पञ्चपादिका
वक्तव्यकाशिका
 
तथा यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; तत् वस्त्वन्तरत्वे युज्यतेअपि अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम्तथा यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्तिअत्राहभवतु वस्त्वन्तरं, तदेव तदिति तु क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह बाधो दृश्यतेयः पुनः दर्पणापगमे तदपगमः, बाधः ; दर्पणेऽपि तत्प्रसङ्गात्

ययोरेकस्वलक्षणत्वं तयोरैक्यं दृष्टमिति व्याप्तिमाह -

यथा बहिःस्थितो देवदत्त इति ।

छायातद्वतोरेक स्वलक्षणत्वाभावान्नानैकान्तिकतेति भावः ।

अर्थादिति ।

वस्त्वन्तरत्वानुपपत्त्येत्यर्थः ।

दर्पणस्य मुखाकारेण परिणामे स्पर्शेन्द्रियेण निम्नोन्नततया गृह्येत, न तथा गृह्यते, इत्याशङ्क्याह -

गर्भित इति ।

विरुद्धपरिणामित्वादिति ।

मुद्रायामुन्नतं प्रतिमुद्रायां निम्नं भवति । मुद्रायां निम्नं प्रतिमुद्रायामुन्नतं भवति,

न तथा बिम्बप्रतिबिम्बयोरिति ।

प्रतिमुद्रया इतिप्रतिमुद्रायां विरुद्धपरिणामित्वमित्यर्थः ।

संश्लेषाभावादिति ।

ग्रीवास्थमुखेन दर्पणस्य संश्लेषाभावादित्यर्थः ।

तदपायेऽपीति ।

बिम्बासान्निध्याख्यनिमित्तापायेऽपीत्यर्थः ।

हस्तसंयोगाख्यनिमित्तापाये प्रसरणाख्यकार्याभावो दृष्टः पुनः संवेष्टनदर्शनादिति । नेत्याह -

न खलु संवेष्टित इति ।

तत्क्षणमेव संवेष्टत इति, अतः प्रसारणमपगच्छतीति भावः ।

संस्काराद्विरुद्धसंवेष्टनकार्योदयात् पूर्वप्रसारणकार्यविनाशः, न निमित्तापायादित्याह –

यतश्चिरकालसंवेष्टनेति ।

वेष्टनसंस्कारक्षयपर्यन्तमनुवृत्तप्रसारणनिमित्तापगमेऽपि विरोधिसंवेष्टनानुदये प्रसारणं नापगच्छति । अतो विरोधिकार्योदयादेव प्रसारणनाश इति निर्णय इत्याह -

तथा च यावत्संस्कारक्षयमिति ।

तर्हीहापि समतलत्वसंस्कारात् समतलत्वाख्यविरोधिकार्योदये प्रतिबिम्बापायः स्यात् इत्याशङ्क्य उत्पन्नमात्रेउत्पन्नमात्रत्व इति दर्पणे उत्पत्तेरूर्ध्वं सदा मुखसन्निधेः समतलत्वसंस्काराभावादेव समतलत्वपरिणामायोगात् तत्र प्रतिबिम्बापायो बिम्बापायादेव स्यात् , तन्न युक्तं परिणामपक्ष इत्याह -

एवं चिरकालेति ।

ग्रीष्मकाले विकासावच्छेदकाहरपेक्षया मुकुलावच्छेदकरात्रेरल्पत्वात् विकाससंस्कारस्य प्राचुर्यात् तदभिभवेनाल्पतर संस्कारात्अल्पतरसंस्कारात् इतिमुकुलसंस्कारात् मुकुलोत्पत्तियोगात् मुकुलोदयात् विकासनाशायोगात् निमित्तापायादेव विनाश इत्याशङ्क्य, सत्यम् , संस्कारान्मुकुलानुदयेऽपि नालद्वारेण पद्मदलानुप्रवेशिजलबिन्दुभिः पार्थिवाय इतिपार्थिवावयवसङ्करैः मुकुलोदयात् विकासनाशः न निमित्तापायादित्याह -

यः पुनरित्यादिना ।

निमित्तापाय एव विकासापायस्य मुकुलस्य च निमित्तमिति तत्राह -

तदुपरम इति ।

पार्थिवावयवस्य पार्थिवाव्यावयव इतिव्यापारोपरमे सति निमित्तापाये मुकुलतानुपलब्धेरित्यर्थः ।

तर्हि संस्कारातिरिक्तहेत्वन्तरेण समतलत्वोत्पत्त्या प्रतिबिम्बापगमः न बिम्बापायादिति नेत्याह -

नादर्शे पुनरिति ।

कारुकर्मादि नास्तीत्यर्थः ।

मदीयमुखमिति प्रत्यभिज्ञयैकत्वमवगतमिति नेत्याह –

शुक्तिरजतस्येति ।

मदीयं रजतमिति दर्शनादित्यर्थः ।

बाधदर्शनादिति ।

नेदं रजतमिति रजतस्वरूपबाधदर्शनात् नात्र रजतं किन्तु तदिदं रजतमिति सत्यं रजतेनेतिसत्यरजतेन एकत्वप्रत्यक्षिज्ञाऽभावाच्च मिथ्यात्वमित्यर्थः ।

नेह बाधो दृश्यत इति ।

नेदं मुखमिति स्वरूपेण न बाध्यते । किन्तु नात्र मुखं यदीयमेवेतिमदीयमेवेति प्रत्यभिज्ञायत इत्यर्थः ।

दर्पणापगमे मुखस्यापगमात् मुखं नास्तीति मुखस्य स्वरूपेण बाधो दृश्यत इत्याशङ्क्य तदसन्निधौ तन्नास्तीति ज्ञानेन तस्य बाध्यत्वे दर्पणस्यापि बाध्यत्वं स्यादित्याह –

पुनरिति ।