम् असम्प्रयुक्तरजतस्यापरोक्षतेत्यत आह –

अपरोक्षावभासस्त्विति ।

रजतल्लोख इतिरजतोल्लेखस्येति ।

इत्युल्लेखः, अवभासमानरजतस्येत्यर्थः ।

उल्लिख्यत आपरोक्ष्यस्य दोषजन्यत्वे बाध्यत्वं प्राप्तमित्याशङ्क्येन्द्रियजन्यज्ञानेनेदमंशेऽभिव्यक्तापरोक्षचैतन्ये अध्यस्तत्वाद्रूप्यस्याप्यपरोक्षत्वमिति पक्षान्तरमाह –

इन्द्रियजज्ञानान्तर्भावाच्चेति ।

अत्र ज्ञानशब्देन ज्ञप्तिः ज्ञानमितीदमंशावच्छिन्नस्फुरणमुच्यते -

अनात्मा रजतमिति दर्शितमिति ।

अनात्मभूतरजतं सम्प्रयुक्तशुक्तावध्यस्तमिति दर्शितमित्यर्थः ।

अस्मदर्थे अनिदमंशस्येति ।

अहमिति प्रतिभासमाने अवेद्यांशस्येत्यर्थः ।

अहमिति प्रतिभासमाने जडरूपात्मा भवेत् योऽस्तीति प्राभाकराभिमतमिति तद्व्यावृत्त्यर्थमाह –

चैतन्यस्येति ।

चिद्रूपात्मनोऽपि शक्तिमत्वं परिणामब्रह्मवाद्यभिमतं तद्व्यावृत्त्यर्थमाह –

निरञ्जनस्येति ।

असङ्गस्येत्यर्थः ।

प्रतिभासतो युष्मदर्थत्वाभावेऽपि तदवभास्यत्वं नाम युष्मदर्थलक्षणमहङ्कारस्यास्तीत्याह –

तदवभास्यत्वेनेति ।

अध्यस्त इति ।

चैतन्ये अध्यस्त इत्यर्थः ।

भेदावभास इति ।

जीवेश्वरयोर्जीवानां च भेदोऽवभासमानः तेषामस्वरूपभूत एव जीवादिषु अध्यस्त इति दर्शितमित्यर्थः । वादाधिकारसिद्ध्यर्थमुक्तार्थे स्वस्य ज्ञानापलापोऽनादराभावद्योतनाय ।

बाह्याध्यासे उक्तकारणत्रितयजन्यत्वं परत्र परावभासत्वं च सुस्थितमित्याह -

ननु बहिरर्थ इत्यादिना युज्यत इत्यन्तेन ।

तत्रापि कारणत्रितयजन्यत्वमस्तीत्याह -

उपलभ्यत इत्यन्तेन ।

कारणदोष इति प्रमातृस्थरागादिदोष उच्यते । इन्द्रियशब्देन सम्प्रयोग उच्यते । सम्प्रयोगशब्देन संस्कारोऽपि लक्ष्यते । परत्र परावभास इति स्वरूपलक्षणमप्यस्तीत्याह –

तन्निमित्तश्चेति ।

उपलक्षणं स्वरूपलक्षणं च बाह्याहङ्काराध्यासे सम्भवति । अधिष्ठानात्मग्राहक कारणतद्दोषादीनामभावात् आत्मनो निरंशत्वादगृहीतविशेषत्वेनाधिष्ठानत्वायोगाच्चेत्याह -

