प्रतिजानतेति ।
अनर्थहेतुनिवर्तकब्रह्मज्ञानाय विचारः कर्तव्य इति प्रतिजानतेत्यर्थः ।
अविद्येति मन्यन्त इति ।
अविद्यान्वयव्यतिरेकाभ्यामविद्याकार्यतया अविद्येति मन्यन्त इत्यर्थः ।
न केवलमविद्याकार्यत्वात् अविद्यात्वं विद्यानिवर्त्यत्वाच्च अविद्यात्वमध्यासस्येत्याह -
तद्विवेकेन चेति ।
एतद्भाष्यं योजयति -
अध्यस्तातद्रूपेति ।
ध्यस्तत्वादेवातद्रूप इत्यर्थः ।
आहुरित्यस्यार्थमाह -
प्रसिद्धमेव लोक इति ।
केषां प्रसिद्धप्रसिद्ध इतिमित्यत आह -
ब्रह्मविदो वदन्तीति ।
विद्यानिवर्त्यत्वादध्यस्ताहङ्कारादेरविद्यात्वमाहुरिति भावः ।
अहङ्कारादीनामविद्यान्वयव्यतिरेकात् विद्यानिवर्त्यत्वाच्च अविद्यात्वं चेत् सूत्रकारेणाविद्यानिवर्तक ब्रह्मज्ञानाय विचारः कर्तव्य इत्येवमेव वक्तव्यम् । न त्वनर्थं हेत्वहङ्काराविद्याध्यासनिवर्तकज्ञानायेत्याशङ्कते -
यद्येवमिति ।
सुषुप्ते केवलाविद्यया अनर्थकरत्वाभावात् । पुरुषाकाङ्क्षायाः तन्निवृत्तिविषयत्वाभावाद्देहाद्यध्यासस्यानर्थकरत्वादेव तन्निवृत्तिविषयत्वादनर्थहेत्वध्यासनिवर्तकज्ञानायेत्युक्त्वा तस्य ज्ञाननिवर्त्यत्वसिद्धयेऽविद्यात्वं पश्चादुपपादनीयमित्याह –
नैतत्सारमित्यादिना ।
अविद्येत्येवोच्यमाने अविद्यानिवर्तकज्ञानायेति सूत्रकारेणोक्त इत्यर्थः ।
प्रकृतोपयोगितयेति ।
प्रवर्तकसूत्रत्वात् प्रवर्तकत्वोपयोगितयानर्थहेत्वध्यासनिवर्तकज्ञानायेत्युज्ञानेपेत्युपक्षप्येत्यर्थःपक्षिप्येत्यर्थः ।
तदेतदाहेति ।
अध्यासस्याविद्यात्वे तस्य तज्जन्यानर्थस्य चासत्यतया अधिष्ठानस्पर्शाभावात् ज्ञानेन निवृत्तिः फलतया आगच्छति तत्फलमाहेत्यर्थः । अत्राधिष्ठानेन सम्बन्धाभाव एवोच्यते ।
असत्यत्वेन ज्ञाननिवर्त्यत्वाख्याविद्यात्वफलं नोच्यत इत्याशङ्क्य सम्बन्धाभावोक्त्या तदप्युक्तमित्याह -
अवास्तवमनर्थं दर्शयतीति ।
प्रतिज्ञा हीयेतेति ।
ज्ञाननिवर्त्यत्वं यत् सूत्रितं तत् हीयेतेत्यर्थः ।