पञ्चपादिका
वक्तव्यकाशिका
 
तदेव दर्शयति — तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः ‘अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिः । आश्रमाध्यासः — ‘न ह वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् स एतामिष्टिं निर्वपेदि’ति । आदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः । एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपः’ इत्यादिना ‘सर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां न व्यभिचरति’ इत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम् — अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम् इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम् । अतस्मिन् अयुष्मदर्थे अनिदञ्चिति तद्बुद्धिः युष्मदर्थावभासः इत्यर्थः । तदाह — तद्यथा पुत्रभार्यादिष्वित्यादि ॥

विधेः बोद्धारमधिकारिणं ब्राह्मणादिशब्दैरनुवदन् आगमोऽपि चेतनाचेतनयोरैक्यावभासं दर्शयतीत्याह -

तदेव दर्शयतीति ।

स्नात्वेति ।

गृहस्थो भूत्वेत्यर्थः । ज्योगामयावी उज्ज्वलामयावानित्यर्थः ।

लक्षणभाष्ये परत्रावभास इत्येकेन परशब्देन लक्षणमुक्तम् । अत्र तु अतस्मिंस्तद्बुद्धिरित्यवोचाम इति परशब्दद्वयेन लक्षणमनूद्यत इति पूर्वापरविरोधः प्राप्त इत्याशङ्क्य लक्षणभाष्यान्ते परशब्दद्वयेनोक्तं लक्षणमनूद्यत इति दर्शयितुमन्तग्रहणं करोति ।

सर्वथापि तु इति ।

सिंहो देवदत्त इतिवत् गौणावभासं व्यावर्तयति -

निरुपचरितमिति ।

लक्षणत युष्मदर्थात् अन्तःकरणात् प्रतीतितोप्रतीतितेति युष्मदर्थः पुत्रादिरिति भेदादाह -

कस्य युष्मदर्थस्येति ।

वस्तुतोऽस्मदर्थः चैतन्यम् , प्रतीतितोऽस्मदर्थः अन्तःकरणादिरिति भेदादाहभेदानाह इति -

कस्मिन्नस्मदर्थ इति ।

भाष्यं योजयति -

अतस्मिन्नित्यादिना ।

अयुष्मदर्थ इत्युक्ते युष्मदर्थाभावं प्राप्तं व्यावर्तयति -

अनिदं चिति इति ।

अनिदं चिति तद्बुद्धिरित्युक्तेऽनिदं चित्यनिदं चिद्बुद्धिरध्यास इत्युक्तिं व्यावर्तयति ।

युष्मदर्थावभास इत्यर्थः इति ।

तदाहेति ।

आत्मानात्मनोरितरेतराध्यासं पुरस्कृत्येत्यत्र सामान्येन उक्ताध्यासस्य विभागमाहेत्यर्थः ।