स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ।
ऐक्यप्रतीतेः स्वत एव प्रामाण्यमनपेक्षम् , न सादृश्याभावापेक्षमित्यर्थः ।
ऐक्यज्ञानस्य भ्रमत्वसिध्यनसावितिभ्रमत्वसिद्ध्यधीनासौ सादृश्यसिद्धिः, न तु स्वत इत्याह -
न तु सादृश्यकल्पना स्वतः सिद्धा इति ।
गोसदृशो गवय इत्यत्र सादृश्यस्य गोगवययोः ऐक्यभ्रमकल्पकत्वाभावेऽपि एकदेशस्थत्वेनाभेदबुद्धिगृहीतयोः सादृश्यमैक्यभ्रमकल्पकं ज्वालामालायामिवेति भावः ।
तर्हि अनुमानात् क्षणिकत्वं साधयाम इत्यभिप्रेत्य घटादौ तावत् साधयति -
अथ अन्ते क्षयदर्शनादिति ।
विनाशक्षणात् पूर्वक्षणवर्ति घटसत्वमन्त इत्युच्यते । तस्य स्वानन्तरोत्तरक्षणे सत्वादेव विनाशदर्शनादित्यर्थः ।
आदौ क्षयानुमानमिति ।
अन्त्यक्षणानवच्छिन्नघटसत्वान्यादिरित्युच्यते । तान्यपि स्वसत्त्वाक्षणादुत्तरक्षणे विनाशव्याप्तानि सत्वादन्त्यक्षणावच्छिन्नसत्ववद्वदित्यनुमानमित्यर्थः ।
भिन्नत्वात् सादृश्यकल्पनेति ।
भिन्नेषु एक्यज्ञानात् सादृश्यकल्पनेत्यर्थः ।
घटसत्तावच्छेदकक्षणाः आदिरित्युच्यन्ते । अन्त इति विनाशाख्यासत्त्वावच्छेदकक्षणा उच्यन्ते । तेऽपि घटसत्तया व्याप्ताः कालत्वात् सत्त्वावच्छेदककालवत् इति प्रत्यनुमानमाह -
आदौ सत्तादर्शनादिति ।
क्षयानुभव इति ।
अभावानुभव इत्यर्थः ।
तद्रूपसत्वादनुभवविरोध इति ।
अन्त्यक्षणात् पूर्वक्षणावच्छिन्नघटसत्त्वानामनन्तरक्षयानुमानमपि प्रत्यभिज्ञाविरुद्धमित्यर्थः । न हि उभयोः कश्चिद्विशेष इत्यस्यायमर्थः - कालद्वयलक्षणोपलक्षणप्रतिपत्तिपूर्वकं तृतीयक्षणे प्रत्यभिज्ञया सदैक्याख्यप्रमेयप्रतिपत्तिः धर्मिप्रतियोगिग्रहणानन्तरं तृतीयक्षणे अभावप्रमितिः । अतः तृतीयक्षणे प्रमेयप्रतिपत्तिः उभयोस्तुल्येति ।
सर्वे क्षणिकाः अर्थक्रियाकारित्वात् , यदक्षणिकं न तदर्थक्रियाकारि यथा शशविषाणं इत्यनुमानान्तरं दर्शयितुं स्थायिनोऽर्थक्रियानुपपत्तिमाह -
अथ मन्येतेत्यादिना ।
कर्तृत्वाकर्तृत्वे विरुद्धे, तत्र कर्तृत्वे सति कस्मादस्थायित्वमित्याशङ्क्याह –
स्थायिनोऽर्थक्रियाऽयोगादिति ।
कथमयोग इति ।
स्थायिन एव निमित्तसम्बन्धात् अन्यथाभूतस्य क्रियापूर्वकं कार्यनिष्पादनसामर्थ्यसम्भवादिति भावः ।
क्रमेण वेति ।
अनेकानि कार्याणि सातत्येन कुर्यादित्यर्थः ।
यौगपद्येन वेति ।
एकं वा अनेकं वा स्वनिष्पाद्यं कार्यं सकृदेव कृत्वा उपरमेतेत्यर्थः ।
तस्य विशेषाभाव इति ।
कुर्वदकुर्वदवस्थयोः कारणस्य सामर्थ्यमस्ति चेदकुर्वदवस्थायामपिअवस्थायामिति नेति कुर्यात् सामर्थ्यं नास्ति चेत् कुर्वदवस्थायामपि न कुर्यात् । तदा सामर्थ्यं जायत इति चेत् तर्हि सामर्थ्योत्पादनसामर्थ्यं पूर्वमस्ति चेत् पूर्वमेव सामर्थ्यं जनयेत् । नास्ति चेत् पश्चादपि न सामर्थ्यं जनयेदित्यर्थः ।
तद्बुद्धिरिति ।
तत्त्वेन बुद्धिः प्रत्यभिज्ञाबुद्धिरित्यर्थः ।
सकृदेव कार्यं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वं न विरुध्यते । सत्वस्यार्थक्रियाकारित्वलक्षणत्वाभावादित्याह सिद्धान्ती -
अथ केयमित्यादिना ।
जननमिति ।
कर्मतया जनकत्वमित्यर्थः ।
बाह्यार्थानां स्वविषयज्ञानजनजननत्वेतिकत्वसम्भवेऽपि विज्ञानानां न सम्भवतीत्याह -
प्राप्तं तर्हीति ।
न सन्तानान्तरेऽपीति ।
जीवान्तरसन्तानेऽपि स्वविषयप्रत्यक्षज्ञानं न जनयतीत्यर्थः ।
