पञ्चपादिका
वक्तव्यकाशिका
 
ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो न गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात् । तथाहि — अहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्य । अतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम् । स्वविषयप्रतिष्ठत्वं च देहादिषु अहंममाभिमानेन न विरुध्यते इत्युक्तम् । अतः न्यायतो विषयविवेचनादूर्ध्वमपि न प्रागवस्थातो विशिष्यते अहंप्रत्ययः । तेन न कदाचिदपि ‘मनुष्योऽहमि’ति प्रत्ययो गौणः । तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात् ’मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं च । पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते ॥

इन्द्रजालमेवैतदिति ।

मनुष्योऽहमिति ज्ञानमिन्द्रजालशब्दोदितभ्रमरूपमेव अविद्याकृतत्वादित्यर्थः ।

अहंप्रत्ययस्य देहे मुख्यवृत्त्यभावात् देहस्यानात्मत्वमाभासविषयत्वस्य विद्यमानत्वात् सामानाधिकरण्यव्यवहारस्यागौणत्वं चेत्याह –

तथाहीत्यादिना ।

अहंप्रत्ययस्य देहविषयत्वाभावात् देहस्यानात्मत्वमित्याह -

स्वविषयप्रतिष्ठस्यैवप्रतिष्ठितस्यैवेति पञ्चपादिकायाम् सत इति ।

अहंप्रत्ययस्य स्वविषयात्ममात्रप्रतिष्ठत्वे मनुष्योऽहमिति ज्ञानस्य गौणत्वं प्राप्तमिति नेत्याह -

देहादिप्रतिष्ठत्वमपिप्रतिष्ठितत्वमिति पञ्चपादिकायाम् दृष्टमिति ।

तर्हि देहस्यात्मत्वमित्याशङ्क्य देहविषयत्वमाभास इत्याह -

अनाद्यविद्याकृतं देहादिप्रतिष्ठत्वमिति - - - - - - - - -  ।

आत्मैकनिष्ठतायां प्रतीयमानायां न देहनिष्ठताप्रतीतिसम्भव इत्याशङ्क्य आत्मैकनिष्ठताप्रतीतिं प्रतिबध्नात्यविद्येत्याह –

तदेकप्रतिष्ठाप्रतिष्ठितता इति पञ्चपादिपादिकायाम्प्रतिबन्धकृदिति ।

युक्तिज्ञानसन्निधाप्याहंप्रत्ययस्यात्ममात्रनिष्ठतैव न व्यतिरेकसाधकत्वम् । अतो मनुष्योऽहमित्यपरोक्षाध्याससम्भवान्न गौणत्वमित्याह -

अतो युक्त्या विषयविवेचनेऽपीति ।

न विरुद्ध्यत इत्युक्तमिति ।

अविद्याया अहंप्रत्ययस्यात्ममात्रनिष्ठताप्रतीतेः प्रतिबध्यत्वान्नप्रतिबन्धत्वादिति विरुध्यत इत्युक्तमित्यर्थः ।

आत्मनोऽगृहीतविशेषतयाधिष्ठानत्वसिद्धेः परत्र परावभासत्वमहङ्काराद्यध्यासस्य सिद्धं भवतीत्याह -

तदेवं स्वयञ्ज्योतिष इत्यादिना ।

पूर्वकालकोटिरहितेति ।

अनादीत्यर्थः । प्रकाशाच्छादिततमोनिमित्तमित्यन्तमर्थोपसंहारः । श्रुतितदर्थापत्तिसमर्पितमिति प्रमाणोपसंहारः ।

अधिष्ठानयाथात्म्याग्राहिप्रमाणस्य दोषसंस्काराभ्यामुपेतस्य भ्रमकारणत्वं दृष्टम् । इहाप्यधिष्ठानभूतात्मतया याथात्म्यब्रह्मरूपसाधक ब्रह्मात्मचैतन्ये अविद्याप्रसाधनात् चैतन्यमविद्या चेति कारणद्वयं सिद्धम् । इदानीं पूर्वपूर्वाहङ्कारादिनाशजन्यसंस्कारस्याविद्याश्रयस्य सम्भवात् कारणत्रितयं लभ्यत इत्याह –

अनादित्वाच्चेति ।

कारणत्रितयजन्यैकज्ञानविषयत्वमधिष्ठानारोप्ययोर्वक्तव्यम् । आत्मनि तदभावान्नाध्यास इत्याशङ्क्य तत्राप्येकस्फुरणत्वमेवाधिष्ठानारोप्यभावे प्रयोजकम् , न तु जन्यज्ञानविषयत्वमिहाप्यहङ्कारस्फुरणादन्यत्स्फुरणमात्मनो नास्तीत्याह –

पृथग्भोक्तृविषयानुभवफलाभावादिति ।

अन्तःकरणस्फुरणात् पृथक्फलत्वाभावेन चैतन्यस्याधिष्ठानत्वम् । इह त्वात्माहङ्कारयोरेकस्फुरणत्वादधिष्ठानारोप्यभावो युक्त इत्याह –

भोक्तृचैतन्यसंवलितेति ।

संवलितत्वेनेत्यर्थः ।

परत्र परावभासस्येत्युक्ते आधाराधेयत्वं प्राप्तं व्यावर्तयति -

अन्योन्यसम्भेदस्येति ।