रज्जुसर्पभ्रान्तावपि पूर्वमनुभूतसत्यसर्पोपाधिसर्वोपाधिरितिरस्तीति चोदयति -
ननु तत्रापीति ।
अहङ्कार भ्रमस्य दर्पणादिवत् स्वतन्त्रतया भ्रमकालीनोपाधिना भवितव्यमित्युच्यते, किं वा पूर्वमनुभूततया स्वसंस्कारद्वारेण भ्रमहेतूपाधिरपेक्षितव्य इत्युच्यत इति विकल्प्य स्वतन्त्रोपाधिश्चेत् सः सर्पभ्रमेऽपि नास्ति । इतरश्चेत् सोऽत्राप्यस्ति । पूर्वभ्रमसिद्धाहङ्कारसंस्कारात् अद्यतनाहङ्काराध्यासोत्पत्तेरित्याह –
बाढमित्यादिना ।
अहङ्कर्तृतेति ।
अहङ्कार इत्यर्थः ।
श्रुतिषु घटाकाशोदाहरणेन किं प्रयोजनमित्याशङ्क्य आत्मनोऽसङ्गत्वसिद्धिः प्रयोजनमित्याह -
तदर्थं घटाकाशोदाहरणमिति ।
आत्मनोऽसङ्गत्वाभावात् नोदाहरणापेक्षेत्याशङ्क्य असङ्गत्वप्रमाणमाह -
‘असङ्गो न ही’बृ०उ० ३ - ९ - २६, (४ - २ - ४, ४ - ४ - २२, ४ - ५ - १५)ति ।
स्फटिकोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य नेत्याह -
तत्र यद्यपीति ।
स्फटिकादेः सावयवत्वेन अरुणादिना सम्भेदयोग्यस्याप्यरूणादेःअरुजादेरिति अनिर्वचनीयतया असम्भेदावगमो यद्यपि सिद्ध इत्यन्वयः ।
तदसङ्गीवेति ।
द्रव्यगुणरूपत्वात् तेनारूणादिना सम्बन्धीव स्फटिको लक्षित इत्यर्थः ।
रज्जुसर्पोदाहरणेनासङ्गत्वं सिद्ध्यतीत्याशङ्क्य तत्र सर्पेण ऐक्यबुद्धित्वादेव संसर्गित्वेन प्रतीत्यभावात् संसर्गित्वेन प्रतीततया निरूप्यमाणे असङ्गित्वेनोदाहरणत्वं रज्जोर्नास्तीत्याह -
रज्ज्वां पुनरिति ।
असम्भिन्नत्वं वेति ।
असंसृष्टत्वमिवेत्यर्थः ।
रूप इति ।
घटपरिमिताकाशरूपत्वमित्यर्थः ।
कार्येति ।
जलादिधारणकार्यमित्यर्थः ।
समाख्येति ।
घटाकाशः करकाकाश इत्यादिशब्दविषयत्वमित्यर्थः ।
उदाहरणैरेवाविकारित्वैकत्वासङ्गत्वसिद्धे ; नागमोपयोग इति, नेत्याह -
एतच्च सर्वमिति ।
बुद्धिसामर्थ्यं चेति ।
तद्वदिदमपि सम्भवतीति दृष्टान्तेन समत्वग्रहणलक्षणसम्भावनाबुद्ध्युत्पत्तय इत्यर्थः ।
अस्मत्प्रत्ययविषयत्वादिति भाष्यगतविषयशब्दार्थमाह -
तदेवं यद्यपीति ।
अनिदमात्मकत्वादविषय इति ।
शुक्तिवदनिन्द्रियविषयत्वात् जन्यज्ञानाविषय इत्यर्थः ।
तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति ।
यादृग्ज्ञानाधीनत्वेन परिच्छिन्नतया स्फुरति यः पदार्थः स तस्य ज्ञानस्य विषयत्वेन दृष्टः, तद्वदात्माप्यहङ्कारेऽभिव्यक्तत्वेन परिच्छिन्नतया स्फुरतीति तं प्रत्यात्माप्रत्यात्मविषय इति विषय इत्युच्यते । स्फुरणस्वभावत्वेऽपि परिच्छेदस्य अहङ्काराधीनत्वादित्यर्थः ।
प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारादिति ।
प्रसिद्धप्रमेयस्य परिच्छिन्नतया स्फुरितत्वाव्यभिचारादित्यर्थः ।