ननु प्रमाणान्तरविरोधे सति श्रुतिः तदर्थापत्तिर्वा नाविद्यां निवेदयितुमलम् ? किं तत् प्रमाणं ? येन सह विरोधः, निरंशस्य स्वयञ्ज्योतिषः स्वरूपानवभासानुपपत्तिः । ननु भोक्तुः कार्यकारणसङ्घातात् व्यावृत्तता स्वयञ्ज्योतिषोऽपि न प्रकाशते, ननु न भोक्ता स्वयञ्ज्योतिः, किं त्वहंप्रत्ययेनावभास्यते । यथा स्वयम्प्रकाशमानता, अहङ्कारो न प्रत्ययस्तथा वक्ष्यते ॥
स्वयम्प्रकाशस्य अविद्याश्रयत्वसम्भवेऽप्यविद्याविषयत्वं न सम्भवतीत्यतो नाविद्येति चोदयति -
ननु प्रमाणविरोध इतिप्रमाणान्तरविरोध इति ।
निरंशस्य स्वरूपानवभासानुपपत्तिरित्युक्ते निरंशस्य आकाशस्यावभासो न दृश्यत इत्याशङ्क्याह -
स्वयञ्ज्योतिष इति ।
अतोऽनवभासाअनवभासष्टम्भवादितिसम्भवादनवभासाय नाविद्याभ्युपेयेति भावः ।
सिद्धान्ती आह -
ननु भोक्तुः इति ।
अहङ्कारो न प्रत्यय इति ।
आत्मकर्मकप्रत्ययो न भवतीति वक्ष्यत इत्यर्थः ।