शास्त्रजन्यब्रह्मविद्यायाः फलं आनन्दावाप्तिः, नानर्थनिवृत्तिः अतोऽनर्थहेतोः प्रहाणायेत्युक्तमयुक्तमित्याक्षिपति -
ननु निरतिशयानन्दमिति ।
अन्यं अन्यत्वेन प्रसिद्धमस्य प्रत्यगात्मनो महिमानं महद्रूपमिति यदा पश्यतीति योजना ।
न वक्तव्यमिति ।
वक्तव्यं न भवति । आत्मैकत्वविद्याप्रतिपत्तय इति शास्त्रजन्यविद्याविषयोक्त्या निरतिशयसुखावाप्तिफलमुक्तमित्यर्थः ।
आनन्दस्य पुरुषार्थत्वे कथं फलत्वेन वक्तुमयोग्यत्वमित्ययोग्यत्वमुक्तं मत्वा चोदयति -
कथमिति ।
आत्मैकत्वविद्यायाः प्रागेवंभूतब्रह्मप्राप्तिर्भवितव्येत्यधिकारी स्वयमेव प्रयोजनत्वेन स्वीकरोत्यतो विषयनिर्देशात् पृथक् न वक्तव्यमित्याह –
आत्मैकत्वविद्येति ।
शास्त्रस्य विषय इत्यत्र उक्त इत्यध्याहारः ।
अग्निसंयुक्तनवनीतपिण्डस्य पश्चाद्यथा घृतत्वं जन्यते तद्वन्निरतिशयानन्दाद्वयचित्स्वभावं ब्रह्म, आत्मनस्तेनैक्यमनादिसिद्धं विषयत्वेन निर्दिष्टम् , अतो ज्ञानाग्निसंसर्गानन्तरमानन्दरूपेण जायते ब्रह्म, अतो ज्ञानसंसर्गादुत्तरकालीनमानन्दत्वं ततः प्राक्तनविषयोक्त्या नोक्तमिति आशङ्क्य आनन्दस्य जन्यत्वाभावात् विषयोक्त्या उक्तमेवेत्याह -
न सा विषयाद् बहिरिति ।
समस्तप्रपञ्चशून्यं ब्रह्मेति श्रुत्या निर्दिष्टं तदैक्यलक्षणविषयोक्तौ बन्धनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि न पृथग्वक्तव्यमित्याशङ्क्य सत्यबन्धनिवृत्तित्वं ब्रह्मणः स्वरूपम् , अतस्तदैक्यरूपविषयोक्तौ सत्यबन्धनिवृत्तिः प्रयोजनत्वेनोक्ता स्यात् । प्रातिभासिकबन्धनिवृत्तिस्तु ज्ञानोदयनान्तरीयकसिद्धाप्रयोजनत्वेन इदानीमुच्यत इत्याह -
समूलानर्थहानिस्त्विति ।
पूर्वग्रन्थोक्तमनर्थहेतुनिवृत्तेः बहिष्ट्वं प्रातिभासिकबन्धनिवृत्तेः उक्तमित्यजानन् परमार्थबन्धनिवृत्तेः उक्तमिति मत्वा चोदयति -
अनर्थहेतुप्रपहाणमितिप्रहाणमपि तर्हीति ।
प्रतिपादनपूर्वकमेवेति निष्प्रपञ्चरूपेण ब्रह्मप्रतिपादनपूर्वकमेवेत्यर्थः ।
पदार्थप्रतिपादकवाक्यं नास्तीति तत्राह –
तद्यथेति ।
प्रपञ्चस्य ब्रह्मरूपेणैकरूपेणैव रूपत्वभिधानादितिरूपवत्वाभिधानात् जगद् ब्रह्मणि निर्दिश्य ब्रह्मण एव सत्यत्वाभिधानाच्च निरस्तप्रपञ्चं ब्रह्म प्रतिपाद्यत इति भावः ।
एकं वाक्यमिति ।
तत्त्वमसीति तादात्म्यवाक्येन एकवाक्यमित्यर्थः ।
ब्रह्मगतप्रपञ्चनिवृत्तेः ब्रह्मात्मैक्यरूपविषयमात्रत्वेऽपि जीवस्यानर्थयोगित्वादेव अनर्थनिवृत्त्यभावात् न तस्याविषयान्तर्भाव इति तत्राह -
तथा सति तादृशेनेति ।
निष्प्रपञ्चब्रह्मणा एकतां गच्छन् जीवः स्वगतानर्थहेतुभूताग्रहणरूपाविद्यामहं मनुष्य इत्याद्यन्यथाग्रहणं च निर्लेपं निश्शेषं पराकृत्यैव पश्चात् ब्रह्मैक्येन महावाक्यरूपशास्त्रेण प्रमीयत इत्यर्थः ।
यद्येवमिति ।
पारमार्थिकबन्धनिरासस्तु प्रतिपाद्यविषयान्तर्भूतोऽपि प्रातिभासिकाविद्यातत्कार्यनिरासो ज्ञाननान्तरीयक इति विषयोक्त्या न तस्योक्तिरित्यर्थः ।
न शब्दस्येति ।
ब्रह्मप्रतिपादकशब्दस्य एकत्वप्रतिपादकशब्दस्य चेत्यर्थः ।
युक्तञ्चैतदिति ।
नान्तरीयकतयाविद्यादिप्रहाणनिष्पत्तिर्युक्ता तत्त्वावभासविरोधित्वात् अविद्यातत्कार्यत्वाच्चेत्यर्थः ।