पञ्चपादिका
वक्तव्यकाशिका
 
स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम्तथा तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा , तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव साअथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, किं काञ्चिदर्थक्रियां कुर्याद्वा ? वा ? यदि कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात्कथमयोगः ? इत्थमयोगः तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेःअतोऽर्थक्रियाकारित्वादेव स्थायीतेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यतेअथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिःस्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात्सार्वज्ञ्येऽपि साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात्अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम्किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात्अतः प्रतीतिः वक्तव्यातत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत्ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् अनवस्था ? तर्ह्यर्थक्रियातः सत्तावगमः ; हि स्वरूपमेव स्वस्यार्थक्रियायत् पुनः क्रमेणार्थक्रिया युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम्अथ कारणस्यान्यापेक्षा युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात्अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हतिअकारणं चेत् नतराम्अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम्तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम्

स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ; न तु सादृश्यकल्पना स्वतः सिद्धा इति ; अथ अन्ते क्षयदर्शनादिति ; आदौ क्षयानुमानमिति ; भिन्नत्वात् सादृश्यकल्पनेति ; आदौ सत्तादर्शनादिति ; क्षयानुभव इति ; तद्रूपसत्वादनुभवविरोध इति ; अथ मन्येतेत्यादिना ; स्थायिनोऽर्थक्रियाऽयोगादिति ; कथमयोग इति ; क्रमेण वेति ; यौगपद्येन वेति ; तस्य विशेषाभाव इति ; तद्बुद्धिरिति ; अथ केयमित्यादिना ; जननमिति ; प्राप्तं तर्हीति ; न सन्तानान्तरेऽपीति ; अनुमानेऽपीति ; सार्वज्ञेऽपीति ; साक्षादिति ; अतद्रूपत्वअतः रूपवत्व इति इति ; तद्विषयत्वायोगादिति ; क्षणान्तरोत्पाद इति ; चरमक्षणस्येति ; दुःखं शून्यमिति ; न च सार्वज्ञेति ; चरमत्वानुपपत्तेचरमत्वानपपत्ते चिति इतिरिति ; न च संवित् संविदो विषय इति ; संविदात्मना भेदाभावादिति ; किञ्चेति ; स्वज्ञानार्थक्रियाया इति ; न हि स्वरूपमेवेति ; विशेषाभावादित्ययुक्तमिति ; अथ कारणस्येति ; अकारणस्यापीति ; अकारणं कारणोत्पत्तय इति ; अथ तत् कारणस्येति ; कारणस्य कारणम् अथाकारणमिति ; हेतोः सति कार्य इति ; सत्येव हेताविति ; समेतसहकारिण्येव दर्शनादिति ; तद्विज्ञेयमिति ;

स्वारसिकं हि प्रामाण्यं प्रतीतेरिति ।

ऐक्यप्रतीतेः स्वत एव प्रामाण्यमनपेक्षम् , न सादृश्याभावापेक्षमित्यर्थः ।

ऐक्यज्ञानस्य भ्रमत्वसिध्यनसावितिभ्रमत्वसिद्ध्यधीनासौ सादृश्यसिद्धिः, न तु स्वत इत्याह -

न तु सादृश्यकल्पना स्वतः सिद्धा इति ।

गोसदृशो गवय इत्यत्र सादृश्यस्य गोगवययोः ऐक्यभ्रमकल्पकत्वाभावेऽपि एकदेशस्थत्वेनाभेदबुद्धिगृहीतयोः सादृश्यमैक्यभ्रमकल्पकं ज्वालामालायामिवेति भावः ।

तर्हि अनुमानात् क्षणिकत्वं साधयाम इत्यभिप्रेत्य घटादौ तावत् साधयति -

अथ अन्ते क्षयदर्शनादिति ।

विनाशक्षणात् पूर्वक्षणवर्ति घटसत्वमन्त इत्युच्यते । तस्य स्वानन्तरोत्तरक्षणे सत्वादेव विनाशदर्शनादित्यर्थः ।

आदौ क्षयानुमानमिति ।

अन्त्यक्षणानवच्छिन्नघटसत्वान्यादिरित्युच्यते । तान्यपि स्वसत्त्वाक्षणादुत्तरक्षणे विनाशव्याप्तानि सत्वादन्त्यक्षणावच्छिन्नसत्ववद्वदित्यनुमानमित्यर्थः ।

भिन्नत्वात् सादृश्यकल्पनेति ।

भिन्नेषु एक्यज्ञानात् सादृश्यकल्पनेत्यर्थः ।

घटसत्तावच्छेदकक्षणाः आदिरित्युच्यन्ते । अन्त इति विनाशाख्यासत्त्वावच्छेदकक्षणा उच्यन्ते । तेऽपि घटसत्तया व्याप्ताः कालत्वात् सत्त्वावच्छेदककालवत् इति प्रत्यनुमानमाह -

