मुक्तिफलान्येव इति ।
परम्परया ब्रह्मात्मैकत्वावगति हेतुतया मुक्तिफलान्येवेत्यर्थः ।
ब्रह्मात्मैकत्वबन्धनिवृत्त्योः वेदान्तं प्रति विषयप्रयोजनत्वमस्तु विचारशास्त्रस्य विषयादि न लभ्यत इत्याशङ्क्य तस्यापि त एव विषयप्रयोजने इति मत्वा आह -
यथा चायमिति ।
भाष्यस्य तात्पर्यमाह -
प्रतिज्ञातेऽर्थ इति ।
प्रथमसूत्रेणार्थात् सूत्रिते ब्रह्मात्मैकत्व इत्यर्थः ।
उपदर्शयितुमिति ।
उपदर्शयितुं समर्थन्यायो ग्रथित इति दर्शयतीत्यर्थः ।
कृतो ग्रन्थ इति
वेदान्ता उच्यन्ते ।
वेदान्तान्तं शरीरकत्वेऽपि विचारशास्त्रस्य कथं शारीरकत्वमिति तदाह –
तदिहेति ।
प्रणीतानामिति ।
सूत्राणामित्यर्थः । विचारकर्तव्यतामात्रं सूत्रार्थः ।
तत्र विषयप्रयोजनयोरसूत्रितयोः वेदान्ततद्विचारसम्बन्धितया उपपादनमयुक्तमित्याशङ्क्य सूत्रितत्वं दर्शयति -
मुमुक्षत्वे सत्यनन्तरमिति ।
यत्र प्रवृत्तिरिति ।
यस्मिन् धात्वर्थे हितसाधनता लिङादिपदैरुपदिश्यत इत्यर्थः ।
यत्र प्रवृत्तिरिति ।
प्रवृत्तिविषयहितसाधनतोच्यते ।
तस्येति ।
धात्वर्थस्येत्यर्थः । तत्साधनत्वं कामितसाधनत्वमित्यर्थः ।
कथं विषयादिसूत्रितमिति तदाह -
तथा सतीति ।
ब्रह्मज्ञानं विषयो निर्दिष्ट इति ज्ञायमानं ब्रह्म ज्ञानहेतुशास्त्रं प्रति विषयत्वेन निर्दिष्टमित्यर्थः ।
वृत्तं सङ्कीर्तयति -
तदेवमित्यादिना ।
प्रतिज्ञातार्थसिद्धय इति ।
वेदान्तानां बन्धनिवृत्तिः ब्रह्मात्मैक्यं च विषयप्रयोजन इति प्रतिज्ञातार्थसिद्धय इत्यर्थः ।
व्याख्येयत्वमुपक्षिप्य इति ।
शास्त्रे प्रदर्शयिष्याम इत्युक्त्या शास्त्रस्यापि वेदान्तविषयादिना विषयादिमत्वद्योतनेन विषयादिमत्वादेव व्याख्येयत्वमुपक्षिप्येत्यर्थः ।
वेदान्तमीमांसेत्यादिभाष्यस्य तात्पर्यमाह -
प्रथमं तावदिति ।
प्रथमसूत्रेणोपपादन इत्यर्थः । महिमेति महातात्पर्यमुच्यते ।
तत्राद्यशब्दइत्यादिपदव्याख्यानभाष्यस्य वृत्तसङ्कीर्तनपू्र्वकं तात्पर्यमाह -
एवं सूत्रस्येति ।
तत्सामर्थ्यावगतं सूत्रसामर्थ्यावगतमित्यर्थः । || इति प्रथमवर्णककाशिका ||