स्वविषयानुमानमपि न जनयति, अनुमानस्य अर्थजन्यत्वाभावादित्याह –
अनुमानेऽपीति ।
संस्कारकल्पितरूपेण स्वविषयं ज्ञानं सर्वज्ञसन्ततावपि न जनयति । सर्वज्ञज्ञानस्य विषयाभेदेन, संसारित्वप्रसङ्गादित्याह –
सार्वज्ञेऽपीति ।
साक्षादिति ।
कल्पितरूपेणेत्यर्थः ।
अतद्रूपत्वअतः रूपवत्व इति इति ।
संसारसंविदां संसारविधुरशुद्धवेषेण सर्वज्ञज्ञानजनकत्वात् जनकशुद्धाकारेणाभेदात् सर्वज्ञज्ञानस्य असंसाररूपत्व इत्यर्थः ।
तद्विषयत्वायोगादिति ।
शुद्धत्वेन समत्वादिति भावः ।
क्षणान्तरोत्पाद इति ।
स्वसन्ताने क्षणान्तरोत्पाद इत्यर्थः ।
चरमक्षणस्येति ।
सर्वङ्क्षणिकं स्वलक्षणं स्वयमेव स्वस्य लक्षणम् , स्वातिरिक्तेन सङ्गि न भवतीत्यर्थः ।
दुःखं शून्यमिति ।
चतुर्विधभावनाप्रकर्षयुतत्वात् पूर्वज्ञानादुत्पद्यमानं विशुद्धविज्ञानं सन्तानस्यावसानरूपं चरमक्षण इत्युच्यते । तस्य स्वसन्ताने क्षणान्तरानुत्पादकत्वात् असत्वमित्यर्थः ।
चरमक्षणमपि सार्वज्ञज्ञानं विषयतया जनयतीत्यर्थक्रियावत्वमिति, नेत्याह -
न च सार्वज्ञेति ।
चरमत्वानुपपत्तेचरमत्वानपपत्ते चिति इतिरिति ।
एकसन्तानोऽपि कार्ये कारणस्यान्वयानङ्गीकारात् तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानतेति वक्तव्यम् । तथा सति चरमक्षणस्यापि सार्वज्ञेन ज्ञानेन एकसन्तानतया चरमत्वानुपपत्तेः । चरमक्षणोदयाख्यमुक्त्यभावप्रसङ्गादित्यर्थः ।
सर्वज्ञज्ञानं प्रति विषयतया जनकत्वेन तत्सन्तानैक्यमेव मुक्तिरिति तत्राह -
न च संवित् संविदो विषय इति ।
संविदात्मना भेदाभावादिति ।
चरमसंविदः सर्वज्ञसंविदा समानत्वात् संविदात्मना ऐक्यात् , संविदात्मना भेदाभावादित्यर्थः ।
अथ क्रियाकारणसत्वहेतुः कारणसत्वप्रतीतिहेतुर्वा इति विकल्प्य दूषयति -
किञ्चेति ।
स्वकारणइदं प्रतीकं न दृष्यतेनिष्पन्नत्वात् नार्थक्रियातो निष्पन्नत्वम् , प्रागेवरूपज्ञाज्ञानादिति निष्पन्नघटस्य स्वनिष्पाद्यार्थक्रियाख्यकार्येण न निष्पाद्यत्वमिति ।
स्वज्ञानार्थक्रियाया इति ।
स्वकार्यरूपज्ञानाख्यार्थक्रियायाः स्वयंसिद्धत्वात् नान्यतः सत्वप्रतीतिरर्थक्रियाया इत्यर्थः ।
ज्ञानाख्यार्थक्रियायाः स्वेन वेद्यत्वात् स्वस्य स्वयमेव बोधकरूपेणार्थक्रियेति नेत्याह -
न हि स्वरूपमेवेति ।
अतोऽर्थक्रियातः सत्वाभावात् युगपत् सर्वं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वमविरुद्धमिति भावः ।
विशेषाभावादित्ययुक्तमिति ।
शक्तकारणात् कार्योत्पत्तिसमये सहकारिसम्पत्तिरूपविशेषभावात् विशेषाभावोऽसिद्ध इत्यर्थः ।
अथ कारणस्येति ।
शक्तस्येत्यर्थः ।
अकारणस्यापीति ।
अशक्तस्यापीत्यर्थः ।
अकारणं कारणोत्पत्तय इति ।
असमर्थं समर्थोत्पत्तय इत्यर्थः । असमर्थमपि कार्योदयार्थं कार्योदयानन्तरमितिपूर्ववर्तिसामग्रीरूपस्योत्पत्तय इति वा अर्थः ।
अथ तत् कारणस्येति ।
तदिति सहकार्यपेक्षत्वेनाभिमतवस्तूच्यत इति द्रष्टव्यम् ।
कारणस्य कारणम् अथाकारणमिति ।
सामर्थ्यं प्रति वा सामग्रीरूपं प्रति वा कारणम् अथाकारणमित्यर्थः ।
हेतोः सति कार्य इति ।
कार्यदर्शनत्वादित्यर्थः ।
सत्येव हेताविति ।
अन्वयव्यतिरेकाभ्यामित्यर्थः ।
समेतसहकारिण्येव दर्शनादिति ।
सहकारिसहितहेतौ सत्येव कार्यस्य दर्शनादित्यर्थः ।
तद्विज्ञेयमिति ।
कार्यं विज्ञेयमित्यर्थः ।