ययोरेकस्वलक्षणत्वं तयोरैक्यं दृष्टमिति व्याप्तिमाह -
यथा बहिःस्थितो देवदत्त इति ।
छायातद्वतोरेक स्वलक्षणत्वाभावान्नानैकान्तिकतेति भावः ।
अर्थादिति ।
वस्त्वन्तरत्वानुपपत्त्येत्यर्थः ।
दर्पणस्य मुखाकारेण परिणामे स्पर्शेन्द्रियेण निम्नोन्नततया गृह्येत, न तथा गृह्यते, इत्याशङ्क्याह -
गर्भित इति ।
विरुद्धपरिणामित्वादिति ।
मुद्रायामुन्नतं प्रतिमुद्रायां निम्नं भवति । मुद्रायां निम्नं प्रतिमुद्रायामुन्नतं भवति,
न तथा बिम्बप्रतिबिम्बयोरिति ।
प्रतिमुद्रया इतिप्रतिमुद्रायां विरुद्धपरिणामित्वमित्यर्थः ।
संश्लेषाभावादिति ।
ग्रीवास्थमुखेन दर्पणस्य संश्लेषाभावादित्यर्थः ।
तदपायेऽपीति ।
बिम्बासान्निध्याख्यनिमित्तापायेऽपीत्यर्थः ।
हस्तसंयोगाख्यनिमित्तापाये प्रसरणाख्यकार्याभावो दृष्टः पुनः संवेष्टनदर्शनादिति । नेत्याह -
न खलु संवेष्टित इति ।
तत्क्षणमेव संवेष्टत इति, अतः प्रसारणमपगच्छतीति भावः ।
संस्काराद्विरुद्धसंवेष्टनकार्योदयात् पूर्वप्रसारणकार्यविनाशः, न निमित्तापायादित्याह –
यतश्चिरकालसंवेष्टनेति ।
वेष्टनसंस्कारक्षयपर्यन्तमनुवृत्तप्रसारणनिमित्तापगमेऽपि विरोधिसंवेष्टनानुदये प्रसारणं नापगच्छति । अतो विरोधिकार्योदयादेव प्रसारणनाश इति निर्णय इत्याह -
तथा च यावत्संस्कारक्षयमिति ।
तर्हीहापि समतलत्वसंस्कारात् समतलत्वाख्यविरोधिकार्योदये प्रतिबिम्बापायः स्यात् इत्याशङ्क्य उत्पन्नमात्रेउत्पन्नमात्रत्व इति दर्पणे उत्पत्तेरूर्ध्वं सदा मुखसन्निधेः समतलत्वसंस्काराभावादेव समतलत्वपरिणामायोगात् तत्र प्रतिबिम्बापायो बिम्बापायादेव स्यात् , तन्न युक्तं परिणामपक्ष इत्याह -
एवं चिरकालेति ।
ग्रीष्मकाले विकासावच्छेदकाहरपेक्षया मुकुलावच्छेदकरात्रेरल्पत्वात् विकाससंस्कारस्य प्राचुर्यात् तदभिभवेनाल्पतर संस्कारात्अल्पतरसंस्कारात् इतिमुकुलसंस्कारात् मुकुलोत्पत्तियोगात् मुकुलोदयात् विकासनाशायोगात् निमित्तापायादेव विनाश इत्याशङ्क्य, सत्यम् , संस्कारान्मुकुलानुदयेऽपि नालद्वारेण पद्मदलानुप्रवेशिजलबिन्दुभिः पार्थिवाय इतिपार्थिवावयवसङ्करैः मुकुलोदयात् विकासनाशः न निमित्तापायादित्याह -
यः पुनरित्यादिना ।
निमित्तापाय एव विकासापायस्य मुकुलस्य च निमित्तमिति तत्राह -
तदुपरम इति ।
पार्थिवावयवस्य पार्थिवाव्यावयव इतिव्यापारोपरमे सति निमित्तापाये मुकुलतानुपलब्धेरित्यर्थः ।
तर्हि संस्कारातिरिक्तहेत्वन्तरेण समतलत्वोत्पत्त्या प्रतिबिम्बापगमः न बिम्बापायादिति नेत्याह -
नादर्शे पुनरिति ।
कारुकर्मादि नास्तीत्यर्थः ।
मदीयमुखमिति प्रत्यभिज्ञयैकत्वमवगतमिति नेत्याह –
शुक्तिरजतस्येति ।
मदीयं रजतमिति दर्शनादित्यर्थः ।
बाधदर्शनादिति ।
नेदं रजतमिति रजतस्वरूपबाधदर्शनात् नात्र रजतं किन्तु तदिदं रजतमिति सत्यं रजतेनेतिसत्यरजतेन एकत्वप्रत्यक्षिज्ञाऽभावाच्च मिथ्यात्वमित्यर्थः ।
नेह बाधो दृश्यत इति ।
नेदं मुखमिति स्वरूपेण न बाध्यते । किन्तु नात्र मुखं यदीयमेवेतिमदीयमेवेति प्रत्यभिज्ञायत इत्यर्थः ।
दर्पणापगमे मुखस्यापगमात् मुखं नास्तीति मुखस्य स्वरूपेण बाधो दृश्यत इत्याशङ्क्य तदसन्निधौ तन्नास्तीति ज्ञानेन तस्य बाध्यत्वे दर्पणस्यापि बाध्यत्वं स्यादित्याह –
पुनरिति ।