अनर्थस्य प्रहाणाय इति वक्तव्यम् इत्यत आह -
हेतोः प्रहाण्या हीति ।
शास्त्रप्रामाण्यात् निवर्ततामिति न, व्यरिरिक्तात्मज्ञानेऽपि अध्यासानुवृत्तिदर्शनादित्याह -
तथाहि मनुष्यादीति ।
विविक्तोऽपि विविक्तात्मविषयोऽपीत्यर्थः ।
सादित्वानादित्वयोर्विनाशाविनाशप्रयोजकत्वायोगात् विरोधिसन्निपातासन्निपातयोरेव प्रयोजकत्वादनादिरपि विरोधिसन्निपाते नश्यतीत्याह -
नायं दोष इति ।