विषयानुभवाश्रयतया सुषुप्तावहङ्कारस्य सिध्यसम्भवेऽपि उत्त्थितस्य परामर्शसिद्ध्यैपरामर्शसिद्धे इति सौषुप्तिकसुखानुभवाश्रयतया अहङ्कारः सिद्ध इति चोदयति -
नन्वस्त्येवेति ।
सुषुप्तौ सुखानुभवाय सुखहेतुविषयानुभवोऽपि वक्तव्य इति नेत्याह –
नात्मनोऽन्यस्येति ।
अस्तीति ।
उत्थितस्य परामर्शाख्यस्मरणरूपसुखावमर्शः दुःखाभावनिमित्त इति । ।
उत्थितस्य दुःखास्मरणेन अनुमितदुःखाभावे सुखमहमस्वाप्समिति व्यपदेश इत्यर्थः ।
सुखशब्दस्य मुख्यसुखविषयत्वमभ्युपेयमिति शङ्कते ।
भामितिकथमिति ।
स्वप्ने दुःखानुभवे सति उत्थितस्य दुःखस्मृतिर्यथा जायते तद्वत् सुषुप्तेऽपि दुःखानुभवे सति उत्थितस्य दुःखस्मरणेन भवितव्यम् । अतः स्मरणाभावेन दुःखाभावमनुमाय तस्मिन् सुखव्यपदेश इति मत्वाह -
स्वप्ने तावदिति ।
तदभावादिति ।
दुःखस्य तदनुभवस्य चाभावादित्यर्थः ।
सुप्तः सुखमिति ।
सुखं सुप्त इत्यन्वयः ।
विशेषत इति ।
गानसुखं पानसुखमिति विशेषतः स्मर्येतेत्यर्थः ।
सुषुप्तौ न किञ्चिन्मया चेतितमित्युत्थितस्य व्यपदेशात् सुखस्यानुभूतत्वं नास्तीत्याह –
व्यपदेशोऽपीति ।
सुषुप्तौ सुखानुभवसद्भावे लिङ्गमस्ति, उत्थितस्य प्रसन्नेन्द्रियत्वादीति तत्राह -
यत्पुनः सुप्तोत्थितस्येति । ।
अनुभूतं चेत् सुखं स्मर्येतेति ।
भोजनसमनन्तरं पीनत्वाद् भुक्तं मयेत्यनुमानं विहाय सुखं भुक्तमिति स्मरणमेव यथा तथात्रापि स्मरणेनैव भवितव्यमिति भावः ।
सुषुप्ते भावरूपसुखानुभवश्चेत्रिक्तं दृश्यते सुखस्य भूयस्त्वाल्पत्ववैषम्यादङ्गलाघवतदभावावनुपपद्येते । दुःखाभावमात्रेत्वभावस्य स्वरूपवैषम्याभावात् कथं कस्यचिदङ्गलाघवं कस्यचिन्नेति एतदुपपद्यत इति चोदयति -
यद्येवमिति ।
व्यापारोपरम इति ।
व्यापारस्य पुनरपि झटिति व्यापारोत्पादकसंस्कारस्य चोपरम इत्यर्थः । अनुमितदुःखाभावे उत्थितस्य सुखमहमस्वाप्सम्’ इति व्यपदेश इत्येतत् परमतमाश्रित्योआश्रित्यो......मितिक्तमिति द्रष्टव्यम् ।
मतमागमयितव्यमिति ।
आत्मा स्वयम्प्रकाशोऽहङ्कारश्चात्मव्यतिरिक्त इति मतमागममूलं कर्तव्यमित्यर्थः ।