अर्थं प्रतिपाद्य इदानीमस्मत्प्रत्ययविषयत्वादिति भाष्यं योजयति -
तदेवमिति ।
व्यञ्जकदर्पणस्य बिम्बादन्यदेशस्थत्ववच्चैतन्यव्यञ्जकान्तःकरणस्य चैतन्यादन्यदेशत्वं भवेदित्याशङ्क्य ध्वनिवद्व्यङ्ग्यसंश्लिष्टतया उपाधित्वात् न भिन्नदेशत्वमित्याह -
अनिदं चित्संवलितत्वेनेति ।
शारीरः क्षेत्रज्ञ इत्याद्यनेकोपाधियुक्तमात्मानं वर्णयति श्रुतिः । तत्र कथमहङ्कारस्यैवोपाधित्वमित्याशङ्क्याहङ्कारात्मतया तत्संस्कारात्मतया वा अवस्थिता अविद्यैवात्मोपाधिः, तदुपहितस्यैव जाग्रदाजाग्रतादिषु इतिदिषु बाह्यबहुविधोपाधियोगनिमित्तोऽयं व्यपदेशभेद इत्याह -
स पुनरेवंभूत इति ।
गतागतमाचरन्निति ।
अविद्योपाधिनाप्रतिबद्धप्रकश एव बाह्यबहुविधोपाध्युपरक्तः सन्नित्यर्थः ।
अद्वितीयरूपस्याच्छन्नत्वात् जीव इत्याह -
जीव इति ।
तेजोरूपान्तःकरणेन ऐक्याध्यासवन्त्वात् विज्ञानघन इत्याह -
विज्ञानघन इति ।
विज्ञानस्य आत्मा विज्ञानात्मेत्याह –
विज्ञानात्मेति ।
सुषुप्तेऽज्ञानैक्येन अध्यस्तं स्वरूपमाह -
प्राप्रज्ञ इतिज्ञ इति ।
शरीरेण तादात्म्याध्यासवद्रूपमाह -
शारीर आत्मेति ।
सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -
सम्प्रसाद इति ।
पूर्यां शेत इति पुरुष इत्याह -
पुरुष इति ।
सर्वान्तर इत्याह –
प्रत्यगात्मेति ।
प्राणात्मरूपमाह -
कर्ता भोक्तेति ।
पञ्चकोशेषुपञ्चकोशे इति प्रतिबिम्बितचैतन्यप्रतिबिम्बतया कोशज्ञ इत्याह -
क्षेत्रज्ञ इति ।
किञ्च न केवलमिति ।
परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वाअधिष्ठानत्वापेयेतियापेक्षितमित्यङ्गीकृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरितत्वमनपेक्षितमपरोक्षत्वमेवाधिष्ठानअधिष्ठनत्वयालमितित्वायालमित्याह भाष्यकार इत्यर्थः ।
तत्साधनार्थमाहेति ।
अपरोक्षत्वसाधनार्थमाहेत्यर्थः ।
नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -
न ह्यात्मन्यप्रसिद्ध इति ।
विषयानुभवकाले प्रमितिविशिष्टविषयसम्बन्धितया विषयप्रमित्योरिव स्वात्मनः प्रसिद्ध्यभावे आत्मान्तरसिद्धेनेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।
विषयानुभवाश्रयतयानात्मनो परोक्षपरोक्षप्रसिद्धिरितित्वसिद्धिरित्याह -
न च संवेद्यज्ञानेनैवेति ।
ज्ञानान्तरेणेति ।
आत्मविषयज्ञानान्तरेणेत्यर्थः ।
भिन्नकालत्व इति ।
विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।
ज्ञानद्वयोत्पाद इति ।
निरवयवस्यैकविषये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।
एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादित्याशङ्क्य तदपि न युक्तमित्याह -
आह मा भूदिति ।
अविरुद्धमिति ।
गमनद्वयस्यैककरणसाध्यत्वाविरोधोऽस्ति, गतिगायत्योस्तु भिन्नेन्द्रियसाध्यत्वात् अविरोध इति भावः ।
परिणामेऽप्यविरुद्धत्वं यौगपद्ये प्रयोजकम् , विरुद्धत्वमयौगपद्ये प्रयोजकमित्याह -
परिणामात्मकमपि न भवतीति ।
यौवनस्थाविरहेतुरित्यत्रपरिणाम ? ...... इत्यध्याहारः ।
परिशेषात् स्वयम्प्रकाशत्वमेवेत्याह -
स्वयं प्रसिद्ध इति ।
अतो बाध्यत्वमारोपितत्वं च नास्तीत्याह -
स्वयमहेयोऽनुपादेय इति ।
अतः सर्वबाधावधित्वं सर्वारोपस्थानत्वं च स्यादित्याह -
सर्वस्य हानोपादानावधिरिति ।
स्वमहिम्नैवेति ।
न त्वहङ्कारेण परिच्छिन्नतया स्फुरितत्वादात्मनोऽधिष्ठानत्वमिति भावः ।