आदौ सत्तादर्शनादिति ।

क्षयानुभव इति ।

अभावानुभव इत्यर्थः ।

तद्रूपसत्वादनुभवविरोध इति ।

अन्त्यक्षणात् पूर्वक्षणावच्छिन्नघटसत्त्वानामनन्तरक्षयानुमानमपि प्रत्यभिज्ञाविरुद्धमित्यर्थः । न हि उभयोः कश्चिद्विशेष इत्यस्यायमर्थः - कालद्वयलक्षणोपलक्षणप्रतिपत्तिपूर्वकं तृतीयक्षणे प्रत्यभिज्ञया सदैक्याख्यप्रमेयप्रतिपत्तिः धर्मिप्रतियोगिग्रहणानन्तरं तृतीयक्षणे अभावप्रमितिः । अतः तृतीयक्षणे प्रमेयप्रतिपत्तिः उभयोस्तुल्येति ।

सर्वे क्षणिकाः अर्थक्रियाकारित्वात् , यदक्षणिकं न तदर्थक्रियाकारि यथा शशविषाणं इत्यनुमानान्तरं दर्शयितुं स्थायिनोऽर्थक्रियानुपपत्तिमाह -

अथ मन्येतेत्यादिना ।

कर्तृत्वाकर्तृत्वे विरुद्धे, तत्र कर्तृत्वे सति कस्मादस्थायित्वमित्याशङ्क्याह –

स्थायिनोऽर्थक्रियाऽयोगादिति ।

कथमयोग इति ।

स्थायिन एव निमित्तसम्बन्धात् अन्यथाभूतस्य क्रियापूर्वकं कार्यनिष्पादनसामर्थ्यसम्भवादिति भावः ।

क्रमेण वेति ।

अनेकानि कार्याणि सातत्येन कुर्यादित्यर्थः ।

यौगपद्येन वेति ।

एकं वा अनेकं वा स्वनिष्पाद्यं कार्यं सकृदेव कृत्वा उपरमेतेत्यर्थः ।

तस्य विशेषाभाव इति ।

कुर्वदकुर्वदवस्थयोः कारणस्य सामर्थ्यमस्ति चेदकुर्वदवस्थायामपिअवस्थायामिति नेति कुर्यात् सामर्थ्यं नास्ति चेत् कुर्वदवस्थायामपि न कुर्यात् । तदा सामर्थ्यं जायत इति चेत् तर्हि सामर्थ्योत्पादनसामर्थ्यं पूर्वमस्ति चेत् पूर्वमेव सामर्थ्यं जनयेत् । नास्ति चेत् पश्चादपि न सामर्थ्यं जनयेदित्यर्थः ।

तद्बुद्धिरिति ।

तत्त्वेन बुद्धिः प्रत्यभिज्ञाबुद्धिरित्यर्थः ।

सकृदेव कार्यं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वं न विरुध्यते । सत्वस्यार्थक्रियाकारित्वलक्षणत्वाभावादित्याह सिद्धान्ती -

अथ केयमित्यादिना ।

जननमिति ।

कर्मतया जनकत्वमित्यर्थः ।

बाह्यार्थानां स्वविषयज्ञानजनजननत्वेतिकत्वसम्भवेऽपि विज्ञानानां न सम्भवतीत्याह -

प्राप्तं तर्हीति ।

न सन्तानान्तरेऽपीति ।

जीवान्तरसन्तानेऽपि स्वविषयप्रत्यक्षज्ञानं न जनयतीत्यर्थः ।

स्वविषयानुमानमपि न जनयति, अनुमानस्य अर्थजन्यत्वाभावादित्याह –

अनुमानेऽपीति ।

संस्कारकल्पितरूपेण स्वविषयं ज्ञानं सर्वज्ञसन्ततावपि न जनयति । सर्वज्ञज्ञानस्य विषयाभेदेन, संसारित्वप्रसङ्गादित्याह –

सार्वज्ञेऽपीति ।

साक्षादिति ।

कल्पितरूपेणेत्यर्थः ।

अतद्रूपत्वअतः रूपवत्व इति इति ।

संसारसंविदां संसारविधुरशुद्धवेषेण सर्वज्ञज्ञानजनकत्वात् जनकशुद्धाकारेणाभेदात् सर्वज्ञज्ञानस्य असंसाररूपत्व इत्यर्थः ।

