ब्रह्मणि प्रमाणाभावादेव तस्याभावात् न तद्विचाराय शास्त्रमारब्धव्यमिति । द्वितीयारम्भवादिनो व्यावर्त्यशङ्कामाह -
ब्रह्मणि प्रत्ययान्तराणामिति ।
कार्यविषयतया सुतरामिति ।
आम्नायस्य कार्यनिष्ठत्वात् ब्रह्मनिष्ठत्वेऽपि तस्मिन् योग्यप्रमाणान्तरासम्भवात् स्पर्शगोचरचाक्षुषचित्रनिम्नोन्नतादिवत् ब्रह्मवस्त्वभावात् न तत्र प्रामाण्यसिद्धिरित्यर्थः । सङ्कर्षपर्यन्त इति कर्मकाण्डं देवताकाण्डं ब्रह्मकाण्डमिति काण्डत्रयात्मिकायां मीमांसायां सङ्कर्षाख्यदेवताकाण्डावसाने वेदार्थविचारस्य समाप्तिः (स्यात्)ब्रह्मणो अभावादिति बुद्धिः स्यादित्यर्थः ।
तन्निरासार्थमिति ।
वेदान्तेषु विधिरस्ति । स च विधिः आत्ममात्रज्ञानस्य नित्यप्राप्तत्वेऽपि आत्मतया ब्रह्मणः अवबोधे सम्भवति । अतो विधौ महातात्पर्येऽपि विध्याकाङ्क्षितब्रह्मण्यपि अवान्तरतात्पर्यमस्ति । अतो ब्रह्मणः सद्भावात् तत्प्रतिपत्तिविध्योश्च सम्भवात् विधिशेषब्रह्मविचाराय पुनः प्रतिज्ञातमित्यर्थः ।
ब्रह्मणो नास्तित्वमाशङ्क्य समाधानं क्रियते चेत् सिद्धान्तात् को विशेष इति तत्राह -
इहापीति ।
द्वितीयारम्भवादिमतेऽपीत्यर्थः ।
आत्मज्ञानविधानेष्विति ।
आत्मप्रतिपादकवेदान्तवाक्येष्वित्यर्थः ।
समामिति ।
कर्मभागेन समामित्यर्थः ।
नित्यप्राप्तमहमित्यात्ममात्रज्ञानं न विधेयमिति । सत्यम् । न तस्य विधिरित्याह -
तत्वावबोधश्चेति ।
अधिकारनियोगविषयतयेति ।
‘तरति शोकमात्मवित्छा० ७ - १ - ३’ ‘ब्रह्म वेद ब्रह्मैव भवतिमु० ३ - २ - ९’ इत्यादिवाक्येषु ज्ञानस्य फलसम्बन्धो गम्यते । तत्फलकामिना ज्ञानमनुष्ठेयं नियोगाच्चानुष्ठानमिति इष्टफलकामिनियोगविषयतया अवगमादिति भावः । तद्विचारार्थम् ; विधिशेषब्रह्मविचारार्थमित्यर्थः ।