अविवेकिव्यवहारस्य अध्यासमूलत्वेऽपि न विवेकिव्यवहारोऽध्यासमूल इति तत्राह -
इतश्चैतदेवम् इति ।
विप्रतिपन्नो विवेकिव्यवहारोऽध्यासमूलः, अध्यासपूर्वकव्यवहारसमानव्यवहारत्वात् , पश्वादिव्यवहारवत् इत्यनुमानम् । तत्र पश्वादिदृष्टान्ते अध्यासमूलतां व्यवहारस्य दर्शयति -
तथा चेति ।
अध्यासानुमाने हेतुभूतस्य व्यवहारस्य विवेकिष्वपि वृत्तिमाह –
तदेकरूपेति ।
विवेकिजनेषु हेतुदर्शनात् हेतुमन्तमध्यासमनुमिमते ।
अतः तदेकरूपेति ।
दृष्टान्तेऽपि अध्याससद्भावे प्रमाणं चोदयति -
ननु पश्वादीनामिति ।
अहङ्कारानुबन्धः अहमित्यभिमानसम्बन्ध इत्यर्थः ।
पश्चादीनामितिपश्वादीनां बाह्यप्रत्यक्षेण देहसिद्धेर्मानसप्रत्यक्षेणात्मसिद्धेः देहात्मनोः भेदस्य चोभयप्रत्यक्षासिद्धेः अनुमानागमपरिज्ञानाभावाच्च ताभ्यामपि भेदासिद्धेः शुक्तिरजतयोरिवाध्यासः परिशिष्यत इत्याह -
प्रौढमतिभ्य इति ।
बुद्धिमन्मनुष्येभ्य इत्यर्थः ।
भेदस्य स्वरूपत्वादेव पश्वादीनामात्मदेहपदार्थग्राहिबाह्यमानसप्रत्यक्षज्ञानाभ्यां भेदोऽपि सिद्ध इत्यत आह –
अन्यथेति ।
पश्वादीनां पदार्थज्ञानेन भेदस्य सिद्धत्वे मनुष्येष्वपि पदार्थज्ञाने सति भेददर्शनस्यापि विद्यमानत्वात् व्यतिरेकोपदेशानर्थक्यप्रसङ्ग इत्याह –
तदनर्थकत्वप्रसङ्गादिति ।
एवमेवेति ।
पश्वादीनां स्वाभाविकप्रत्यक्षेण भेदसिद्धिरिव इत्यर्थः ।
सर्वः सम्प्रतिपद्येत इति ।
देहादात्मनोआत्मनोर्भेदमिति भेदं प्रतिपद्येत इत्यर्थः ।