पञ्चपादिका
वक्तव्यकाशिका
 
ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मावाप्तिसाधनं ब्रह्मविद्या यो वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यादिश्रुतिभ्यः ; तस्मान्निरतिशयसुखावाप्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं तरति शोकमात्मवित्’ (छा. उ. ७-१-३) जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरुषार्थत्वाच्च ? वक्तव्यम्कथम् ? ‘आत्मैकत्वविद्याप्रतिपत्तयेइत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेनानन्दात्मकब्रह्मस्वरूपताप्राप्तिः जीवस्य विषयतयैव संवृत्ता सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समूलानर्थहानिस्तु बहिः शास्त्रविषयाद्ब्रह्मात्मरूपात्अनर्थहेतुप्रहाणमपि तर्हि पृथङ्निर्देष्टव्यम् ? यतः सर्वेषु वेदान्तेष्वलौकिकत्वाद्ब्रह्मणस्तत्प्रतिपादनपूर्वकमेव जीवस्य तद्रूपता प्रतिपाद्यतेतद्यथा — ‘सदेव सोम्येदमग्र आसीदि’त्युपक्रम्यऐतदात्म्यमिदं सर्वं तत् सत्यं आत्मे’त्यवसानं निरस्तसमस्तप्रपञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्लेपमनर्थहेतुमग्रहणमन्यथाग्रहणं तथा निश्चीयत इतियद्येवं ब्रह्मात्मावगतिनान्तरीयकम् अनर्थहेतोरविद्यायाः प्रहाणं, शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यतेयुक्तं चैतत् हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम्तस्मात् पूर्वावसितमतद्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति

शास्त्रजन्यब्रह्मविद्यायाः फलं आनन्दावाप्तिः, नानर्थनिवृत्तिः अतोऽनर्थहेतोः प्रहाणायेत्युक्तमयुक्तमित्याक्षिपति -

ननु निरतिशयानन्दमिति ।

अन्यं अन्यत्वेन प्रसिद्धमस्य प्रत्यगात्मनो महिमानं महद्रूपमिति यदा पश्यतीति योजना ।

न वक्तव्यमिति ।

वक्तव्यं न भवति । आत्मैकत्वविद्याप्रतिपत्तय इति शास्त्रजन्यविद्याविषयोक्त्या निरतिशयसुखावाप्तिफलमुक्तमित्यर्थः ।

आनन्दस्य पुरुषार्थत्वे कथं फलत्वेन वक्तुमयोग्यत्वमित्ययोग्यत्वमुक्तं मत्वा चोदयति -

कथमिति ।

आत्मैकत्वविद्यायाः प्रागेवंभूतब्रह्मप्राप्तिर्भवितव्येत्यधिकारी स्वयमेव प्रयोजनत्वेन स्वीकरोत्यतो विषयनिर्देशात् पृथक् न वक्तव्यमित्याह –

आत्मैकत्वविद्येति ।

शास्त्रस्य विषय इत्यत्र उक्त इत्यध्याहारः ।

अग्निसंयुक्तनवनीतपिण्डस्य पश्चाद्यथा घृतत्वं जन्यते तद्वन्निरतिशयानन्दाद्वयचित्स्वभावं ब्रह्म, आत्मनस्तेनैक्यमनादिसिद्धं विषयत्वेन निर्दिष्टम् , अतो ज्ञानाग्निसंसर्गानन्तरमानन्दरूपेण जायते ब्रह्म, अतो ज्ञानसंसर्गादुत्तरकालीनमानन्दत्वं ततः प्राक्तनविषयोक्त्या नोक्तमिति आशङ्क्य आनन्दस्य जन्यत्वाभावात् विषयोक्त्या उक्तमेवेत्याह -

न सा विषयाद् बहिरिति ।

समस्तप्रपञ्चशून्यं ब्रह्मेति श्रुत्या निर्दिष्टं तदैक्यलक्षणविषयोक्तौ बन्धनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि निर्दिष्टं भवति । अतोऽनर्थतद्धेतुनिवृत्तिलक्षणप्रयोजनमपि न पृथग्वक्तव्यमित्याशङ्क्य सत्यबन्धनिवृत्तित्वं ब्रह्मणः स्वरूपम् , अतस्तदैक्यरूपविषयोक्तौ सत्यबन्धनिवृत्तिः प्रयोजनत्वेनोक्ता स्यात् । प्रातिभासिकबन्धनिवृत्तिस्तु ज्ञानोदयनान्तरीयकसिद्धाप्रयोजनत्वेन इदानीमुच्यत इत्याह -

समूलानर्थहानिस्त्विति ।

पूर्वग्रन्थोक्तमनर्थहेतुनिवृत्तेः बहिष्ट्वं प्रातिभासिकबन्धनिवृत्तेः उक्तमित्यजानन् परमार्थबन्धनिवृत्तेः उक्तमिति मत्वा चोदयति -

अनर्थहेतुप्रपहाणमितिप्रहाणमपि तर्हीति ।

प्रतिपादनपूर्वकमेवेति निष्प्रपञ्चरूपेण ब्रह्मप्रतिपादनपूर्वकमेवेत्यर्थः ।

पदार्थप्रतिपादकवाक्यं नास्तीति तत्राह –

तद्यथेति ।

प्रपञ्चस्य ब्रह्मरूपेणैकरूपेणैव रूपत्वभिधानादितिरूपवत्वाभिधानात् जगद् ब्रह्मणि निर्दिश्य ब्रह्मण एव सत्यत्वाभिधानाच्च निरस्तप्रपञ्चं ब्रह्म प्रतिपाद्यत इति भावः ।

एकं वाक्यमिति ।

तत्त्वमसीति तादात्म्यवाक्येन एकवाक्यमित्यर्थः ।

ब्रह्मगतप्रपञ्चनिवृत्तेः ब्रह्मात्मैक्यरूपविषयमात्रत्वेऽपि जीवस्यानर्थयोगित्वादेव अनर्थनिवृत्त्यभावात् न तस्याविषयान्तर्भाव इति तत्राह -

तथा सति तादृशेनेति ।

निष्प्रपञ्चब्रह्मणा एकतां गच्छन् जीवः स्वगतानर्थहेतुभूताग्रहणरूपाविद्यामहं मनुष्य इत्याद्यन्यथाग्रहणं च निर्लेपं निश्शेषं पराकृत्यैव पश्चात् ब्रह्मैक्येन महावाक्यरूपशास्त्रेण प्रमीयत इत्यर्थः ।

यद्येवमिति ।

पारमार्थिकबन्धनिरासस्तु प्रतिपाद्यविषयान्तर्भूतोऽपि प्रातिभासिकाविद्यातत्कार्यनिरासो ज्ञाननान्तरीयक इति विषयोक्त्या न तस्योक्तिरित्यर्थः ।

न शब्दस्येति ।

ब्रह्मप्रतिपादकशब्दस्य एकत्वप्रतिपादकशब्दस्य चेत्यर्थः ।

युक्तञ्चैतदिति ।

नान्तरीयकतयाविद्यादिप्रहाणनिष्पत्तिर्युक्ता तत्त्वावभासविरोधित्वात् अविद्यातत्कार्यत्वाच्चेत्यर्थः ।