तद्विषयत्वायोगादिति ।

शुद्धत्वेन समत्वादिति भावः ।

क्षणान्तरोत्पाद इति ।

स्वसन्ताने क्षणान्तरोत्पाद इत्यर्थः ।

चरमक्षणस्येति ।

सर्वङ्क्षणिकं स्वलक्षणं स्वयमेव स्वस्य लक्षणम् , स्वातिरिक्तेन सङ्गि न भवतीत्यर्थः ।

दुःखं शून्यमिति ।

चतुर्विधभावनाप्रकर्षयुतत्वात् पूर्वज्ञानादुत्पद्यमानं विशुद्धविज्ञानं सन्तानस्यावसानरूपं चरमक्षण इत्युच्यते । तस्य स्वसन्ताने क्षणान्तरानुत्पादकत्वात् असत्वमित्यर्थः ।

चरमक्षणमपि सार्वज्ञज्ञानं विषयतया जनयतीत्यर्थक्रियावत्वमिति, नेत्याह -

न च सार्वज्ञेति ।

चरमत्वानुपपत्तेचरमत्वानपपत्ते चिति इतिरिति ।

एकसन्तानोऽपि कार्ये कारणस्यान्वयानङ्गीकारात् तुल्यस्वभावयोः कार्यकारणभाव एव एकसन्तानतेति वक्तव्यम् । तथा सति चरमक्षणस्यापि सार्वज्ञेन ज्ञानेन एकसन्तानतया चरमत्वानुपपत्तेः । चरमक्षणोदयाख्यमुक्त्यभावप्रसङ्गादित्यर्थः ।

सर्वज्ञज्ञानं प्रति विषयतया जनकत्वेन तत्सन्तानैक्यमेव मुक्तिरिति तत्राह -

न च संवित् संविदो विषय इति ।

संविदात्मना भेदाभावादिति ।

चरमसंविदः सर्वज्ञसंविदा समानत्वात् संविदात्मना ऐक्यात् , संविदात्मना भेदाभावादित्यर्थः ।

अथ क्रियाकारणसत्वहेतुः कारणसत्वप्रतीतिहेतुर्वा इति विकल्प्य दूषयति -

किञ्चेति ।

स्वकारणइदं प्रतीकं न दृष्यतेनिष्पन्नत्वात् नार्थक्रियातो निष्पन्नत्वम् , प्रागेवरूपज्ञाज्ञानादिति निष्पन्नघटस्य स्वनिष्पाद्यार्थक्रियाख्यकार्येण न निष्पाद्यत्वमिति ।

स्वज्ञानार्थक्रियाया इति ।

स्वकार्यरूपज्ञानाख्यार्थक्रियायाः स्वयंसिद्धत्वात् नान्यतः सत्वप्रतीतिरर्थक्रियाया इत्यर्थः ।

ज्ञानाख्यार्थक्रियायाः स्वेन वेद्यत्वात् स्वस्य स्वयमेव बोधकरूपेणार्थक्रियेति नेत्याह -

न हि स्वरूपमेवेति ।

अतोऽर्थक्रियातः सत्वाभावात् युगपत् सर्वं कृत्वा तूष्णीम्भूतस्य स्थायिनः सत्वमविरुद्धमिति भावः ।

विशेषाभावादित्ययुक्तमिति ।

शक्तकारणात् कार्योत्पत्तिसमये सहकारिसम्पत्तिरूपविशेषभावात् विशेषाभावोऽसिद्ध इत्यर्थः ।

अथ कारणस्येति ।

शक्तस्येत्यर्थः ।

अकारणस्यापीति ।

अशक्तस्यापीत्यर्थः ।

अकारणं कारणोत्पत्तय इति ।

असमर्थं समर्थोत्पत्तय इत्यर्थः । असमर्थमपि कार्योदयार्थं कार्योदयानन्तरमितिपूर्ववर्तिसामग्रीरूपस्योत्पत्तय इति वा अर्थः ।

अथ तत् कारणस्येति ।

तदिति सहकार्यपेक्षत्वेनाभिमतवस्तूच्यत इति द्रष्टव्यम् ।

कारणस्य कारणम् अथाकारणमिति ।

सामर्थ्यं प्रति वा सामग्रीरूपं प्रति वा कारणम् अथाकारणमित्यर्थः ।

हेतोः सति कार्य इति ।

कार्यदर्शनत्वादित्यर्थः ।

सत्येव हेताविति ।

अन्वयव्यतिरेकाभ्यामित्यर्थः ।

समेतसहकारिण्येव दर्शनादिति ।

सहकारिसहितहेतौ सत्येव कार्यस्य दर्शनादित्यर्थः ।

तद्विज्ञेयमिति ।

कार्यं विज्ञेयमित्यर्थः ।