न त्विह कारणान्तरायत्तेत्यादिना ।

इहेति अहङ्काराद्यधिष्ठानात्मनि इत्यर्थः ।

आकाशवन्निरंशस्यापि न कार्त्स्न्येनावभास इति तत्राह -

स्वयञ्ज्योतिष इति ।

स्वयम्प्रकाशत्वेऽपि संवेदनवदगृहीतांशः स्यादिति नेत्याह –

निरंशस्येति ।

अनवभासविपर्यासौ न भवत इति ।

अनवभासो न भवत्यत एव विपर्यासोऽपि न स्यादित्यर्थः ।

ब्रह्मणः सर्वज्ञत्वादिभ्रमाधिष्ठानत्वाज्जीवस्य चाहङ्कारादिभ्रमाधिष्ठानत्वसाम्येन एकत्वात् ब्रह्मानवभासेब्रह्मानवभासोजीवानवभास इति जीवानवभास इत्याशङ्क्य आह -

न हि शुक्तेरिति ।

एवं तर्हि सुतरामिति ।

आश्रयविषयभेदाभावात् ज्ञानप्रकाशविरोधाच्चाज्ञानाभावान्नाज्ञातत्वमित्यर्थः ।

ताः रि श्रुति जन्यबुद्धि इतिश्रुतिगतभासेति शब्देन प्रकाशमात्रस्याभिधानमिति शङ्कानुत्यर्थमितिशङ्कापनुत्यर्थं चैतन्यपरत्वेन व्याकरोति -

तच्चैतन्येनैवेति ।

भ्रमनिवर्तकज्ञानसामग्र्याः तद्गतदोषस्य च संस्कारस्य च भ्रमकारणत्वमन्यत्र दृष्टमिहापि ब्रह्मात्मवस्त्वाकारश्रुतिजन्यबुद्धिवृत्तिप्रतिबिम्बितब्रह्मात्मचैतन्यस्याहङ्कारादिभ्रमनिवर्तकज्ञानत्वात् । प्रतिबिम्बप्रदत्वेन बिम्बभूतब्रह्मात्मवस्तुनो निवर्तकज्ञानसामग्रीत्वात् । तस्यास्तद्गताविद्यादोषस्य च पूर्वाहङ्कारादिविनाशजसंस्कारस्य चोत्तराहङ्कारादिभ्रमहेतुत्वात् कारणत्रितयजन्यत्वं सिध्यति । अविद्यया ब्रह्मरूपस्यानवभासादहमित्यात्मनोऽवभासात् अगृहीतविशेषात्मन्यधिष्ठानेऽहङ्काराध्यासात् । परत्र परावभासत्वं च सिध्यतीत्यभिप्रेत्य आत्मन्याच्छादिकाविद्यास्तीत्याह -

उच्यत इत्यादिना ।

अग्रहणेति ।

आच्छादकेत्यर्थः ।

साङ्ख्याभिमताच्छादकसत्यतमोगुणं प्रसक्तं व्यावर्तयति -

अविद्यात्मक इति ।

प्रकाशजनकचक्षुरादिगतशक्तिप्रतिबन्धककाचादिषु दोषशब्दप्रयोगो दृश्यते । अत्रापि चित्प्रकाशप्रतिबन्धकत्वादविद्यायाः सुतरां दोषशब्दवाच्यत्वं भवतीति मत्वाह -

प्रकाशस्याच्छादक इति ।

’अनृतेन हि प्रत्यूढाछां०उ० ८ - ३ - २’ इति ।

जीवाःजीवाव अनृतरूपाविद्ययाछन्नतया स्वकीयपूर्णानन्दब्रह्मरूपमात्मानं सुषुप्ते न विजानन्ति नान्येनेत्यर्थः । अनीशयेत्यत्र मुह्यमानः अज्ञानलक्षणमोहेनैकतां गतः, अतो‍ऽनीशया स्वभावसिद्धेश्वरत्वस्याप्रतिपत्त्याअप्रतिपत्त्यतशोचतीत्यन्वयः ।

तदर्थापत्तिरपीति ।

’तरति शोकमात्मवित्’ इति बन्धनिवृत्तिफलश्रुत्यनुपपत्तिर्निवर्त्याविद्यामध्यासाख्यबन्धहेतुभूतां गमयतीत्यर्थः ।