स्वाभाविकप्रत्यक्षेण देहादात्मनो भेदसिद्धिः गोपालादिषु विद्यते, तेषामदृष्टार्थप्रवृत्तिदर्शनादिति चोदयति -
ननु गोपालाङ्गनादयगोपालाङ्गनायेति इति ।
तेषामपि न प्रत्यक्षेण विवेकग्रहः किन्तु आप्तवचनादित्याह -
न तदभिज्ञेति ।
प्रत्यक्षश्चेद्विवेकः विशेषतः प्रत्यगात्मानं प्रतिपद्येरन् इत्याह -
तथा च त इति ।
निगमनभाष्यमुपपन्नमित्याह –
तस्माद्युक्तउक्तमुक्तमितिमुक्तमिति ।
प्रत्यक्षादिव्यवहारः पश्वादिभिर्विवेकिनामपि समानो युक्त इति भाष्ये योजना ।
एवं तावत् दृष्टव्यावृत्तानुवाद इतिप्रत्यक्षादीनीत्युक्तानुवादः - शास्त्रीये त्विति भाष्यस्याशङ्काप्रदर्शनपूर्वकं तात्पर्यमाह -
एवं तावदित्यादिना ।
अस्तु प्रमाणव्यवहार इन्द्रियापेक्षा । न तु देहापेक्षेत्याशङ्क्य सत्वचस्य भूमावुप्तबीजस्य कार्यकरत्ववत् गोलकप्रतिष्ठस्यैव कार्यकरत्वाद्विद्यत एव देहापेक्षेत्याह -
तानि च नाधिष्ठानशून्यानीति ।
तर्हि गोलकप्रदेशैरेव अलं, मास्तु देह इत्याशङ्क्य उत्पाटितगोलकप्रतिष्ठेन्द्रियस्य ज्ञानजनकत्वाभावात् देहांशभूते गोलक एवापेक्षेत्याह -
अधिष्ठानं च देह इति ।
देहांशभूतगोलकमधिष्ठानमित्यर्थः ।
देहापेक्षत्वेऽपि न तस्यात्मन्यध्यासापेक्षा, अध्यस्तत्वेऽपि अध्यस्तदेहविशिष्टात्मा प्रमाणादिव्यवहारोपादानं न भवति । किन्तु आत्मैवोपादनम् , अध्यासस्तु निमित्तमात्रमिति, नेत्याह -
न तेनेति ।
अनुभवारूढमिति ।
मनुष्योऽहं जानामीत्यध्यस्तदेहादिसम्पिण्डितात्माश्रयत्वं प्रत्यक्षादीनां साक्ष्यनुभवसिद्धमित्यर्थः ।
कार्यतोऽपीति ।
समानव्यवहाराख्यकार्यतोऽपि अध्याससद्भावमापद्येत्यर्थः ।
प्रतिपन्नात्मेति ।
देहव्यतिरिक्तत्वेन प्रतिपन्नात्मेत्यर्थः ।
तत्रेति ।
शास्त्राख्ययागादिकर्तव्यज्ञानतन्निमित्तयागादावित्यर्थः ।