व्यवहारयोग्यत्वे अध्यास इति ।
आत्मनः परिच्छिन्नतया स्फुरतीति व्यवहारयोग्यत्वे सति तस्मिन्नहङ्काराध्यासः अध्यस्ताहङ्कारवशात् परिच्छिन्नतया स्फुरितत्वमित्यन्योन्याश्रयत्वमित्यर्थः ।
अनादित्वेनेति ।
अहङ्कारावच्छिन्नतया स्फुरिते संस्काराध्यासः संस्कारावच्छिन्नतया स्फुरितेऽहङ्काराध्यास इति अनादित्वेनेत्यर्थः ।
अविकारित्वात् सर्वगतत्वात् चिद्रूपत्वाच्चात्मनो युगपत् सर्वावभासकत्वं कस्याप्यनवभासकत्वं वा स्यात् , न क्रमेण विषयविशेषप्रमातृत्वमित्याशङ्क्य क्रमेण इन्द्रियबुद्धिवृत्तिव्याप्त्यपेक्षया क्रमेण विषयविशेषप्रमातृत्वमुपपादयति -
तत्रैवम्भूतस्येति ।
परमार्थतोऽपि कार्यपरिच्छिन्नचित्स्वभावस्येत्यर्थः ।
अहङ्कर्तुरिति ।
परिणाम्यहङ्कारैक्याध्यासमापन्नस्येत्यर्थः ।
इदमंशस्येति ।
परिणाम्यहङ्कारस्येत्यर्थः ।
ज्ञानसंशब्दित इति ।
ज्ञानमिति शब्दयते केवलं न तु मुख्यज्ञानमित्यर्थः ।
रजःप्रधानान्तःकरणपरिणामरागादीन् यावर्त्त्यम् ईषद्रजस्पृष्टसत्वप्रधानान्तःकरणपरिणाम इत्याह -
व्यापारविशेष इति ।
कर्मकारकाभिमुखं स्वाश्रय इति ।
कर्मकारकेणाहङ्कारस्य सम्बन्धं जनयतीत्यर्थः ।
विकारहेतुत्वादिति ।
फलहेतुत्वादित्यर्थः ।
क्रियात्वात् स्वाश्रयेऽतिशयजनकत्वमस्तु । तस्मादतिशयस्य न विषयव्यापितेत्याशङ्क्य सकर्मकक्रियाजन्यत्वात् गमनक्रियाजन्यप्राप्तिवत् विषयव्यापित्वमित्याह -
स च प्राप्नोतिव्याप्नोति इति क्रियेति ।
प्राप्तिफलहेतुगमनक्रियेत्यर्थः ।
स्यादन्तःकरणस्य विषयसम्बन्धः आत्मनस्तु विषयविशेषावभासः कथमिति तदाह -
तेन विषयविशेषसम्बद्धसम्बन्धमितिमिति ।
स्ववृत्तिव्याप्तविषयेण सम्बद्धान्तःकरणस्य च चैतन्यावच्छेदकत्वात् त्रिकोणताद्यवस्थाविशेषापन्नायःपिण्डानुगताग्नेरिव उपाध्यनुगतरूपेणाहङ्कारावच्छिन्नचैतन्यस्य विषयाकारता स्यात् । अतस्तदाकारत्वादेव तदवभास इति भावः ।
अहङ्कारावच्छिन्नचैतन्यस्यैवं विषयाकारताख्यविषयसम्बन्धोऽस्तु । कथं विषयस्थत्वेन व्यक्ततया तत्साधकत्वमिति, तत्राह –
कर्मकारकमपीति ।
कर्मकारकमपि अपरोक्षतामभिव्यनक्ति इत्यन्वयः ।
प्रधानक्रियासिद्धाविति ।
बुद्धिवृत्त्युत्पत्तावित्यर्थः ।
स्वव्यापारास्वव्यापारविष्टमितिविष्टमिति ।
इन्द्रियप्रभाव्याप्ततयाऽभिभूततमोगुणं बुद्धिप्रभाव्याप्ततयाऽभिभूतरजस्कं केवलसत्वरूपेण चैतन्याभिव्यञ्जकत्वयोग्यं भवतीत्यर्थः ।
विषये चैतन्याभिव्यक्तिसिध्यर्थं तदधिष्ठानतया विषये चैतन्यमस्तीत्याह ।
चैतन्यविवर्तत्वादिति ।
