तथा अनुभवफलानुत्पत्ताविति ।
असम्भावनाभिभूतविषये आपरोक्ष्यफलानुत्पत्तावित्यर्थः ।
अनात्मनि सम्भवेऽप्यात्मनि स्वयम्प्रकाशे असम्भावनादिरूपप्रतिबन्धो न सम्भवतीति तत्राह -
तथा च तत्त्वमसीति ।
असम्भावयन्निति ।
चित्तस्य ब्रह्मात्मपरिभावनासंस्कारनिमित्तैकाग्र्यवृत्त्ययोग्यतया आपरोक्ष्याभावं मन्यमान इत्यर्थः ।
विपरीतं च रूपमिति ।
शरीराद्यभिमानसंस्कारप्रचयनिमित्तानेकाग्रतादोषेण परोक्षमिति मन्यमान इत्यर्थः । यावत्तर्केण इत्यत्र तर्कशब्देन कर्मागमादिमनननिदिध्यासनशमादयो वेदान्तेषु शब्दसहकारित्वेन निर्दिष्टा इत्यर्थः ।
अविकलअविचालमितिमनुवर्तमानत्वादिति ।
व्यतिरेकज्ञानादूर्ध्वमिव ब्रह्मात्मज्ञानादूर्ध्वमपि अनुवर्तमानत्वात् अनिवर्तकत्वमितिअनुवर्तकत्वं तुल्यमित्यर्थः ।
अज्ञाननिवर्तकत्वमपि ब्रह्मज्ञानस्य व्यतिरेकज्ञानवन्न सिध्यतीति तत्राह -
न हि जीवस्येति ।
ब्रह्मात्मज्ञानेन समानविषयत्वात् निवर्तकमिति भावः । ऐश्वर्याय पश्वाद्यर्थमभ्युदयाय स्वर्गाद्यर्थम् , कर्मसमृद्धय इति कर्मफलातिरिक्तफलशून्यतयाशून्यत्वतयेति कर्मफलसमृद्ध्यर्थानि अङ्गाश्रितोपासनानीत्यर्थः ।