अनन्तः कथमिति ।
ज्ञाननिवर्त्यत्वादिति भावः ।
यदि स्यादिति ।
अभावविलक्षणत्वे सति अनादित्वादात्मवदनन्तश्चेदित्यर्थः ।
मिथ्याप्रत्ययरूप इत्यत्र मिथ्याप्रत्ययसदृशः, न तु मिथ्येत्युच्यत इति शङ्कानिरासार्थमाह –
रूपग्रहणमिति ।
तेनेति कर्तृत्वभोक्तृत्वशक्तेरप्यध्यासहेतुकत्वेनेत्यर्थः ।
कर्तुर्भोक्तुश्च सत इति ।
स्वत एव कर्तृत्वादिशक्तिमत इत्यर्थः ।
दोषप्रवर्तनमिति ।
रागद्वेषजननेन प्रवृत्तिकारणमित्यर्थः ।
येषामिति ।
साङ्ख्यव्यतिरिक्तानामित्यर्थः ।
मिथ्यात्वसिद्धय इति ।
अहंममाभिमानाख्याध्याससिद्धय इत्यर्थः ।