भवतु विषये चैतन्यमभिव्यक्तम् , तस्य चाहङ्कारावच्छिन्नचैतन्यमित्यहङ्कारावच्छिन्नचैतन्येन सिद्धत्वव्यपदेशो न स्यादित्याशङ्क्य विषयसाधकत्वेन विषये अभिव्यक्तचैतन्यस्याहङ्कारतद्वृत्त्यभिव्यक्तचैतन्यस्य चैकतया अभिव्यक्तिरस्ति । व्यञ्जकोपाधीनामन्योन्यविशिष्टतया उपाधित्वात् । अतो मयावगतमिति व्यपदेशोपपत्तिरित्याह –
प्रधानक्रियाहितेति ।
अवस्थाविशेषावच्छिन्नेति ।
अवस्थाविशेषमापन्नाहङ्कारावच्छिन्नेत्यर्थः ।
एकरूपामिति ।
एकामित्यर्थः ।
चैतन्यस्याहङ्कारतद्वृत्तिताद्विषयेषु अभिव्यक्तस्यैकत्वेऽपि वृत्तिकर्त्रहङ्कारावच्छिन्नोऽनुभवः प्रमाता, वृत्त्यवच्छिन्नचैतन्यं विषयानुभवः, वृत्तिविषयघटावच्छिन्नचैतन्यं फलमिति विभागमाह –
ततश्चात्मनेति ।
अनवस्थाविशेष इतिअवस्थाविशेष इति ।
प्रमाणक्रियाकर्तृरूप इत्यर्थः । उपाधिजनितो विशेषः । प्रमातेति वाक्यशेषः ।
विषयानुभवसंशब्दित इति ।
वृत्त्यवच्छिन्नो विषयानुभवसंशब्दित इत्यर्थः ।
बुद्धिवृत्तेरहङ्काराश्रयत्वं घटविषयत्वं चास्ति । एकतया व्यक्तचैतन्याख्यफलस्य बिम्बभूताखण्डचैतन्यरूपात्माश्रयत्वमवच्छेदकाहङ्कारविषयत्वं चास्ति । अतः क्रियाफलयोः एकाश्रयत्वैकविषयत्वनियमासिद्धिरित्याशङ्क्य फलाश्रयात्मचैतन्यस्य क्रियाश्रयाहङ्कारैक्याध्यासात् एकाश्रयत्वं फलाख्यचैतन्यस्य क्रियाविषयघटावच्छेदादेकविषयत्वं चास्तीत्याह -
इति क्रियैकविषयताफलस्येति ।
विषयेत्याश्रयस्याप्युपलक्षणम् ।
बुद्धिस्थमर्थं पुरुषश्चेतयत इति साङ्ख्यवचनविरोधात् आत्मा स्वचैतन्योपरक्तं चेतयतीचेतय इत्युक्तमितित्युक्तमयुक्तमिति - तत्राह
एवंचाहङ्कर्तेति ।
प्रथमं बुद्धिव्याप्तमर्थं तत्राभिव्यक्तचिद्रूप चिद्रूपात्मस्वचैतन्येतिआत्मा स्वचैतन्योपरक्तत्वात् पश्चाच्चेतयत इत्येतदभिप्रेत्य साङ्ख्यवचनमिति भावः ।
प्रदीपोत्पादकस्य पुंसः तेन प्रदीपेन सर्वो विषयः प्रकाशते, तद्वद्विषयस्य चैतन्येनैकस्य द्रष्टुः सर्वो विषयः प्रकाशेत इत्याशङ्क्य विषयान्तरे बुद्धिव्याप्त्यभावादेव तत्रोनभिरितितत्रानभिव्यक्तत्वात् अप्रकाशः बुद्धिव्याप्ततया अभिव्यञ्जकविषयविशेषस्यैव प्रकाश इत्याह -
तत्र च प्रमातुरिति ।
सर्वान् प्रतीति ।
सर्वविषयान् प्रतीत्यर्थः ।
येन सहेति ।
येन कर्मकारकेण सहेत्यर्थः ।
चैतन्यस्य विषये अभिव्यक्तत्वात् इतराहङ्कारावच्छिन्नचैतन्याभेदेनानभिव्यक्तत्वात् एकस्यैव प्रमातुः प्रकाशेतेत्याह –
कर्मकारकमपीति ।
येन सहेति ।
येन प्रमात्रा सहेत्यर्थः ।