पञ्चपादिका
वक्तव्यकाशिका
 
अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरूपमभिधीयताम् । इदमुच्यते — प्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , न स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमे । तथा च तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं च रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो न सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेन । तेनोच्यते — विद्याप्रतिपत्तये इति ॥ ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहि — जीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः न विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यते — भवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? न हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति ॥

तथा अनुभवफलानुत्पत्ताविति ।

असम्भावनाभिभूतविषये आपरोक्ष्यफलानुत्पत्तावित्यर्थः ।

अनात्मनि सम्भवेऽप्यात्मनि स्वयम्प्रकाशे असम्भावनादिरूपप्रतिबन्धो न सम्भवतीति तत्राह -

तथा च तत्त्वमसीति ।

असम्भावयन्निति ।

चित्तस्य ब्रह्मात्मपरिभावनासंस्कारनिमित्तैकाग्र्यवृत्त्ययोग्यतया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।

विपरीतं च रूपमिति ।

शरीराद्यभिमानसंस्कारप्रचयनिमित्तानेकाग्रतादोषेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मागमादिमनननिदिध्यासनशमादयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।

अविकलअविचालमितिमनुवर्तमानत्वादिति ।

व्यतिरेकज्ञानादूर्ध्वमिव ब्रह्मात्मज्ञानादूर्ध्वमपि अनुवर्तमानत्वात् अनिवर्तकत्वमितिअनुवर्तकत्वं तुल्यमित्यर्थः ।

अज्ञाननिवर्तकत्वमपि ब्रह्मज्ञानस्य व्यतिरेकज्ञानवन्न सिध्यतीति तत्राह -

न हि जीवस्येति ।

ब्रह्मात्मज्ञानेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वाद्यर्थमभ्युदयाय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्मफलातिरिक्तफलशून्यतयाशून्यत्वतयेति कर्मफलसमृद्ध्यर्थानि अङ्गाश्रितोपासनानीत्यर्थः ।