पञ्चपादिका
वक्तव्यकाशिका
 

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

आत्मातिरिक्तस्य कृत्स्नस्य कल्पितत्वमङ्गीकुर्वताहङ्काराद्युपाधेरविकल्पितत्वं वक्तव्यम् । तन्न सम्भवति, उपाध्यन्तराभावात् इत्याशङ्कायामुपाध्यनपेक्षया अध्यासोऽस्तीति दर्शयन्ति श्रुतय इत्याह -

ननु तत्र विभ्राम्यत इति ।

इहेति ।

अहङ्काराद्युपाध्यध्यास इत्यर्थः ।