पुत्रादीनां हस्ताद्यङ्गेषु छिन्नेषु नास्ति छिन्नहस्तोऽहमिति प्रतीतिः । अतो न मुख्य इत्याह –
कथमिति ।
छिन्नहस्तोऽस्मीति प्रतीत्यभावेऽपि बाह्यपुत्रादिगत धर्मान्तरस्य मुख्याध्यासो भवत्येवेत्याह -
तद्यथा बालक इत्यादिना ।
मातुलादिना पुत्रे पूजिते अहमेव त्वया पूजित इति रीत्या आशङ्क्याह -
वस्त्रालङ्कारादिना इति ।
पुरुषान्तरेण पुत्रस्य उपनयनादौ कृते यथा अहमुपनीत इत्यभिमानाभावः तद्वत् न पूजितत्वाभिमानः - इत्याशङ्क्य पुरुषान्तरस्य पितरं प्रति उपनेताहमस्मीत्यभिमानाभावात् अस्याप्युपनीतोऽस्मीति अभिमानाभावः । अत्र पूजयितुरपि पितरमेवापुजमित्यभिमानात् पितुः पूजितत्वाभिमान इत्याह –
पूजयितापीति ।
अव्यक्तत्वादिति ।
चित्तपरिपाकापरिपाकोपाक इतिभावादित्यर्थः । अनन्तरः स्वराष्ट्रसमीपदेशाभिमानीत्यर्थः ।
बाह्यशब्दाभिप्रायमाह –
प्रसिद्धव्यतिरेकस्येति ।
भाष्यग्रन्थतः उत्तरोत्तराध्यासोपहितः प्रत्यगात्मा पूर्वपूर्वाध्यासाधिष्ठानमित्यभिप्रेत्य आत्मन्यध्यस्यतीत्यत्र आत्मशब्दार्थमाह –
अस्मदर्थश्चेति ।
आत्मशब्दार्थश्चेत्यर्थः विषय इत्यधिष्ठानमुच्यते । विषयभूतोऽस्मदर्थश्चाहं प्रत्ययिसम्भिन्न एवानिदं चिदंश इत्यन्वयः । अहङ्कारस्य संस्कारावच्छिन्नः प्रत्यगात्माधिष्ठानं तस्य च संस्कारस्य पूर्वाहङ्कारावच्छिन्न अधिष्ठानमतोऽहङ्कारं प्रति स्थूलकार्यरूपाध्यासान्तरानास्कन्दितस्याधिष्ठानत्वात् , शुद्धप्रत्यगात्मनोऽनधिष्ठानत्वमुच्यत इति द्रष्टव्यम् । धर्मिणोऽपीत्यत्र ग्रहणमित्यध्याहारः ।
‘ब्राह्मणो यजेत’ ‘कृष्णकेशोऽग्नीनादधीत’ इत्यादिशास्त्रेण च धर्ममूलत्वेन कर्मविधानाच्च धर्मप्राधान्यात् धर्मग्रहणमित्याह –
तन्निमित्तश्चेति ।
देहधर्मानित्यत्र धर्मशब्दस्य धर्म्युपलक्षकत्ववत् इन्द्रियधर्मानित्यत्र धर्म्युपलक्षकत्वं प्राप्तं व्यावर्तयति -
धर्ममात्रमिति ।
गृह्यत इत्यध्याहारः ।
अन्तःकरणाहंप्रत्ययिनोरेकत्वात् पुनरुक्तिः स्यादिति शङ्कां व्युदस्यति -
अन्तःकरणमित्यहंप्रत्ययिन इति ।
कामादीनामहं कामीत्यादिसम्बधित्वेनैवाध्यासः, न तु अहं काम इत्यादितादात्म्येनाध्यास इति भावः ।
स्वशब्दस्यात्मवाचित्वं व्यावर्तयति -
स्वशब्देनेति ।
प्रचारः, चरणं चारः इति व्युत्पत्त्या परिणामोऽभिधीयतनिधीयत इति इत्याह -
कामसङ्कल्पकर्तृत्वादिः परिणाम इति ।
स्वप्रचार इत्यत्र प्रेत्युपसर्गार्थमाह -
अनेकविध इति ।
प्रविभक्तेषु ब्रह्मादिस्थावरान्तेषु योनिभेदेषु यन्निमित्तं यैर्निमित्तभूतैः कामाद्यैश्चरति इति व्युत्पत्त्या प्रचारशब्दस्य कामादिरर्थ इत्याह –
यन्निमित्तमिति ।
साक्षादीक्षत इति साक्षीति साक्षिशब्दस्य अव्यवधानमर्थ इत्याह –
साक्षादव्यवधानमवभासयतीति ।
अहङ्कारस्यैव परिणामव्यवधानेन कस्मात् न साधकत्वमित्याशङ्क्य चित्वादेव परिणामहीनावस्थां विहाय परिणामावस्थाप्राप्तिर्नास्तीत्याह -
हानोपादानशून्य इति ।
हानोपादानशून्यत्वं कुत इति अयोग्यत्वादित्याह –
अविकारित्वेनेति ।
कुतोऽयोग्यत्वमिति केनापि संसर्गाभावादित्याह –
असङ्गितयेति ।
कथं पुनः सर्वान्तरस्यात्मनः प्रत्यञ्चनप्रत्यगञ्च नमित्याशङ्केतिमित्याशङ्क्य बाह्यदेहादिषु विप्रसृतचैतन्यस्य क्रमेण देहादिभ्यो निष्कृष्य अनुसन्धानावस्थायामन्तरन्तरनुप्रवेश भ्रमापेक्षया इत्याह -
स एव देहादिष्विति ।
बहिर्भावमापद्यमानेष्विति ।
पूर्वमहन्तया प्रतिपन्नेषु पश्चाद्विवेकानुसन्धानसमये आत्मनः सकाशात् बहिर्भावमापद्यमानेष्वित्यर्थः ।
घटस्यापि स्वरूपत्वमस्तीत्याशङ्क्य स्वरूपमाभासस्तस्य, निरुपचरितस्वरूपस्त्वात्मेत्याह -
निरुपचरित इति ।