पञ्चपादिका
वक्तव्यकाशिका
 

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयःतत्रअहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयःतत्रअहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते

विषयसंविदाश्रय आत्मा, तत्राहमिदं जानामीति संविदाश्रयत्वेनावभासमानोऽहङ्कारः कथमिदमंशः स्यादिति चोदयति -

ननु किमत्रेति ।

अहमित्यनुभव इति ।

अहमित्यनुभूयमानाहमाकार इत्यर्थः ।

देहस्यानाश्रयदेहस्यानाश्रयोयोवदितिवदनुभवानाश्रयोऽप्याश्रयवत् अवभासते । अतोऽहमाकारः इदमंश एवेति चोदयति -

कथमिति ।

अहङ्कारस्यैव मुख्यं विषयसंविदाश्रयत्वमतस्तस्यैवात्मत्वम् ; अयोव्यतिरेकेण दहनाश्रय वह्निदर्शनवत् अन्यस्य संविदाश्रयस्यादर्शनात् अतोतोऽत्र इतिअतोऽत्र नेदं रूपमिति साधयितुं प्राभाकरस्य सिद्धान्तमुपन्यस्यति -

प्रमातृ - प्रमेय - प्रमितय इत्यादिना ।

तत्रात्मनोऽन्तःकरणगतचित्प्रतिबिम्बेनानुमेयतया सिद्धिः साङ्ख्यैरुक्ता । विषयस्य संवेदनगतविषयाकारप्रतिबिम्बेन अनुमेयतया सिद्धिः बौद्धैरुक्ता, ज्ञानस्य फलानुमेयतया सिद्धिः भाट्टैरुक्ताभावेरुक्तेति, तान् व्यावर्तयति -

प्रमातृ - प्रमेय - प्रमितय इति ।

विज्ञानाभेदाद्विषयस्यापरोक्षावभासं विज्ञानवाद्यभिमतं व्यावर्तयति -

प्रमेयं कर्मत्वेनेति ।

आत्मनो मानसप्रत्यक्षकर्मतया अपरोक्षत्वं वार्तिककार - न्याय - वैशेषिकाभिमतम् , प्रमितिस्त्वात्मनि गतासंयुक्तसमवायनिमित्तज्ञानान्तरादपरोक्षेति न्यायवैशेषिकौ, प्रमेयगता प्रमितिः संयुक्ततादात्म्यात् ज्ञानान्तरात् अपरोक्षेति वार्तिककारीयाः तान् व्यावर्तयति -

प्रमातृप्रमिती पुनरिति ।

आत्मप्रमित्योः स्वयम्प्रकाशत्वे गौरवादात्मैव स्वयम्प्रकाश इति नेत्याह -

प्रमितिः, स्वयम्प्रकाश इति ।

स्वयम्प्रकाशत्वे हेतुमाह –

प्रमाणफलमिति ।

प्रमाणफलत्वादित्यर्थः ।

प्रमितेर्विषयस्थत्वादेव जडत्वान्न स्वप्रकाशत्वमित्याशङ्क्य आत्मस्थानुभव एव प्रमितिरित्याह -

प्रमितिरनुभव इति ।

आत्मस्थरूपेण अनुभव इति ।

विषयस्य विषयस्पष्टरूपेणेतिस्पष्टरूपेण प्रमितिरिति अनुभव एव द्विधोच्यत इत्यभिप्रायः ।

अतः हानोपादानोपेक्षाः प्रमाणफलमिति पक्षं व्यावर्त्य फलस्वरूपमाह -

प्रमितिरनुभव इति ।

इतरत्प्रकाशत इति ।

प्रमातानुभवाश्रयत्वेन प्रकाशत इत्यर्थः ।

संवेदनमेवार्थाकारमिति रूपेण प्रमाणमर्थोपलब्धिरिति रूपेण तदेवफलमिति सौगतमतंसौगतमन्त इति व्यावर्तयति -

प्रमाणं तु प्रमातृव्यापार इति ।

अर्थेन्द्रियमन - आत्मनां संयोगाख्यचतुष्टयसन्निकर्ष इत्यर्थः ।

प्रमितिहेतोः (प्रमाख्य) प्रमातृव्यापारस्य प्रमातृप्रमितिप्रमेयकोटिषु निवेशाभावादसिद्धिः स्यादित्याशङ्क्य प्रमितिलिङ्गेनानुमेयतया सिद्धिरित्याह -

फललिङ्गो नित्यानुमेय इति ।

अहमिदं जानामीत्यत्र अनात्मविषयानुभवातिरिक्तमात्मविषयमपि ज्ञानमस्तीति नेत्याह -

तत्राहं इदं जानामीति ।

आत्मा त्विति ।

अहमिदमनुभवामीति विषयफलसम्बन्धित्वेन आत्मनोऽवभासमानत्वं विषयानुभवाश्रयत्वबलान्नात्मविषयज्ञानव्यापारादित्यर्थः ।