पञ्चपादिका
वक्तव्यकाशिका
 
तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितःप्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात्अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति श्रुतिस्मृतिप्रवादेषु गीयते

किञ्च केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -

अपरोक्षत्वाच्च

तत्साधनार्थमाह

प्रत्यगात्मप्रसिद्धेरिति

ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यतेआहमा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि भवति विरुद्धं, यथा यौवनस्थाविरहेतुःतस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः

अर्थं प्रतिपाद्य इदानीमस्मत्प्रत्ययविषयत्वादिति भाष्यं योजयति -

तदेवमिति ।

व्यञ्जकदर्पणस्य बिम्बादन्यदेशस्थत्ववच्चैतन्यव्यञ्जकान्तःकरणस्य चैतन्यादन्यदेशत्वं भवेदित्याशङ्क्य ध्वनिवद्व्यङ्ग्यसंश्लिष्टतया उपाधित्वात् न भिन्नदेशत्वमित्याह -

अनिदं चित्संवलितत्वेनेति ।

शारीरः क्षेत्रज्ञ इत्याद्यनेकोपाधियुक्तमात्मानं वर्णयति श्रुतिः । तत्र कथमहङ्कारस्यैवोपाधित्वमित्याशङ्क्याहङ्कारात्मतया तत्संस्कारात्मतया वा अवस्थिता अविद्यैवात्मोपाधिः, तदुपहितस्यैव जाग्रदाजाग्रतादिषु इतिदिषु बाह्यबहुविधोपाधियोगनिमित्तोऽयं व्यपदेशभेद इत्याह -

स पुनरेवंभूत इति ।

गतागतमाचरन्निति ।

अविद्योपाधिनाप्रतिबद्धप्रकश एव बाह्यबहुविधोपाध्युपरक्तः सन्नित्यर्थः ।

अद्वितीयरूपस्याच्छन्नत्वात् जीव इत्याह -

जीव इति ।

तेजोरूपान्तःकरणेन ऐक्याध्यासवन्त्वात् विज्ञानघन इत्याह -

विज्ञानघन इति ।

विज्ञानस्य आत्मा विज्ञानात्मेत्याह –

विज्ञानात्मेति ।

सुषुप्तेऽज्ञानैक्येन अध्यस्तं स्वरूपमाह -

प्राप्रज्ञ इतिज्ञ इति ।

शरीरेण तादात्म्याध्यासवद्रूपमाह -

शारीर आत्मेति ।

सुषुप्त्यवस्थया ऐक्येनाध्यस्तं रूपमाह -

सम्प्रसाद इति ।

पूर्यां शेत इति पुरुष इत्याह -

पुरुष इति ।

सर्वान्तर इत्याह –

प्रत्यगात्मेति ।

प्राणात्मरूपमाह -

कर्ता भोक्तेति ।

पञ्चकोशेषुपञ्चकोशे इति प्रतिबिम्बितचैतन्यप्रतिबिम्बतया कोशज्ञ इत्याह -

क्षेत्रज्ञ इति ।

किञ्च न केवलमिति ।

परिच्छिन्नतया स्फुरितत्वम् अधिष्ठानत्वाअधिष्ठानत्वापेयेतियापेक्षितमित्यङ्गीकृत्य परिच्छिन्नतया स्फुरितत्वं सम्पादितम् । इदानीं परिच्छिन्नतया स्फुरितत्वमनपेक्षितमपरोक्षत्वमेवाधिष्ठानअधिष्ठनत्वयालमितित्वायालमित्याह भाष्यकार इत्यर्थः ।

तत्साधनार्थमाहेति ।

अपरोक्षत्वसाधनार्थमाहेत्यर्थः ।

नित्यानुमेय आत्मा कथमपरोक्षतया सिद्ध इति नेत्याह -

न ह्यात्मन्यप्रसिद्ध इति ।

विषयानुभवकाले प्रमितिविशिष्टविषयसम्बन्धितया विषयप्रमित्योरिव स्वात्मनः प्रसिद्ध्यभावे आत्मान्तरसिद्धेनेव मयेदमिति सम्बन्धावभासो न स्यादित्यर्थः ।

विषयानुभवाश्रयतयानात्मनो परोक्षपरोक्षप्रसिद्धिरितित्वसिद्धिरित्याह -

न च संवेद्यज्ञानेनैवेति ।

ज्ञानान्तरेणेति ।

आत्मविषयज्ञानान्तरेणेत्यर्थः ।

भिन्नकालत्व इति ।

विषयानुभवकालात् भिन्नकालत्व इत्यर्थः ।

ज्ञानद्वयोत्पाद इति ।

निरवयवस्यैकविषये भिन्नविषये वा युगपद् ज्ञानद्वयोत्पाद इति भावः ।

एकस्य युगपत् कार्त्स्न्येन परिणामद्वयं स्यादित्याशङ्क्य तदपि न युक्तमित्याह -

आह मा भूदिति ।

अविरुद्धमिति ।

गमनद्वयस्यैककरणसाध्यत्वाविरोधोऽस्ति, गतिगायत्योस्तु भिन्नेन्द्रियसाध्यत्वात् अविरोध इति भावः ।

परिणामेऽप्यविरुद्धत्वं यौगपद्ये प्रयोजकम् , विरुद्धत्वमयौगपद्ये प्रयोजकमित्याह -

परिणामात्मकमपि न भवतीति ।

यौवनस्थाविरहेतुरित्यत्रपरिणाम ? ...... इत्यध्याहारः ।

परिशेषात् स्वयम्प्रकाशत्वमेवेत्याह -

स्वयं प्रसिद्ध इति ।

अतो बाध्यत्वमारोपितत्वं च नास्तीत्याह -

स्वयमहेयोऽनुपादेय इति ।

अतः सर्वबाधावधित्वं सर्वारोपस्थानत्वं च स्यादित्याह -

सर्वस्य हानोपादानावधिरिति ।

स्वमहिम्नैवेति ।

न त्वहङ्कारेण परिच्छिन्नतया स्फुरितत्वादात्मनोऽधिष्ठानत्वमिति भावः ।