पञ्चपादिका
वक्तव्यकाशिका
 
ननु ब्रह्मविद्यामनर्थहेतुनिबर्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृत्वाद्यनर्थबीजमुपदर्शनीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह

तमेतमेवंलक्षणमध्यासं पण्डिताः

प्रमाणकुशलाः

अविद्ये’ति मन्यन्तेतद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुः

अध्यस्तातद्रूपसर्पविलयनं कुर्वत् वस्तुस्वरूपं रज्जुरेवेत्यवधारयत् विज्ञानं विद्येति प्रसिद्धमेव लोके ब्रह्मविदो वदन्तियद्येवं अध्यास इति प्रक्रम्य पुनस्तस्याविद्याभिधानव्याख्याने यत्नगौरवात् वरमविद्येत्येवोपक्रमः कृतः ? नैतत् सारम् ; अविद्येत्येवोच्यमान आच्छादकत्वं नाम यत् तस्यास्तत्त्वं, तदेवाभिहितं स्यात् , अतद्रूपावभासितया अनर्थहेतुत्वम्अतोऽतद्रूपावभासित्वमध्यासशब्देन प्रकृतोपयोगितया उपक्षिप्य पुनस्तयाविद्याशब्दतया विद्यामात्रापनोदनार्हत्वं दर्शनीयम्

तदेतदाह

यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यते

इत्यवास्तवमनर्थं दर्शयतिवास्तवत्वे हिज्ञानमात्रात् तद्विगमःइति प्रतिज्ञा हीयेत

प्रतिजानतेति ।

अनर्थहेतुनिवर्तकब्रह्मज्ञानाय विचारः कर्तव्य इति प्रतिजानतेत्यर्थः ।

अविद्येति मन्यन्त इति ।

अविद्यान्वयव्यतिरेकाभ्यामविद्याकार्यतया अविद्येति मन्यन्त इत्यर्थः ।

न केवलमविद्याकार्यत्वात् अविद्यात्वं विद्यानिवर्त्यत्वाच्च अविद्यात्वमध्यासस्येत्याह -

तद्विवेकेन चेति ।

एतद्भाष्यं योजयति -

अध्यस्तातद्रूपेति ।

ध्यस्तत्वादेवातद्रूप इत्यर्थः ।

आहुरित्यस्यार्थमाह -

प्रसिद्धमेव लोक इति ।

केषां प्रसिद्धप्रसिद्ध इतिमित्यत आह -

ब्रह्मविदो वदन्तीति ।

विद्यानिवर्त्यत्वादध्यस्ताहङ्कारादेरविद्यात्वमाहुरिति भावः ।

अहङ्कारादीनामविद्यान्वयव्यतिरेकात् विद्यानिवर्त्यत्वाच्च अविद्यात्वं चेत् सूत्रकारेणाविद्यानिवर्तक ब्रह्मज्ञानाय विचारः कर्तव्य इत्येवमेव वक्तव्यम् । न त्वनर्थं हेत्वहङ्काराविद्याध्यासनिवर्तकज्ञानायेत्याशङ्कते -

यद्येवमिति ।

सुषुप्ते केवलाविद्यया अनर्थकरत्वाभावात् । पुरुषाकाङ्क्षायाः तन्निवृत्तिविषयत्वाभावाद्देहाद्यध्यासस्यानर्थकरत्वादेव तन्निवृत्तिविषयत्वादनर्थहेत्वध्यासनिवर्तकज्ञानायेत्युक्त्वा तस्य ज्ञाननिवर्त्यत्वसिद्धयेऽविद्यात्वं पश्चादुपपादनीयमित्याह –

नैतत्सारमित्यादिना ।

अविद्येत्येवोच्यमाने अविद्यानिवर्तकज्ञानायेति सूत्रकारेणोक्त इत्यर्थः ।

प्रकृतोपयोगितयेति ।

प्रवर्तकसूत्रत्वात् प्रवर्तकत्वोपयोगितयानर्थहेत्वध्यासनिवर्तकज्ञानायेत्युज्ञानेपेत्युपक्षप्येत्यर्थःपक्षिप्येत्यर्थः ।

तदेतदाहेति ।

अध्यासस्याविद्यात्वे तस्य तज्जन्यानर्थस्य चासत्यतया अधिष्ठानस्पर्शाभावात् ज्ञानेन निवृत्तिः फलतया आगच्छति तत्फलमाहेत्यर्थः । अत्राधिष्ठानेन सम्बन्धाभाव एवोच्यते ।

असत्यत्वेन ज्ञाननिवर्त्यत्वाख्याविद्यात्वफलं नोच्यत इत्याशङ्क्य सम्बन्धाभावोक्त्या तदप्युक्तमित्याह -

अवास्तवमनर्थं दर्शयतीति ।

प्रतिज्ञा हीयेतेति ।

ज्ञाननिवर्त्यत्वं यत् सूत्रितं तत् हीयेतेत्यर्थः ।