इन्द्रजालमेवैतदिति ।
मनुष्योऽहमिति ज्ञानमिन्द्रजालशब्दोदितभ्रमरूपमेव अविद्याकृतत्वादित्यर्थः ।
अहंप्रत्ययस्य देहे मुख्यवृत्त्यभावात् देहस्यानात्मत्वमाभासविषयत्वस्य विद्यमानत्वात् सामानाधिकरण्यव्यवहारस्यागौणत्वं चेत्याह –
तथाहीत्यादिना ।
अहंप्रत्ययस्य देहविषयत्वाभावात् देहस्यानात्मत्वमित्याह -
स्वविषयप्रतिष्ठस्यैवप्रतिष्ठितस्यैवेति पञ्चपादिकायाम् सत इति ।
अहंप्रत्ययस्य स्वविषयात्ममात्रप्रतिष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -
देहादिप्रतिष्ठत्वमपिप्रतिष्ठितत्वमिति पञ्चपादिकायाम् दृष्टमिति ।
तर्हि देहस्यात्मत्वमित्याशङ्क्य देहविषयत्वमाभास इत्याह -
अनाद्यविद्याकृतं देहादिप्रतिष्ठत्वमिति - - - - - - - - - ।
आत्मैकनिष्ठतायां प्रतीयमानायां न देहनिष्ठताप्रतीतिसम्भव इत्याशङ्क्य आत्मैकनिष्ठताप्रतीतिं प्रतिबध्नात्यविद्येत्याह –
तदेकप्रतिष्ठाप्रतिष्ठितता इति पञ्चपादिपादिकायाम्प्रतिबन्धकृदिति ।
युक्तिज्ञानसन्निधाप्याहंप्रत्ययस्यात्ममात्रनिष्ठतैव न व्यतिरेकसाधकत्वम् । अतो मनुष्योऽहमित्यपरोक्षाध्याससम्भवान्न गौणत्वमित्याह -
अतो युक्त्या विषयविवेचनेऽपीति ।
न विरुद्ध्यत इत्युक्तमिति ।
अविद्याया अहंप्रत्ययस्यात्ममात्रनिष्ठताप्रतीतेः प्रतिबध्यत्वान्नप्रतिबन्धत्वादिति विरुध्यत इत्युक्तमित्यर्थः ।
आत्मनोऽगृहीतविशेषतयाधिष्ठानत्वसिद्धेः परत्र परावभासत्वमहङ्काराद्यध्यासस्य सिद्धं भवतीत्याह -
तदेवं स्वयञ्ज्योतिष इत्यादिना ।
पूर्वकालकोटिरहितेति ।
अनादीत्यर्थः । प्रकाशाच्छादिततमोनिमित्तमित्यन्तमर्थोपसंहारः । श्रुतितदर्थापत्तिसमर्पितमिति प्रमाणोपसंहारः ।
अधिष्ठानयाथात्म्याग्राहिप्रमाणस्य दोषसंस्काराभ्यामुपेतस्य भ्रमकारणत्वं दृष्टम् । इहाप्यधिष्ठानभूतात्मतया याथात्म्यब्रह्मरूपसाधक ब्रह्मात्मचैतन्ये अविद्याप्रसाधनात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्वपूर्वाहङ्कारादिनाशजन्यसंस्कारस्याविद्याश्रयस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –
अनादित्वाच्चेति ।
कारणत्रितयजन्यैकज्ञानविषयत्वमधिष्ठानारोप्ययोर्वक्तव्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्राप्येकस्फुरणत्वमेवाधिष्ठानारोप्यभावे प्रयोजकम् , न तु जन्यज्ञानविषयत्वमिहाप्यहङ्कारस्फुरणादन्यत्स्फुरणमात्मनो नास्तीत्याह –
पृथग्भोक्तृविषयानुभवफलाभावादिति ।
अन्तःकरणस्फुरणात् पृथक्फलत्वाभावेन चैतन्यस्याधिष्ठानत्वम् । इह त्वात्माहङ्कारयोरेकस्फुरणत्वादधिष्ठानारोप्यभावो युक्त इत्याह –
भोक्तृचैतन्यसंवलितेति ।
संवलितत्वेनेत्यर्थः ।
परत्र परावभासस्येत्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -
अन्योन्यसम्भेदस्येति ।