पञ्चपादिका
वक्तव्यकाशिका
 

अथ द्वितीयवर्णकम्

सिद्धैव ननु ब्रह्मजिज्ञासा ? ‘अथातो धर्माजिज्ञासे’ति सकलवेदार्थविचारस्योदितत्वात्ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वात् , अतः सिद्धैव ब्रह्मजिज्ञासापिअभ्यधिकाशङ्काभावादिति

विचारविधेः बन्धनिवृत्तिरूपफलानुबन्धो ब्रह्मात्मतारूपव्यवहितविषयानुबन्धश्चोक्तः । इदानीं विचाराख्याव्यवहितविषयानुबन्धम् अन्यत एवाप्राप्तानुष्ठानं दर्शयितुं प्रथममाक्षिपति -

सिद्धैव ननु ब्रह्मजिज्ञासेति ।

वेदान्तानामर्थनिर्णयापेक्षितो न्यायकलापन्यायकला इति अथातो धर्मजिज्ञासेत्यादिसूत्रेसूत्रैरिति सूत्रित इत्यर्थः ।

विधिवाक्यार्थनिर्णयः तत्र प्रवृत्त इत्याशङ्क्य वेदस्य कार्यमात्रपरत्वमङ्गीकृत्य परिहरति -

सकलवेदार्थेति ।

अत्र चोदितत्वादितिसकलवेदार्थविचारस्य चोदितत्वादिति व्याख्यानुसारी पाठः पदच्छेदः । विहितत्वादित्यर्थः । उदितत्वादिति च पदच्छेदः । उदितत्वात् प्रतिज्ञातत्वात् चकाराद्विचारितत्वाच्चेत्यर्थः ।

वेदान्तानां ब्रह्मविषयत्वात् सकलवेदस्य न कार्यार्थत्वमित्याशङ्क्य तेषामपि ज्ञानाख्यधर्मरूपकार्यार्थत्वमेवेत्याह -

ब्रह्मज्ञानस्य चेति ।

यथा प्रत्यध्यायमाशङ्कान्तरनिराकरणेन विध्यंशभेदो निरूपितः तथा प्रतिपत्तव्यस्य ब्रह्मणः प्रत्यक्षादिभिरसिद्धत्वात् तद्विशेषप्रतिपत्तिविध्ययोगशङ्कायां यूपाहवनीयादिवत् ब्रह्मणः सिद्धेरसिद्धौ चारोपितरूपेणापि उपासनासिद्धेः वेदान्तेषु विधिरस्तीति निर्णयाय इदमारभ्यत इति तत्राह -

अभ्यधिकाशङ्काभावादिति ।